स दृष्ट्वा लक्ष्मणम् दीनम् शून्यम् दशरथ आत्मजः । पर्यपृच्छत धर्माअत्मा वैदेहीम् आगतम् विना ॥१॥
पंचाशः सर्गः 3.58
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
प्रस्थितम् दण्डक अरण्यम् या माम् अनुजगाम ह । क्व सा लक्ष्मण वैदेही याम् हित्वा त्वम् इह आगतः ॥२॥
राज्य भ्रष्टस्य दीनस्य दण्डकान् परिधावतः । क्व सा दुःख सहाया मे वैदेही तनु मध्यमा ॥३॥
याम् विना न उत्सहे वीर मुहूर्तम् अपि जीवितुम् । क्व सा प्राण सहाया मे सीता सुर सुत उपमा ॥४॥
पतित्वम् अमराणाम् वा पृथिव्याः च अपि लक्ष्मण । विना ताम् तपनीय आभाम् न इच्छेयम् जनक आत्मजाम् ॥५॥
कच्चित् जीवति वैदेही प्राणैः प्रियतरा मम । कच्चित् प्रव्राजनम् वीर न मे मिथ्या भविष्यति ॥६॥
सीता निमित्तम् सौमित्रे मृते मयि गते त्वयि । कच्चित् स कामा सुखिता कैकेयी सा भविष्यति ॥७॥
स पुत्र राज्याम् सिद्ध अर्थाम् मृत पुत्रा तपस्विनी । उपस्थास्यति कौसल्या कच्चित् सौम्येन - सौम्य न - कैकयीम् ॥८॥
यदि जीवति वैदेही गमिष्याम्य् आश्रमम् पुनः । सुवृत्ता यदि वृत्ता सा प्राणान् त्यक्ष्यामि लक्ष्मण ॥९॥
यदि माम् आश्रम गतम् वैदेही न अभिभाषते । पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण ॥१०॥
ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा । त्वयि प्रमत्ते रक्षोभिः भक्षिता वा तपस्विनी ॥११॥
सुकुमारी च बाला च नित्यम् च अदुःख दर्शिनी । मत् वियोगेन वैदेही व्यक्तम् शोचति दुर्मनाः ॥१२॥
सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना । वदता लक्ष्मण इति उच्छैः तव अपि जनितम् भयम् ॥१३॥
श्रुतः च मन्ये वैदेह्या स स्वरः सदृशो मम । त्रस्तया प्रेषितः त्वम् च द्रष्टुम् माम् शीघ्रम् आगतः ॥१४॥
सर्वथा तु कृतम् कष्टम् सीताम् उत्सृजता वने । प्रतिकर्तुम् नृशंसानाम् रक्षसाम् दत्तम् अन्तरम् ॥१५॥
दुःखिताः खर घातेन राक्षसाः पिशित अशनाः । तैः सीता निहता घोरैः भविष्यति न संशयः ॥१६॥
अहो अस्मि व्यसने मग्नः सर्वथा रिपु नाशन । किम् तु इदानीम् करिष्यामि शंके प्राप्तव्यम् ईदृशम् ॥१७॥
इति सीताम् वरारोहाम् चिंतयन् एव राघवः । आजगाम जन स्थानम् त्वरया सह लक्ष्मणः ॥१८॥
विगर्हमाणो अनुजम् आर्त रूपम् क्षुधा श्रमेण एव पिपासया च । विनिःश्वसन् शुष्क मुखो विषण्णः प्रतिश्रयम् प्राप्य समीक्ष्य शून्यम् ॥१९॥
स्वम् आश्रमम् स प्रविगाह्य वीरो विहार देशान् अनुसृत्य कांश्चित् । एतत् तत् इति एव निवास भूमौ प्रहृष्ट रोमा व्यथितो बभूव ॥२०॥
इति वाल्मीकि रामायणे आदि काव्ये अरण्य काण्डे अष्ट पंचाशः सर्गः ॥