रामायणम्

षष्टितमः सर्गः 3.59

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

अथ आश्रमात् उपावृत्तम् अंतरा रघुनंदनः । परिपप्रच्छ सौमित्रिम् रामो दुःख अर्दितः पुनः ॥१॥

तम् उवाच किम् अर्थम् त्वम् आगतो अपास्य मैथिलीम् । यदा सा तव विश्वासात् वने विहरिता मया ॥२॥

दृष्ट्वा एव अभ्यागतम् त्वाम् मे मैथिलीम् त्यज्य लक्ष्मण । शंकमानम् महत् पापम् यत् सत्यम् व्यथितम् मनः ॥३॥

स्फुरते नयनम् सव्यम् बाहुः च हृदयम् च मे । दृष्ट्वा लक्ष्मण दूरे त्वाम् सीता विरहितम् पथि ॥४॥

एवम् उक्तः तु सौमित्रिः लक्ष्मणः शुभ लक्षणः । भूयो दुःख संआविष्टो दुःखितम् रामम् अब्रवी ॥५॥

3.59.5 #71d6399c1d6e timing uncertain

न स्वयम् काम कारेण ताम् त्यक्त्वा अहम् इह आगतः । प्रचोदितस्तयैवोग्रैत्वत्सकाशमिहाअगतः - यद्वा - प्रचोदितः तया एव उग्रैः त्वत् सकाशम् इह आगतः ॥६॥

आर्येण एव परिक्रुष्टम् - पराक्रुष्टम् - हा सीते लक्ष्मण इति च । परित्राहि इति यत् वाक्यम् मैथिल्याः तत् श्रुतिम् गतम् ॥७॥

सा तम् आर्त स्वरम् श्रुत्वा तव स्नेहेन मैथिली । गच्छ गच्छ इति माम् आह रुदन्ती भय - विक्लवा - विह्वला ॥८॥

प्रचोद्यमानेन मया गच्छ इति बहुशः तया । प्रत्युक्ता मैथिली वाक्यम् इदम् तत् प्रत्यय अन्वितम् ॥९॥

न तत् पश्यामि अहम् रक्षो यत् अस्य भयम् आवहेत् । निर्वृता भव न अस्ति एतत् केन अपि एवम् उदाहृतम् ॥१०॥

विगर्हितम् च नीचम् च कथम् आर्यो अभिधास्यति । त्राहि इति वचनम् सीते यः त्रायेत् त्रिदशान् अपि ॥११॥

किम् निमित्तम् तु केन अपि भ्रातुः आलंब्य मे स्वरम् । विस्वरम् व्याहृतम् वाक्यम् लक्ष्मण त्राहि माम् इति ॥१२॥

राक्षसेन ईरितम् वाक्यम् त्रसात् त्राहि इति शोभने । न भवत्या व्यथा कार्या कुनारी जन सेविता ॥१३॥

अलम् वैक्लवताम् गंतुम् स्वस्था भव निर् उत्सुका । न च अस्ति त्रिषु लोकेषु पुमान् यो राघवम् रणे ॥१४॥

जातो वा जायमानो वा संयुगे यः पराजयेत् । अजेयो राघवो युद्धे देवैः शक्र पुरोगमैः ॥१५॥

एवम् उक्ता तु वैदेही परिमोहित चेतना । उवाच अश्रूणि मुंचन्ती दारुणम् माम् इदम् वचः ॥१६॥

भावो मयि तव अत्यर्थम् पाप एव निवेशितः । विनष्टे भ्रातरि प्राप्तुम् न च त्वम् माम् अवाप्स्यसि ॥१७॥

संकेतात् भरतेन त्वम् रामम् समनुगच्छसि । क्रोशन्तम् हि यथा अत्यर्थम् न एनम् अभ्यवपद्यसे ॥१८॥

रिपुः प्रच्छन्न चारी त्वम् मत् अर्थम् अनुगच्छसि । राघवस्य अन्तर प्रेप्सुः तथा एनम् न अभिपद्यसे ॥१९॥

एवम् उक्तो हि वैदेह्या संरब्धो रक्त लोचनः । क्रोधात् प्रस्फुरमाण ओष्ठ आश्रमात् अभिनिर्गतः ॥२०॥

एवम् ब्रुवाणम् सौमित्रिम् रामः संताप मोहितः । अब्रवीत् दुष्कृतम् सौम्य ताम् विना यत् त्वम् आगतः ॥२१॥

जानन् अपि समर्थम् माम् रक्षसाम् अपवारणे । अनेन क्रोध वाक्येन मैथिल्या निर्गतो भवान् ॥२२॥

न हि ते परितुष्यामि त्यक्त्वा यत् यासि मैथिलीम् । क्रुद्धायाः परुषम् श्रुत्वा स्त्रिया यत् त्वम् इह आगतः ॥२३॥

सर्वथा तु अपनीतम् ते सीतया यत् प्रचोदितः । क्रोधस्य वशम् आगम्य न अकरोः शासनम् मम ॥२४॥

असौ हि राक्षसः शेते शरेण अभिहतो मया । मृग रूपेण येन अहम् आश्रमात् अपवाहितः ॥२५॥

विकृष्य चापम् परिधाय सायकम् स लील बाणेन च ताडितो मया । मार्गीम् तनुम् त्यज्य च विक्लव स्वरो बभूव केयूर धरः स राक्षसः ॥२६॥

शर आहतेन एव तदा आर्तया गिरा स्वरम् मम आलंब्य सु दूर सु श्रवम् । उदाहृतम् तत् वचनम् सु दारुणम् त्वम् आगतो येन विहाय मैथिलीम् ॥२७॥

इति वाल्मीकि रामायणे आदि काव्ये अरण्य काण्डे एको न षष्टितमः सर्गः ॥

Listen to the sarga
0:00