दृष्ट्वा आश्रम पदम् शून्यम् रामो दशरथ आत्मजः । रहिताम् पर्णशालाम् च प्रविद्धानि आसनानि च ॥१॥
षष्टितमः सर्गः 3.61
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
अदृष्ट्वा तत्र वैदेहीम् संनिरीक्ष्य च सर्वशः । उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ ॥२॥
क्व नु लक्ष्मण वैदेही कम् वा देशम् इतो गता । केन आहृता वा सौमित्रे भक्षिता केन वा प्रिया ॥३॥
वृक्षेण आवार्य यदि माम् सीते हसितुम् इच्छसि । अलम् ते हसितेन अद्य माम् भजस्व सुदुःखितम् ॥४॥
यैः सह क्रीडसे सीते विश्वस्तैः मृग पोतकैः । एते हीनाः त्वया सौम्ये ध्यायन्ति अस्र आविल ईक्षणाः ॥५॥
सीताया रहितो अहम् वै न हि जीवामि लक्ष्मण । वृतम् शोकेन महता सीता हरणजेन माम् ॥६॥
पर लोके महाराजो नूनम् द्रक्ष्यति मे पिता । कथम् प्रतिज्ञाम् संश्रुत्य मया त्वम् अभियोजितः ॥७॥
अपूरयित्वा तम् कालम् मत् सकाशम् इह आगतः । काम वृत्तम् अनार्यम् माम् मृषा वादिनम् एव च ॥८॥
धिक् त्वाम् इति परे लोके व्यक्तम् वक्ष्यति मे पिता । विवशम् शोक संतप्तम् दीनम् भग्न मनोरथम् ॥९॥
माम् इह उत्सृज्य करुणम् कीर्तिः नरम् इव अन्ऋजुम् । क्व गच्चसि वरारोहे मा मोत्सृज्य - मा मा उत्सृज्य - सुमध्यमे ॥१०॥
त्वया विरहितः च अहम् त्यक्ष्ये जीवितम् आत्मनः । इति इव विलपन् रामः सीता दर्शन लालसः ॥११॥
न ददर्श सुदुःख आर्तो राघवो जनक आत्मजाम् । अनासादयमानम् तम् सीताम् शोकपरायणम् ॥१२॥
पंकम् आसाद्य विपुलम् सीदन्तम् इव कुंजरम् । लक्ष्मणो रामम् अत्यर्थम् उवाच हित काम्यया ॥१३॥
मा विषादम् महाबुद्धे कुरु यत्नम् मया सह । इदम् गिरि वरम् वीर बहु कन्दर शोभितम् ॥१४॥
प्रिय कानन संचारा वन उन्मत्ता च मैथिली । सा वनम् वा प्रविष्टा स्यात् नलिनीम् वा सुपुष्पिताम् ॥१५॥
सरितम् वा अपि संप्राप्ता मीन वंजुल सेविताम् । वित्रासयितु कामा वा लीना स्यात् कानने क्वचित् ॥१६॥
जिज्ञासमाना वैदेही त्वाम् माम् च पुरुषर्षभ । तस्या हि अन्वेषणे श्रीमन् क्षिप्रम् एव यतावहे ॥१७॥
वनम् सर्वम् विचिनुवो यत्र सा जनक आत्मजा । मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः ॥१८॥
एवम् उक्तः तु सौहार्दात् लक्ष्मणेन समाहितः । सह सौमित्रिणा रामो विचेतुम् उपचक्रमे ॥१९॥
तौ वनानि गिरीन् चैव सरितः च सरांसि च । निखिलेन विचिन्वन्तौ सीताम् दशरथ आत्मजौ ॥२०॥
तस्य शैलस्य सानूनि शिलाः च शिखराणि च । निखिलेन विचिन्वन्तौ न एव ताम् अभिजग्मतुः ॥२१॥
विचित्य सर्वतः शैलम् रामो लक्ष्मणम् अब्रवीत् । न इह पश्यामि सौमित्रे वैदेहीम् पर्वते शुभाम् ॥२२॥
ततो दुःख अभिसंतप्तो लक्ष्मणो वाक्यम् अब्रवीत् । विचरन् दण्डक अरण्यम् भ्रातरम् दीप्त तेजसम् ॥२३॥
प्राप्स्यसि त्वम् महाप्राज्ञ मैथिलीम् जनक आत्मजाम् । यथा विष्णुः महाबाहुः बलिम् बद्ध्वा महीम् इमाम् ॥२४॥
एवम् उक्तः तु वीरेण लक्ष्मणेन स राघवः । उवाच दीनया वाचा दुःख अभिहत चेतनः ॥२५॥
वनम् सुविचितम् सर्वम् पद्मिन्यः फुल्ल पंकजाः । गिरिः च अयम् महाप्राज्ञ बहु कन्दर निर्झरः । न हि पश्यामि वैदेहीम् प्राणेभ्यो अपि गरीयसीम् ॥२६॥
एवम् स विलपन् रामः सीता हरण कर्शितः । दीनः शोक समाविष्टो मुहूर्तम् विह्वलो अभवत् ॥२७॥
स विह्वलित सर्व अंगो गत बुद्धिः विचेतनः । निषसाद आतुरो दीनो निःश्वस्य अशीतम् आयतम् ॥२८॥
बहुशः स तु निःश्वस्य रामो राजीव लोचनः । हा प्रिये ति विचुक्रोश बहुशो बाष्प गद्गदः ॥२९॥
तम् सान्त्वयामास ततो लक्ष्मणः प्रिय बान्धवम् । बहु प्रकारम् शोक आर्तः प्रश्रितः प्रश्रित अंजलिः ॥३०॥
अनादृत्य तु तत् वाक्यम् लक्ष्मण ओष्ठ पुट च्युतम् । अपश्यन् ताम् प्रियाम् सीताम् प्राक्रोशत् स पुनः पुनः ॥३१॥
इति वाल्मीकि रामायणे आदि काव्ये अरण्य काण्डे एक षष्टितमः सर्गः ॥