सीताम् अपश्यन् धर्मात्मा शोक उपहत चेतनः । विललाप महाबाहू रामः कमल लोचनः ॥१॥
षष्टितमः सर्गः 3.62
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
पश्यन् इव च ताम् सीताम् अपश्यन् मदन अर्दितः । उवाच राघवो वाक्यम् विलाप आश्रय दुर्वचम् ॥२॥
त्वम् अशोकस्य शाखाभिः पुष्प प्रिय तराअ प्रिये । अवृणोषि शरीरम् ते मम शोक विवर्धिनी ॥३॥
कदली काण्ड सदृशौ कदल्या संवृता उभौ । ऊरू पश्यामि ते देवि न असि शक्ता निगूहितुम् ॥४॥
कर्णिकार वनम् भद्रे हसंती देवि सेवसे । अलम् ते परिहासेन मम बाधावहेन वै ॥५॥
विशेषेण आश्रमस्थाने हासो अयम् न प्रशस्यते । अवगच्छामि ते शीलम् परिहास प्रियम् प्रिये ॥६॥
आगच्छ त्वम् विशालाक्षी शून्यो अयम् उटजः तव । सु व्यक्तम् राक्षैः सीता भक्षिता वा हृता अपि वा ॥७॥
न हि सा विलपंतम् माम् उपसम्प्रैति लक्ष्मण । एतानि मृग यूधानि स अश्रु नेत्राणि लक्ष्मण ॥८॥
शंशन्ति इव हि मे देवीम् भक्षिताम् रजनीचरैः । हा मम आर्ये क्व याता असि हा साध्वि वर वर्णिनि ॥९॥
हा स कामा अद्य कैकेयी देवि मे अद्य भविष्यति । सीताया सह निर्यातो विना सीताम् उपागतः ॥१०॥
कथम् नाम प्रवेक्ष्यामि शून्यम् अन्तः पुरम् मम । निर्वीर्य इति लोको माम् निर्दयः च इति वक्ष्यति ॥११॥
कातरत्वम् प्रकाशम् हि सीता अपनयनेन मे । निवृत्त वन वासः च जनकम् मिथिल अधिपम् ॥१२॥
कुशलम् परिपृच्छन्तम् कथम् शक्षे निरीक्षितुम् । विदेह रजो नूनम् माम् दृष्ट्वा विरहितम् तया ॥१३॥
सुता विनाश संतप्तो मोहस्य वशम् एष्यति । अथवा न गमिष्यामि पुरीम् भरत पालितम् ॥१४॥
स्वर्गो अपि हि तया हीनः शून्य एव मतो मम । तत् माम् उत्सृज्य हि वने गच्छ अयोध्या पुरीम् शुभाम् ॥१५॥
न तु अहम् ताम् विना सीताम् जीवेयम् हि कथंचन । गाढम् आश्लिष्य भरतो वाच्यो मत् वचनात् त्वया ॥१६॥
अनुज्ञातो असि रामेण पालय इति वसुंधराम् । अंबा च मम कैकेयी सुमित्रा च त्वया विभो ॥१७॥
कौसल्या च यथा न्यायम् अभिवाद्या मम अज्ञया । रक्षणीया प्रयत्नेन भवता सा उक्त कारिणा ॥१८॥
सीतायाः च विनाशो अयम् मम च अमित्र सूदन । विस्तरेण जनन्या विनिवेद्य त्वया भवेत् ॥१९॥
इति विलपति राघवो तु दीनो वनम् उपगम्य तया विना सु केश्या । भय विकल मुखः तु लक्ष्मणो अपि व्यथित मना भृशम् आतुरो बभूव ॥२०॥
इति वाल्मीकि रामायणे आदि काव्ये अरण्य काण्डे द्वि षष्टितमः सर्गः ॥