स राज पुत्र प्रिया विहीनः शोकेन मोहेन च पीड्यमानः । विषादयन् भ्रातरम् आर्त रूपो भूयो विषादम्प्रविवेश तीव्रम् ॥१॥
षष्टितमः सर्गः 3.63
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
स लक्ष्मणम् शोक वश अभिपन्नम् शोके निमग्नो विपुले तु रामः । उवाच वाक्यम् व्यसनानुरूपम् उष्णम् विनिःश्वस्य रुदन् स शोकम् ॥२॥
न मत् विधो दुष्कृत कर्म कारी मन्ये द्वितीयो अस्ति वसुंधरायाम् । शोक अनुशोको हि परंपराया माम् एति भिन्दन् हृदयम् मनः च ॥३॥
पूर्वम् मया नूनम् अभीप्सितानि पापानि कर्माणि असत्कृत् कृतानि । तत्र अयम् अद्य पतितो विपाको दुःखेन दुःखम् यद् अहम् विशामि ॥४॥
राज्य प्रणाशः स्व जनैः वियोगः पितुर् विनाशो जननी वियोगः । सर्वानि मे लक्ष्मण शोक वेगम् आपूरयन्ति प्रविचिन्तितानि ॥५॥
सर्वम् तु दुःखम् मम लक्ष्मण इदम् शान्तम् शरीरे वनम् एत्य क्लेशम् । सीता वियोगात् पुनर् अपि उदीर्णम् काष्टैः इव अग्निः सहसा प्रदीप्तः ॥६॥
सा नूनम् आर्या मम राक्षसेन हि अभ्याहृता खम् समुपेत्य भीरुः । अपस्वरम् सु स्वर विप्रलापा भयेन विक्रन्दितवति अभीक्ष्णम् ॥७॥
तौ लोहितस्य प्रिय दर्शनस्य सदा उचितौ उत्तम चंदनस्य । वृत्तौ स्तनौ शोणित पंक दिग्धौ नूनम् प्रियाया मम न अभिभात ॥८॥
तत् श्लक्ष्ण सु व्यक्त मृदु प्रलापम् तस्या मुखम् कुंचित केश भारम् । रक्षो वशम् नूनम् उपगताया न भ्राजते राहु मुखे यथा इंदुः ॥९॥
ताम् हार पाशस्य सदा उचित अंतम् ग्रीवाम् प्रियाया मम सु व्रताया । रक्षांसि नूनम् परिपीतवन्ति शून्ये हि भित्वा रुधिर अशनानि ॥१०॥
मया विहीना विजने वने या रक्षोभिः आहृत्य विकृष्यमाणा । नूनम् विनादम् कुररि इव दीना सा मुक्तवती आयत कान्त नेत्रा ॥११॥
अस्मिन् मया सार्थम् उदार शीला शिला तले पूर्वम् उपोपविष्टा । कान्त स्मिता लक्ष्मण जात हासा त्वाम् आह सीता बहु वाक्य जातम् ॥१२॥
गोदावरी इयाम् सरिताम् वरिष्टा प्रिया प्रियाया मम नित्य कालम् । अपि अत्र गच्छेत् इति चिंतयामि न एकाकिनी याति हि सा कदाचित् ॥१३॥
पद्म आनना पद्म पलाश नेत्रा पद्मानि वा आनेतुम् अभिप्रयाता । तत् अपि अयुक्तम् न हि सा कद्दचित् मया विना गच्छति पंकजानि ॥१४॥
कामम् तु इदम् पुष्पित वृक्ष सण्डम् नाना विधैः पक्षि गणैः उपेतम् । वनम् प्रयाता नु तत् अपि अयुक्तम् एकाकिनी सा अति बिभेति भीरुः ॥१५॥
आदित्य भो लोक क्रृत अकृत ज्ञः लोकस्य सत्य अनृत कर्म साक्षिन् । मम प्रिया सा क्व गता हृता वा शंसव मे शोक हतस्य सर्वम् ॥१६॥
लोकेषु सर्वेषु न नास्ति किंचित् यत् ते न नित्यम् विदितम् भवेत् तत् । शंसस्व वयोः कुल शालिनीम् ताम् मृता हृता वा पथि वर्तते वा ॥१७॥
इति इव तम् शोक विधेय देहम् रामम् विसंज्ञम् विलपंतम् एव । उवाच सौमित्रिःअदीन सत्त्वः न्याये स्थितः काल युतम् च वाक्यम् ॥१८॥
शोकम् विमुंच आर्य धृतिम् भजस्व सह उत्साहता च अस्तु विमार्गणे अस्याः । उत्साहवन्तो हि नरा न लोके सीदन्ति कर्मसु अति दुष्करेषु ॥१९॥
इति इव सौमित्रिम् उदग्र पौरुषम् ब्रुवन्तम् आर्तो रघु वंश वर्धनः । न चिंतयामास धृतिम् विमुक्तवान् पुनः च दुःखम् महत् अभ्युपागमत् ॥२०॥
इति वाल्मीकि रामायणे आदि काव्ये अरण्य काण्डे त्रि षष्टितमः सर्गः ॥