रामः तु सहितः भ्रात्रा सीतया च परंतपः । सुतीक्ष्णस्य आश्रम पदम् जगाम सह तैः द्विजैः ॥१॥
सप्तमः सर्गः 3.7
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
स गत्वा दीर्घम् अध्वानम् नदीः तीर्त्वा बहु उदकाः । ददर्श विमलम् शैलम् महा मेरुम् इव उन्नतम् ॥२॥
ततः तद् इक्ष्वाकु वरौ सततम् विविधैः द्रुमैः । काननम् तौ विविशतुः सीतया सह राघवौ ॥३॥
प्रविष्टः तु वनम् घोरम् बहु पुष्प फल द्रुमम् । ददर्श आश्रमम् एकान्ते चीर माला परिष्कृतम् ॥४॥
तत्र तापसम् आसीनम् मल पङ्कज धारिणम् । रामः सुतीक्ष्णम् विधिवत् तपोधनम् अभाषत ॥५॥
रामोऽहम् अस्मि भगवन् भवन्तम् द्रष्टुम् आगतः । तत् मा अभिवद धर्मज्ञ महर्षे सत्य विक्रम ॥६॥
स निरीक्ष्य ततः धीरो रामम् धर्मभृताम् वरम् । समाश्लिष्य च बाहुभ्याम् इदम् वचनम् अब्रवीत् ॥७॥
स्वागतम् ते रघु श्रेष्ठ राम सत्यभृताम् वर । आश्रमओ अयम् त्वया आक्रान्तः सनाथ इव सांप्रतम् ॥८॥
प्रतीक्षमाणः त्वाम् एव न आरोहे अहम् महायशः । देव लोकम् इतो वीर देहम् त्यक्त्वा महीतले ॥९॥
चित्रकूटम् उपादाय राज्य भ्रष्टो असि मे श्रुतः । इह उपयातः काकुत्स्थः देवराजः शततक्रतुः ॥१०॥
उपागंय च मे देवो महादेवः सुर ईश्वरः । सर्वान् लोकान् जितान् आह मम पुण्येन कर्मणा ॥११॥
तेषु देव ऋषि जुष्टेषु जितेशु तपसा मया । मत् प्रसादात् स भार्यः त्वम् विहरस्व स लक्ष्मणः ॥१२॥
तम् उग्र तपसम् दीप्तम् महर्षिम् सत्य वादिनम् । प्रत्युवाच आत्मवान् रामो ब्रह्माणम् इव वासवः ॥१३॥
अहम् एव आहरिष्यामि स्वयम् लोकान् महामुने । आवासम् तु अहम् इच्छामि प्रदिष्टम् इह कानने ॥१४॥
भवान् सर्वत्र कुशलः सर्वभूत हिते रतः । आख्यातः शरभंगेन गौतमेन महात्मना ॥१५॥
एवम् उक्तः तु रामेण महर्षिः लोक विश्रुतः । अब्रवीत् मधुरम् वाक्यम् हर्षेण महता युतः ॥१६॥
अयम् एव आश्रमो राम गुणवान् रंयताम् इति । ऋषि संघ अनुचरितः सदा मूल फलैर् युतः ॥१७॥
इमम् आश्रमम् आगंय मृग संघा महीयसः । अहत्वा प्रतिगच्छन्ति लोभयित्वा अकुतोभयाः ॥१८॥
ना अन्यो दोषो भवेत् अत्र मृगेभ्यः अन्यत्र विद्धि वै । तत् श्रुत्वा वचनम् तस्य महर्षेः लक्ष्मणाग्रजः ॥१९॥
उवाच वचनम् धीरो विगृह्य स शरम् धनुः । तान् अहम् सुमहाभाग मृगसंघान् समागतान् ॥२०॥
हन्याम् निशित धारेण शरेण नत पर्वणा । भवान् तत्र अभिषज्येत किम् स्यात् कृच्छ्र तरम् ततः ॥२१॥
एतस्मिन् आश्रमे वासम् चिरम् तु न समर्थये । तम् एवम् उक्त्वा उपरमम् रामः संध्याम् उपागमत् ॥२२॥
अन्वास्य पश्चिमाम् संध्याम् तत्र वासम् अकल्पयत् । सुतीक्ष्णस्य आश्रमे रंये सीतया लक्ष्मनेन च ॥२३॥
ततः शुभम् तापस अन्नम् स्वयम् सुतीक्ष्णः पुरुषर्षभाभ्याम् । ताभ्याम् सुसत्कृत्य ददौ महात्मा संध्या निवृत्तौ रजनीम् समीक्ष्य ॥२४॥
इति वाल्मीकि रामायणे आदि काव्ये अरण्य काण्डे सप्तमः सर्गः ॥