रामायणम्

अष्टमः सर्गः 3.8

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

रामः तु सह सौमित्रिः सुतीक्ष्णेन अभिपूजितः । परिणांय निशाम् तत्र प्रभाते प्रत्यबुध्यत ॥१॥

उत्थाय च यथा कालम् राघवः सह सीतया । उपस्पृश्य सु शीतेन तोयेन उत्पल गंधिना ॥२॥

अथ ते अग्निम् सुराम् च एव वैदेही राम लक्ष्मणौ । काल्यम् विधिवत् अभ्यर्च्य तपस्वि शरणे वने ॥३॥

उदयन्तम् दिनकरम् दृष्ट्वा विगत कल्मषाः । सुतीक्ष्णम् अभिगंय इदम् श्लक्ष्णम् वचनम् अब्रुवन् ॥४॥

सुखोषिताः स्म भगवन् त्वया पूज्येन पूजिताः । आपृच्छामः प्रयास्यामो मुनयः त्वरयन्ति नः ॥५॥

त्वरामहे वयम् द्रष्टुम् कृत्स्नम् आश्रम मण्डलम् । ऋषीणाम् पुण्य शीलानाम् दण्डकारण्य वासिनाम् ॥६॥

अभ्यनुज्ञातुम् इच्छामः सह एभिः मुनिपुङ्गवैः । धर्म नित्यैः तपो दान्तैः विशिखैः इव पावकैः ॥७॥

अविषह्य आतपो यावत् सूर्यो न अति विराजते । अमार्गेण आगताम् लक्ष्मीम् प्राप्य इव अन्वय वर्जितः ॥८॥

तावत् इच्छामहे गन्तुम् इति उक्त्वा चरणौ मुनेः । ववन्दे सह सौमित्रिः सीतया सह राघवः ॥९॥

तौ सम् स्पृशंतौ चरणौ उत्थाप्य मुनिपुंगवः । गाढम् आश्लिष्य सस्नेहम् इदम् वचनम् अब्रवीत् ॥१०॥

अरिष्टम् गच्छ पन्थानम् राम सौमित्रिणा सह । सीतया च अनया सार्धम् छाय एव अनुवृत्तया ॥११॥

पश्य आश्रम पदम् रंयम् दण्डकारण्य वासिनाम् । एषाम् तपस्विनाम् वीर तपसा भावित आत्मनाम् ॥१२॥

सुप्राज्य फल मूलानि पुष्पितानि वनानि च । प्रशस्त मृग यूथानि शान्त पक्षि गणानि च ॥१३॥

फुल्ल पंकज खण्डानि प्रसन्न सलिलानि च । कारण्डव विकीर्णानि तटाकानि सरांसि च ॥१४॥

द्रक्ष्यसे दृष्टि रंयाणि गिरि प्रस्रवणानि च । रमणीयानि अरण्यानि मयूर अभिरुतानि च ॥१५॥

गंयताम् वत्स सौमित्रे भवान् अपि च गच्छतु । आगन्तव्यम् च ते दृष्ट्वा पुनः एव आश्रमम् प्रति ॥१६॥

एवम् उक्तः तथा इति उक्त्वा काकुत्स्थः सह लक्ष्मणः । प्रदक्षिणम् मुनिम् कृत्वा प्रस्थातुम् उपचक्रमे ॥१७॥

ततः शुभतरे तूणी धनुषी च आयतेक्षणा । ददौ सीता तयोः भ्रात्रोः खड्गौ च विमलौ ततः ॥१८॥

आबध्य च शुभे तूणी चापे च आदाय सस्वने । निष्क्रान्तौ आश्रमात् गन्तुम् उभौ तौ राम लक्ष्मणौ ॥१९॥

शीघ्रम् तौ रूपसंपन्नौ अनुज्ञातौ महर्षिणा । प्रस्थितौ धृत चापा असी सीतया सह राघवौ ॥२०॥

इति वाल्मीकि रामायणे आदिकाव्ये अरण्य काण्डे अष्टमः सर्गः ॥

Listen to the sarga
0:00