दिवम् तु तस्याम् यातायाम् शबर्याम् स्वेन तेजसा । लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः ॥१॥
सप्ततितमः सर्गः 3.75
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
चिंतयित्वा तु धर्मात्मा प्रभावम् तम् महात्मनाम् । हित कारिणम् एक अग्रम् लक्ष्मणम् राघवो अब्रवीत् ॥२॥
दृष्टो मया आश्रमः सौम्य बहु आश्चर्यः कृत आत्मनाम् । विश्वस्त मृग शार्दूलो नाना विहग सेवितः ॥३॥
सप्तानाम् च समुद्राणाम् तेषाम् तीर्थेषु लक्ष्मण । उपस्पृष्टम् च विधिवत् पितरः च अपि तर्पिताः ॥४॥
प्रणष्टम् अशुभम् यत् नः कल्याणम् समुपस्थितम् । तेन तु एतत् प्रहृष्टम् मे मनो लक्ष्मण संप्रति ॥५॥
हृदये हि नर व्याघ्र शुभम् आविर्भविष्यति । तत् आगच्छ गमिष्यावः पंपाम् ताम् प्रिय दर्शनाम् ॥६॥
ऋष्यमूको गिरिः यत्र न अति दूरे प्रकाशते । यस्मिन् वसति धर्मात्मा सुग्रीवो अंशुमतः सुतः ॥७॥
नित्यम् वालि भयात् त्रस्तः चतुर्भिः सह वानरैः । अहम् त्वरे च तम् द्रष्टुम् सुग्रीवम् वानरर्षभम् ॥८॥
तत् अधीनम् हि मे कार्यम् सीतायाः परिमार्गणम् । इति ब्रुवाणम् तम् वीरम् सौमित्रिः इदम् अब्रवीत् ॥९॥
गच्छावः त्वरितम् तत्र मम अपि त्वरते मनः । आश्रमात् तु ततः तस्मात् निष्क्रम्य स विशाम् पतिः ॥१०॥
आजगाम ततः पंपाम् लक्ष्मणेन सहप्रभुः । समीक्षमाणः पुष्प आढ्यम् सर्वतो विपुल द्रुमम् ॥११॥
कोयष्टिभिः च अर्जुनकैः शत पत्रैः च कीरकैः । एतैः च अन्यैः च बहुभिः नादितम् तत् वनम् महत् ॥१२॥
स रामो विविधान् वृक्षान् सरांसि विविधानि च । पश्यन् काम अभिसंतप्तो जगाम परमम् ह्रदम् ॥१३॥
स ताम् आसाद्य वै रामो दूरात् पानीय वाहिनीम् । मतंग सरसम् नाम ह्रदम् समवगाहत ॥१४॥
तत्र जग्मतुः अव्यग्रौ राघवौ हि समाहितौ । स तु शोक समाविष्टो रामो दशरथात्मजः ॥१५॥
विवेश नलिनीम् रम्याम् पंकजैः च समावृताम् । तिलकाशोकपुंनागबकुलोद्दालकाशिनीम् - यद्वा - तिलक अशोक पुन्नाग बकुल उद्दाल काशिनीम् ॥१६॥
रम्य उपवन संबाधाम् पद्म संपीडित उदकाम् । स्फटिक उपम तोय आढ्याम् श्लक्ष्ण वालुक संतताम् ॥१७॥
मत्स्य कच्छप संबाधाम् तीरस्थ द्रुम शोभिताम् । सखीभिः इव संयुक्ताम् लताभिः अनुवेष्टिताम् ॥१८॥
किंनरोरगगन्धर्वयक्षराक्षससेविताम् -यद्वा - । किन्नर उरग गन्धर्व यक्ष राक्षस सेविताम् । नाना द्रुम लता आकीर्णाम् शीत वारि निधिम् शुभाम् ॥१९॥
पद्म सौगन्धिकैः ताम्राम् शुक्लाम् कुमुद मण्डलैः । नीलाम् कुवलय उद् घाटैः बहु वर्णाम् कुथाम् इव ॥२०॥
अरविन्द उत्पलवतीम् पद्म सौगन्धिक आयुताम् । पुष्पित आम्र वणोपेताम् बर्हिण उद् घुष्ट नादिताम् ॥२१॥
स ताम् दृष्ट्वा ततः पंपाम् रामः सौमित्रिणा सह । विललाप च तेजस्वी कामात् दशरथात्मजः ॥२२॥
तिलकैः बीज पूरैः च वटैः शुक्ल द्रुमैः तथा । पुष्पितैः करवीरैः च पुन्नागैः च सु पुष्पितैः ॥२३॥
मालती कुंद गुल्मैः च भण्डीरैः निचुलैः तथा । अशोकैः सप्त पर्णैः च केतकैः अतिमुक्तकैः ॥२४॥
अन्यैः च विविधैः वृक्षैः प्रमदा इव उपशोभिताम् । अस्याः तीरे तु पूर्व उक्तः पर्वतो धातु मण्डितः ॥२५॥
ऋश्यमूक इति ख्यातः चित्र पुष्पित पादपः । हरेः ऋक्षरजो नाम्नः पुत्रः तस्य महात्मनः ॥२६॥
अध्यास्ते तु महावीर्यः सुग्रीव इति विश्रुतः । सुग्रीवम् अभिगच्छ त्वम् वानरेन्द्रम् नरर्षभ ॥२७॥
इति उवाच पुनः वाक्यम् लक्ष्मणम् सत्य विक्रमम् । कथम् मया विना सीताम् शक्यम् लक्ष्मण जीवितुम् ॥२८॥
इति एवम् उक्त्वा मदन अभिपीडितः स लक्ष्मणम् वाक्यम् अनन्य चेतनः । विवेश पंपाम् नलिनी मनो रमाम् तम् उत्तमम् शोकम् उदीरयाणः ॥२९॥
क्रमेण गत्वा प्रविलोकयन् वनम् ददर्श पंपाम् शुभ दर्श काननाम् । अनेक नाना विध पक्षि संकुलाम् विवेश रामः सह लक्ष्मणेन ॥३०॥
इति वाल्मीकि रामायणे आदि काव्ये अरण्य काण्डे पंचः सप्ततितमः सर्गः ॥