रामायणम्

एकादशः सर्गः 4.11

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

रामस्य वचनम् श्रुत्वा हर्ष पौरुष वर्धनम् । सुग्रीवः पूजयाम् चक्रे राघवम् प्रशशंस च ॥१॥

असंशयम् प्रज्वलितैः तीक्ष्णैर् मर्म अतिगैः शरैः । त्वम् दहेः कुपितो लोकान् युगान्त इव भास्करः ॥२॥

वालिनः पौरुषम् यत् तद् यत् च वीर्यम् धृतिः च या । तन् मम एक मनाः श्रुत्वा विधत्स्व यद् अनन्तरम् ॥३॥

समुद्रात् पश्चिमात् पूर्वम् दक्षिणाद् अपि च उत्तरम् । क्रामति अनुदिते सूर्ये वाली व्यपगत क्लमः ॥४॥

अग्राणि आरुह्य शैलानाम् शिखराणि महान्ति अपि । ऊर्ध्वम् उत्पात्य तरसा प्रति गृह्णाति वीर्यवान् ॥५॥

बहवः सारवन्तः च वनेषु विविधा द्रुमाः । वालिना तरसा भग्ना बलम् प्रथयता आत्मनः ॥६॥

महिषो दुन्दुभिर् नाम कैलास शिखर प्रभः । बलम् नाग सहस्रस्य धारयामास वीर्यवान् ॥७॥

स वीर्य उत्सेक दुष्टात्मा वर दानेन च मोहितः । जगाम स महाकायः समुद्रम् सरिताम् पतिम् ॥८॥

ऊर्मिमंतम् अतिक्रम्य सागरम् रत्न संचयम् । मम युद्धम् प्रयच्छ इति तम् उवाच महार्णवम् ॥९॥

ततः समुद्रो धर्मात्मा समुत्थाय महाबलः । अब्रवीद् वचनम् राजन् असुरम् काल चोदितम् ॥१०॥

समर्थो न अस्मि ते दातुम् युद्धम् युद्ध विशारद । श्रूयताम् त्वम् अभिधास्यामि यत् ते युद्धम् प्रदास्यति ॥११॥

शैल राजो महारण्ये तपस्वि शरणम् परम् । शंकर श्वशुरो नाम्ना हिमवान् इति विश्रुतः ॥१२॥

महा प्रस्रवण उपेतो बहु कन्दर निर्झरः । स समर्थः तव प्रीतिम् अतुलाम् कर्तुम् अर्हति ॥१३॥

तम् भीतम् इति विज्ञाय समुद्रम् असुरोत्तमः । हिमवद् वनम् आगम्य शरः चापाद् इव च्युतः ॥१४॥

ततः तस्य गिरेः श्वेता गजेन्द्र प्रतिमाः शिलाः । चिक्षेप बहुधा भूमौ दुन्दुभिर् विननाद च ॥१५॥

ततः श्वेत अम्बुद आकारः सौम्यः प्रीति कर आकृतिः । हिमवान् अब्रवीद् वाक्यम् स्व एव शिखरे स्थितः ॥१६॥

क्लेष्टुम् अर्हसि माम् न त्वम् दुन्दुभे धर्म वत्सल । रण कर्मसु अकुशलः तपस्वि शरणो हि अहम् ॥१७॥

तस्य तद् वचनम् श्रुत्वा गिरि राजस्य धीमतः । उवाच दुन्दुभिर् वाक्यम् क्रोधात् संरक्त लोचनः ॥१८॥

यदि युद्धे असमर्थः त्वम् मद् भयाद् वा निरुद्यमः । तम् आचक्ष्व प्रदद्यात् मे यो हि युद्धम् युयुत्सतः ॥१९॥

हिमवान् अब्रवीद् वाक्यम् श्रुत्वा वाक्य विशारदः । अनुक्त पूर्वम् धर्मात्मा क्रोधात् तम् असुरोत्तमम् ॥२०॥

वाली नाम महा प्राज्ञः शक्र पुत्र प्रतापवान् । अध्यास्ते वानरः श्रीमान् किष्किन्धाम् अतुल प्रभाम् ॥२१॥

स समर्थो महा प्राज्ञः तव युद्ध विशारदः । द्वन्द्व युद्धम् स दातुम् ते नमुचिः इव वासवः ॥२२॥

तम् शीघ्रम् अभिगच्छ त्वम् यदि युद्धम् इह इच्छसि । स हि दुर्मर्षणो नित्यम् शूरः समर कर्मणि ॥२३॥

श्रुत्वा हिमवतो वाक्यम् कोप आविष्टः स दुन्दुभिः । जगाम ताम् पुरीम् तस्य किष्किन्धाम् वालिनः तदा ॥२४॥

धारयन् माहिषम् रूपम् तीक्ष्ण शृङ्गो भयावहः । प्रावृषि इव महा मेघः तोय पूर्णो नभस्तले ॥२५॥

ततः तु द्वारम् आगम्य किष्किन्धाया महाबलः । ननर्द कम्पयन् भूमिम् दुन्दुभिर् दुन्दुभिर् यथा ॥२६॥

समीपजान् द्रुमान् भंजन् वसुधाम् दारयन् खुरैः । विषाणेन उल्लिखन् दर्पात् तद् द्वारम् द्विरदो यथा ॥२७॥

अन्तःपुर गतो वाली श्रुत्वा शब्दम् अमर्षणः । निष्पपात सह स्त्रीभिः ताराभिः इव चंद्रमाः ॥२८॥

मितम् व्यक्त अक्षर पदम् तम् उवाच स दुन्दुभिम् । हरीणाम् ईश्वरो वाली सर्वेषाम् वन चारिणाम् ॥२९॥

किम् अर्थम् नगर द्वारम् इदम् रुद् ध्वा विनर्दसे । दुन्दुभे विदितो मेऽसि रक्ष प्राणान् महाबल ॥३०॥

तस्य तद् वचनम् श्रुत्वा वानरेन्द्रस्य धीमतः । उवाच दुन्दुभिर् वाक्यम् क्रोधात् संरक्त लोचनः ॥३१॥

न त्वम् स्त्री सन्निधौ वीर वचनम् वक्तुम् अर्हसि । मम युद्धम् प्रयच्छ अद्य ततो ज्ञास्यामि ते बलम् ॥३२॥

अथवा धारयिष्यामि क्रोधम् अद्य निशाम् इमाम् । गृह्यताम् उदयः स्वैरम् काम भोगेषु वानर ॥३३॥

दीयताम् संप्रदानम् च परिष्वज्य च वानरान् । सर्व शखा मृगेन्द्रत्वम् संसादय सुहृज्जनम् ॥३४॥

सु दृष्टाम् कुरु किष्किन्धाम् कुरुष्व आत्म समम् पुरे । क्रीडयस्व च समम् स्त्रीभिः अहम् ते दर्प शासनः ॥३५॥

यो हि मत्तम् प्रमत्तम् वा भग्नम् वा रहितम् कृशम् । हन्यात् स भ्रूणहा लोके त्वद् विधम् मद मोहितम् ॥३६॥

स प्रहस्य अब्रवीत् मन्दम् क्रोधात् तम् असुरेश्वरम् । विसृज्य ताः स्त्रियः सर्वाः तारा प्रभृतिकाः तदा ॥३७॥

मत्तो अयम् इति मा मंस्था यदि अभीतो असि संयुगे । मदो अयम् संप्रहारे अस्मिन् वीर पानम् समर्थ्यताम् ॥३८॥

तम् एवम् उक्त्वा संक्रुद्धो मालाम् उत्क्षिप्य कांचनीम् । पित्रा दत्ताम् महेन्द्रेण युद्धाय व्यवतिष्ठत ॥३९॥

विषाणयो गृहीत्वा तम् दुन्दुभिम् गिरि संनिभम् । आविध्यत तथा वाली विनदन् कपि कुंजरः ॥४०॥

वाली व्यापादयाम् चक्रे ननर्द च महास्वनम् । श्रोत्राभ्याम् अथ रक्तम् तु तस्य सुस्राव पात्यतः ॥४१॥

तयोः तु क्रोध संरम्भात् परस्पर जयैषिणोः । युद्धम् समभवत् घोरम् दुन्दुभेर् वालिनः तथा ॥४२॥

अयुध्यत तदा वाली शक्र तुल्य पराक्रमः । मुष्टिभिर् जानुभिः पद्भिः शिलाभिः पादपैः तथा ॥४३॥

परस्परम् घ्नतोः तत्र वानर असुरयोः तदा । आसीत् हीनो असुरो युद्धे शक्र सूनुः व्यवर्धत ॥४४॥

तम् तु दुन्दुभिम् उद्यम्य धरण्याम् अभ्यपातयत् । युद्धे प्राणहरे तस्मिन् निष्पिष्टो दुन्दुभिः तदा ॥४५॥

स्रोत्रेभ्यो बहु रक्तम् तु तस्य सुस्राव पात्यतः । पपात च महाबाहुः क्षितौ पंचत्वम् आगतः ॥४६॥

तम् तोलयित्वा बाहुभ्याम् गत सत्त्वम् अचेतनम् । चिक्षेप वेगवान् वाली वेगेन एकेन योजनम् ॥४७॥

तस्य वेग प्रविद्धस्य वक्त्रात् क्षतज बिन्दवः । प्रपेतुः मारुत उत्क्षिप्ता मतंगस्य आश्रमम् प्रति ॥४८॥

तान् दृष्ट्वा पतिताम् तत्र मुनिः शोणित विप्रुषः । क्रुद्धः तस्य महाभाग चिन्तयामास कोन्वम् ॥४९॥

येन अहम् सहसा स्पृष्टः शोणितेन दुरात्मना । कोऽयम् दुरात्मा दुर् बुद्धिः अकृतात्मा च बालिशः ॥५०॥

इति उक्त्वा स विनिष्क्रम्य ददृशे मुनिसत्तम । महिषम् पर्वत आकारम् गत असुम् पतितम् भुवि ॥५१॥

स तु विज्ञाय तपसा वानरेण कृतम् हि तत् । उत्ससर्ज महा शापम् क्षेप्तारम् वानरम् प्रति ॥५२॥

इह तेन अप्रवेष्टव्यम् प्रविष्टस्य वधो भवेत् । वनम् मत् संश्रयम् येन दूषितम् रुधिर स्रवैः ॥५३॥

क्षिपता पादपाः च इमे संभग्नाः च असुरीम् तनुम् । समन्तात् आश्रमम् पूर्णम् योजनम् मामकम् यदि ॥५४॥

आगमिष्यति दुर्बुद्धिः व्यक्तम् स न भविष्यति । ये च अस्य सचिवाः केचित् संश्रिता मामकम् वनम् ॥५५॥

न च तैः इह वस्तव्य श्रुत्वा यांतु यथा सुखम् । ते अपि वा यदि तिष्टन्ति शपिष्ये तान् अपि ध्रुवम् ॥५६॥

वने अस्मिन् मामके नित्यम् पुत्रवत् परिरक्षते । पत्र अंकुर विनाशाय फल मूल अभवाय च ॥५७॥

दिवसः च अद्य मर्यादा यम् द्रष्टा श्वः अस्मि वानरम् । बहु वर्ष सहस्राणि स वै शैलः भविष्यति ॥५८॥

ततः ते वानराः श्रुत्वा गिरम् मुनि समीरिताम् । निश्चक्रमुः वनात् तस्मात् तान् दृष्ट्वा वालिर् अब्रवीत् ॥५९॥

किम् भवन्तः समस्ताः च मतंग वन वासिनः । मत् समीपम् अनुप्राप्ता अपि स्वस्ति वनौकसाम् ॥६०॥

ततः ते कारणम् सर्वम् तथा शापम् च वालिनः । शशंसुर् वानराः सर्वे वलिने हेममालिने ॥६१॥

एतत् श्रुत्वा तदा वाली वचनम् वनर ईरितम् । स महर्षिम् समासाद्य याचते स्म कृत अंजलिः ॥६२॥

महर्षिः तम् अनादृत्य प्रविवेश आश्रमम् प्रति । शाप धारण भीतः तु वाली विह्वलताम् गतः ॥६३॥

ततः शाप भयात् भीत ऋश्यमूकम् महागिरिम् । प्रवेष्टुम् न इच्छति हरिः द्रष्टुम् वा अपि नरेश्वर ॥६४॥

तस्य अप्रवेशम् ज्ञात्वा अहम् इदम् राम महावनम् । विचरामि सह अमात्यो विषादेन विवर्जितः ॥६५॥

एषो अस्थिनिचयः तस्य दुन्दुभेः संप्रकाशते । वीर्य उत्सेकात् निरस्तस्य गिरि कूट निभो महान् ॥६६॥

इमे च विपुलाः सालाः सप्त शाखा अवलंबिनः । यत्र एकम् घटते वाली निष् पत्रयितुम् ओजसा ॥६७॥

एतत् अस्य असमम् वीर्यम् मया राम प्रकाशितम् । कथम् तम् वालिनम् हन्तुम् समरे शक्ष्यसे नृप ॥६८॥

तथा बृउवाणम् सुग्रीवम् प्रहसन् लक्ष्मणो अब्रवीत् । कस्मिन् कर्मणि निर्वृत्ते श्रद्दध्या वालिनः वधम् ॥६९॥

तम् उवाच थ सुग्रीवः सप्त सालन् इमान् पुरा । एवम् एकैकशो वाली विव्याथ अथ स असकृत् ॥७०॥

रामो निर्दारयेद् एषाम् बाणेन एकेन च द्रुमम् । वालिनम् निहतम् मन्ये दृष्ट्वा रामस्य विक्रमम् ॥७१॥

हतस्य महिषस्य अस्थि पादेन एकेन लक्ष्मण । उद्यम्य प्रक्षिपेत् च अपि तरसा द्वे धनुः शते ॥७२॥

एवम् उक्त्वा तु सुग्रीवो रामम् रक्तान्त लोचनम् । ध्यत्वा मुहूर्तम् काकुत्स्थम् पुनरेव वचो अब्रवीत् ॥७३॥

शूरः च शूरमानी च प्रख्यात बल पौरुषः । बलवान् वानरः वाली संयुगेषु अपराजितः ॥७४॥

दृश्यन्ते च अस्य कर्माणि दुष्कराणि सुरैः अपि । यानि संचिन्त्य भीतः अहम् ऋष्यमूकम् उपाश्रितः ॥७५॥

तम् अजय्यम् अधृष्यम् च वानरेन्द्रम् अमर्षणम् । विचिन्तयन् न मुंचामि ॠष्यमूकम् अमुम् तु अहम् ॥७६॥

उद्विग्नः शंकितः च अहम् विचरामि महावने । अनुरक्तैः सह अमात्यैः हनुमत् प्रमुखैः वीरैः ॥७७॥

उपलब्धम् च मे श्लाघ्यम् सन् मित्रम् मित्र वत्सल । त्वाम् अहम् पुरुषव्याघ्र हिमवन्तम् इव आश्रितः ॥७८॥

किम् तु तस्य बलज्ञः अहम् दुर्भ्रातुः बलशालिनः । अप्रत्यक्षम् तु मे वीर्यम् समरे तव राघव ॥७९॥

न खलु अहम् त्वाम् तुलये न अवमन्ये न भीषये । कर्मभिः तस्य भीमैः च कातर्यम् जनितम् मम ॥८०॥

कामम् राघव ते वाणी प्रमाणम् धैर्यम् आकृतिः । सूचयन्ति परम् तेजो भस्म च्छन्नम् इव अनलम् ॥८१॥

तस्य तद् वचनम् श्रुत्वा सुग्रीवस्य महत्मनः । स्मित पूर्वम् अथः रामः प्रति उवाच हरिम् प्रति ॥८२॥

यदि न प्रत्ययो अस्मासु विक्रमे तव वानर । प्रत्ययम् समरे श्लाघ्यम् अहम् उत्पादयामि ते ॥८३॥

एवम् उक्त्वा तु सुग्रीवम् सान्त्वयन् लक्ष्मणाग्रजः । राघवो दुन्दुभेः कायम् पाद अंगुष्ठेन लीलया ॥८४॥

तोलयित्वा महाबाहुः चिक्षेप दश योजनम् । असुरस्य तनुम् शुष्कम् पादांगुष्टेन वीर्यवान् ॥८५॥

क्षिप्तम् दृष्ट्वा ततः कायम् सुग्रीवः पुनर् अब्रवीत् । लक्ष्मणस्य अग्रतो रामम् तपन्तम् इव भास्करम् हरीणाम् अग्रतो वीरम् इदम् वचनम् अर्थवत् ॥८६॥

आर्द्रः स मांसः प्रत्यग्रः क्षिप्तः कायः पुरा सखे । परिश्रान्तेन मत्तेन भ्राता मे वालिना तदा ॥८७॥

लघुः संप्रति निर्मांसः तृण भूतः च राघव । क्षिप्ता एवम् प्रहर्षेण भवता रघुनंदन ॥८८॥

न अत्र शक्यम् बलम् ज्ञातुम् तव वा तस्य वा अधिकम् । आर्द्रम् शुष्कम् इति हि एतत् सुमहद् राघव अन्तरम् ॥८९॥

स एव संशयः तात तव तस्य च यद् बलम् । सालम् एकम् विनिर् भिद्या भवेत् व्यक्तिः बलाबले ॥९०॥

कृत्वा एतत् कार्मुकम् सज्यम् हस्ति हतम् इव अपरम् । आकर्ण पूर्णम् आयम्य विसृजस्व महाशरम् ॥९१॥

इमम् हि सालम् प्रहितः त्वया शरो न संशयो अत्र अस्ति विदारयिष्यति । अलम् विमर्शेन मम प्रियम् ध्रुवम् कुरुष्व राजन् प्रति शापितो मया ॥९२॥

यथा हि तेजस्सु वरः सदा रविः यथा हि शैलो हिमवान् महा अद्रिषु । यथा चतुष्पात्सु च केसरी वरः तथा नराणाम् असि विक्रमे वरः ॥९३॥

इति वाल्मीकि रामायणे अद्दिकाव्ये किष्किन्ध काण्डे एकादशः सर्गः ॥

Listen to the sarga
0:00