रामायणम्

दशमः सर्गः 4.10

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

ततः क्रोध समाविष्टम् सम्रब्धम् तम् उपागतम् । अहम् प्रसादयान् चक्रे भ्रातरम् हित काम्यया ॥१॥

दिष्ट्या असि कुशली प्राप्तो निहतः च त्वया रिपुः । अनाथस्य हि मे नाथः त्वम् एको अनाथ नन्दनः ॥२॥

इदम् बहु शलाकम् ते पूर्ण चन्द्रम् इव उदितम् । छत्रम् स वाल व्यजनम् प्रतीच्छस्व मया धृतम् ॥३॥

आर्तस्य अथ बिला द्वारि स्थितः संवत्सरम् नृप । दृष्ट्वा च शोणितम् द्वारि बिलात् च अपि समुत्थितम् ॥४॥

शोक संविग्न हृदयो भृशम् व्याकुलित इन्द्रियः । अपिधाय बिल द्वारम् शैल शृङ्गेण तत् तदा ॥५॥

तस्मात् देशात् अपाक्रम्य किष्किन्धाम् प्राविशम् पुनः । विषादात् इह माम् दृष्ट्वा पौरैः मंत्रिभिर् एव च ॥६॥

अभिषिक्तो न कामेन तन्मे क्षन्तुम् त्वम् अर्हसि । त्वम् एव राजा मानार्हः सदा च अहम् यथा पुरा ॥७॥

राजभावे नियोगः अयम् मम त्वत् विरहात् कृतः । स अमात्य पौर नगरम् स्थितम् निहत कण्टकम् ॥८॥

न्यास भूतम् इदम् राज्यम् तव निर्यातयामि अहम् । मा च रोषम् कृथाः सौम्य मम शत्रु निषूदन ॥९॥

याचे त्वाम् शिरसा राजन् मया बद्धो अयम् अंजलिः । बलात् अस्मिन् समागम्य मंत्रिभिः पुर वासिभिः ॥१०॥

राजभावे नियुक्तो अहम् शून्य देश जिगीषया । स्निग्धम् एवम् ब्रुवाणम् माम् स विनिर्भर्त्स्य वानरः ॥११॥

धिक् त्वाम् इति च माम् उक्त्वा बहु तत् तत् उवाच ह । प्रकृतीः च समानीय मंत्रिणः चैव सम्मतान् ॥१२॥

माम् आह सुहृदाम् मध्ये वाक्यम् परम गर्हितम् । विदितम् वो मया रात्रौ मायावी स महाअसुरः ॥१३॥

माम् समाह्वयत क्रुद्धो युद्ध कांक्षी तदा पुरा । तस्य तद् भाषितम् श्रुत्वा निःसृतः अहम् नृपाअलयात् ॥१४॥

अनुयातः च माम् तूर्णम् अयम् भ्राता सुदारुणः । स तु दृष्ट्वा एव माम् रात्रौ स द्वितीयम् महाबलः ॥१५॥

प्राद्रवत् भय संत्रस्तो वीक्ष्य आवाम् समुपागतौ । अभिद्रुतः तु वेगेन विवेश स महाबिलम् ॥१६॥

तम् प्रविष्टम् विदित्वा तु सुघोरम् सुमहद् बिलम् । अयम् उक्तो अथ मे भ्राता मया तु क्रूर दर्शनः ॥१७॥

अहत्वा न अस्ति मे शक्तिः प्रति गन्तुम् इतः पुरीम् । बिल द्वारि प्रतीक्ष त्वम् यावत् एनम् निहन्मि अहम् ॥१८॥

स्थितोऽयम् इति मत्वा अहम् प्रविष्टः तु दुरासदम् । तम् मे मार्गयतः तत्र गतः संवत्सरः तदा ॥१९॥

स तु दृष्टो मया शत्रुः अनिर्वेदात् भयाअवहः । निहतः च मया सद्यः सः सर्वैः सह बन्धुभिः ॥२०॥

तस्य आस्यात् तु प्रवृत्तेन रुधिरौघेण तद् बिलम् । पूर्णम् आसीत् दुराक्रामम् स्वनतः तस्य भूतले ॥२१॥

सूदयित्वा तु तम् शत्रुम् विक्रान्तम् तम् अहम् सुखम् । निष्क्रामम् न एव पश्यामि बिलस्य पिहितम् मुखम् ॥२२॥

विक्रोशमानस्य तु मे सुग्रीव इति पुनः पुनः । यतः प्रतिवचो नास्ति ततः अहम् भृश दुःखितः ॥२३॥

पाद प्रहारैः तु मया बहुभिः परिपातितम् । ततः अहम् तेन निष्क्रम्य पथा पुरम् उपागतः ॥२४॥

तत्र अनेन अस्मि सम्रुद्धः राज्यम् मृगयत आत्मनः । सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृ सौहृदम् ॥२५॥

एवम् उक्त्वा तु माम् तत्र वस्त्रेण एकेन वानरः । तदा निर्वासयामास वाली विगत साध्वसः ॥२६॥

तेन अहम् अपविद्धः च हृत दारः च राघव । तत् भयात् च महीम् सर्वान् क्रान्तवान् स वन अर्णवाम् ॥२७॥

ऋश्यमूकम् गिरि वरम् भार्या हरण दुःखितः । प्रविष्टो अस्मि दुराधर्षम् वालिनः कारणान्तरे ॥२८॥

एतत् ते सर्वम् आख्यातम् वैर अनुकथनम् महत् । अनागसा मया प्राप्तम् व्यसनम् पश्य राघव ॥२९॥

वालिनः च भयात् तस्य सर्वलोक भयापह । कर्तुम् अर्हसि मे वीर प्रसादम् तस्य निग्रहात् ॥३०॥

एवम् उक्तः स तेजस्वी धर्मज्ञो धर्म संहितम् । वचनम् वक्तुम् आरेभे सुग्रीवम् प्रहसन् इव ॥३१॥

अमोघाः सूर्य संकाशा निशिता मे शरा इमे । तस्मिन् वालिनि दुर्वृत्ते पतिष्यन्ति रुष अन्विताः ॥३२॥

यावत् तम् न हि पश्येयम् तव भार्य अपहारिणम् । तावत् स जीवेत् पापात्मा वाली चारित्र दूषकः ॥३३॥

आत्म अनुमानात् पश्यामि मग्नः त्वाम् शोक सागरे । त्वाम् अहम् तारयिष्यामि बाढम् प्राप्स्यसि पुष्कलम् ॥३४॥

तस्य तत् वचनम् श्रुत्वा हर्ष पौरुष वर्धनम् । सुग्रीवः परम प्रीतः सु महत् वाक्यम् अब्रवीत् ॥३५॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे दशमः सर्गः ॥

Listen to the sarga
0:00