वाली नाम मम भ्राता ज्येष्ठः शत्रु निषूदनः । पितुः बहुमतः नित्यम् मम च अपि तथा पुरा ॥१॥
नवमः सर्गः 4.9
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
पितरि उपरते तस्मिन् ज्येष्ठो अयम् इति मंत्रिभिः । कपीनाम् ईश्वरो राज्ये कृतः परम सम्मतः ॥२॥
राज्यम् प्रशासतः तस्य पितृ पैतामहम् महत् । अहम् सर्वेषु कालेषु प्रणतः प्रेष्यवत् स्थितः ॥३॥
मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः । तेन तस्य महद् वैरम् वालिनः स्त्री कृतम् पुरा ॥४॥
स तु सुप्ते जने रात्रौ किष्किन्धा द्वारम् आगतः । नर्दति स्म सुसम्रब्धो वालिनम् च आह्वयत् रणे ॥५॥
प्रसुप्तः तु मम भ्राता नर्दितो भैरव स्वनम् । श्रुत्वा न ममृषे वाली निष्पपात जवात् तदा ॥६॥
स तु वै निःसृतः क्रोधात् तम् हन्तुम् असुरोत्तमम् । वार्यमाणः ततः स्त्रीभिः मया च प्रणत आत्मना ॥७॥
स तु निर्धूय सर्वान् नो निर्जगाम महाबलः । ततः अहम् अपि सौहार्दान् निःसृतः वालिना सह ॥८॥
स तु मे भ्रातरम् दृष्ट्वा माम् च दूरात् अवस्थितम् । असुरो जात संत्रासः प्रदुद्राव तदा भृशम् ॥९॥
तस्मिन् द्रवति संत्रस्ते हि आवाम् द्रुततरम् गतौ । प्रकाशः अपि कृतः मार्गः चन्द्रेण उद्गच्छता तदा ॥१०॥
स तृणैः आवृतम् दुर्गम् धरण्या विवरम् महत् । प्रविवेश असुरः वेगात् आवाम् आसाद्य विष्ठितौ ॥११॥
तम् प्रविष्टम् रिपुम् दृष्ट्वा बिलम् रोष वशम् गतः । माम् उवाच ततो वाली वचनम् क्षुभित इन्द्रियः ॥१२॥
इह तिष्ठ अद्य सुग्रीव बिल द्वारि समाहितः । यावत् अत्र प्रविश्य अहम् निहन्मि समरे रिपुम् ॥१३॥
मया तु एतत् वचः श्रुत्वा याचितः स परंतपः । शापयित्वा च माम् पद्भ्याम् प्रविवेश बिलम् ततः ॥१४॥
तस्य प्रविष्टस्य बिलम् साग्रः संवत्सरः गतः । स्थितस्य च बिल द्वारि सः कालः व्यत्यवर्तत ॥१५॥
अहम् तु नष्टम् तम् ज्ञात्वा स्नेहात् आगत संभ्रमः । भ्रातरम् न प्रपश्यामि पाप शङ्कि च मे मनः ॥१६॥
अथ दीर्घस्य कालस्य बिलात् तस्मात् विनिःसृतम् । सः फेनम् रुधिरम् दृष्ट्वा ततो अहम् भृशदुःखितः ॥१७॥
नर्दताम् असुराणाम् च ध्वनिः मे श्रोत्रम् आगतः । न रस्तस्य च संग्रामे क्रोशतो अपि स्वनो गुरोः ॥१८॥
अहम् तु अवगतः बुद्ध्या चिह्नैः तैः भ्रातरम् हतम् । पिधाय च बिल द्वारम् शिलया गिरि मात्रया ॥१९॥
शोकार्तः च उदकम् कृत्वा किष्किन्धाम् आगतः सखे । गूहमानस्य मे तत्त्वम् यत्नतः मंत्रिभिः श्रुतम् ॥२०॥
ततः अहम् तैः समागम्य समेतैः अभिषेचितः । राज्यम् प्रशासतः तस्य न्यायतो मम राघव ॥२१॥
आजगाम रिपुम् हत्वा दानवम् स तु वानरः । अभिषिक्तम् तु माम् दृष्ट्वा कोपात् संरक्त लोचनः ॥२२॥
मदीयान् मंत्रिणः बद्ध्वा परुषम् वाक्यम् अब्रवीत् । निग्रहे च समर्थस्य तम् पापम् प्रति राघव ॥२३॥
न प्रावर्तत मे बुद्धिः भ्रातृ गौरव यंत्रिता । हत्वा शत्रुम् सः मे भ्राता प्रविवेश पुरम् तदा ॥२४॥
मानयन् तम् महात्मानम् यथावत् च अभिअवादयम् । उक्ताः च न आशिषः तेन संतुष्टेन अन्तरात्मना ॥२५॥
नत्वा पादौ अहम् तस्य मुकुटेन अस्पृशम् प्रभो । अपि वाली मम क्रोधात् न प्रसादम् चकार सः ॥२६॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे नवमः सर्गः ॥