रामायणम्

अष्टमः सर्गः 4.8

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

परितुष्टः तु सुग्रीवः तेन वाक्येन हर्षितः । लक्ष्मणस्य अग्रजम् शूरम् इदम् वचनम् अब्रवीत् ॥१॥

सर्वथा अहम् अनुग्राह्यो देवतानाम् न संशयः । उपपन्नः गुण उपेतः सखा यस्य भवान् मम ॥२॥

शक्यम् खलु भवेत् राम सहायेन त्वया अनघ । सुर राज्यम् अपि प्राप्तुम् स्व राज्यम् किमुत प्रभो ॥३॥

सोऽहम् सभाज्यो बन्धूनाम् सुहृदाम् चैव राघव । यस्य अग्नि साक्षिकम् मित्रम् लब्धम् राघव वंशजम् ॥४॥

अहम् अपि अनुरूपः ते वयस्यो ज्ञास्यसे शनैः । न तु वक्तुम् समर्थोऽहम् त्वयि आत्मगतान् गुणान् ॥५॥

महात्मनाम् तु भूयिष्ठम् त्वत् विधानाम् कृत आत्मनाम् । निश्चला भवति प्रीतिः धैर्यम् आत्मवताम् वर ॥६॥

रजतम् वा सुवर्णम् वा शुभानि आभरणानि च । अविभक्तानि साधूनाम् अवगच्छन्ति साधवः ॥७॥

आढ्यो वा अपि दरिद्रो वा दुःखितः सुखितोऽपि वा । निर्दोषः च सदोषः च वयस्यः परमा गतिः ॥८॥

धन त्यागः सुख त्यागो देश त्यागोऽपि वा अनघः । वयस्यार्थे प्रवर्तन्ते स्नेहम् दृष्ट्वा तथा विधम् ॥९॥

तत् तथा इति अब्रवीत् रामः सुग्रीवम् प्रिय दर्शनम् । लक्ष्मणस्य अग्रतः लक्ष्म्या वासवस्य इव धीमतः ॥१०॥

ततो रामम् स्थितम् दृष्ट्वा लक्ष्मणम् च महाबलम् । सुग्रीवः सर्वतः चक्षुः वने लोलम् अपातयत् ॥११॥

स ददर्श ततः सालम् अविदूरे हरीश्वरः । सुपुष्पम् ईषत् पत्र आढ्यम् भ्रमरैः उपशोभितम् ॥१२॥

तस्य एकाम् पर्ण बहुलाम् शाखाम् भंक्त्वा सुशोभिताम् । रामस्य आस्तीर्य सुग्रीवो निषसाद स राघवः ॥१३॥

तौ आसीनौ ततः दृष्ट्वा हनूमान् अपि लक्ष्मणम् । साल शाखाम् समुत्पाट्य विनीतम् उपवेशयत् ॥१४॥

सुख उपविष्टम् रामम् तु प्रसन्नम् उदधिम् यथा । साल पुष्पाव संकीर्णे तस्मिन् गिरिवर उत्तमे ॥१५॥

ततः प्रहृष्टः सुग्रीवः श्लक्ष्णया शुभया गिरा । उवाच प्रणयाद् रामम् हर्ष व्याकुलित अक्षरम् ॥१६॥

अहम् विनिकृतो भ्रात्रा चरामि एष भयार्दितः । ऋष्यमूकम् गिरि वरम् हृत भार्यः सुदुःखितः ॥१७॥

सोऽहम् त्रस्तः भये मग्नः वने संब्रान्त चेतनः । वालिना निकृतः भ्रात्रा कृत वैरः च राघव ॥१८॥

वालिनः मे भय आर्तस्य सर्वलोक अभयंकर । मम अपि त्वम् अनाथस्य प्रसादम् कर्तुम् अर्हसि ॥१९॥

एवम् उक्तः तु तेजस्वी धर्मज्ञो धर्म वत्सलः । प्रत्युवाच स काकुत्स्थः सुग्रीवम् प्रहसन् इव ॥२०॥

उपकार फलम् मित्रम् अपकारो अरि लक्षणम् । अद्य एव तम् वधिष्यामि तव भार्या अपहारिणम् ॥२१॥

इमे हि मे महाभाग पत्रिणः तिग्म तेजसः । कार्तिकेय वन उद्भूताः शरा हेम विभूषिताः ॥२२॥

कन्क पत्र परिच्छन्ना महेन्द्र अशनि सन्निभाः । सुपर्वाणः सुतीक्ष्ण अग्रा सरोषा भुजगा इव ॥२३॥

वालि सज्ञम् अमित्रम् ते भ्रातरम् कृत किल्बिषम् । शरैः विनिहतम् पश्य विकीर्णम् इव पर्वतम् ॥२४॥

राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनी पतिः । प्रहर्षम् अतुलम् लेभे साधु साध्विति च अब्रवीत् ॥२५॥

राम शोक अभिभूतो अहम् शोक आर्तानाम् भवान् गतिः । वयस्य इति कृत्वा हि त्वयि अहम् परिदेवये ॥२६॥

त्वम् हि पाणि प्रदानेन वयस्यो मे अग्नि साक्षिकम् । कृतः प्राणैः बहुमतः सत्येन च शपामि अहम् ॥२७॥

वयस्य इति कृत्वा च विस्रब्धः प्रवदामि अहम् । दुःखम् अन्तर्गतम् तन् मे मनो हरति नित्यशः ॥२८॥

एतावत् उक्त्वा वचनम् बाष्प दूषित लोचनः । बाष्प दूषितया वाचा न उच्चैः श्क्नोति भाषितुम् ॥२९॥

बाष्प वेगम् तु सहसा नदी वेगम् इव आगतम् । धारयामास धैर्येण सुग्रीवः राम संनिधौ ॥३०॥

स निगृह्य तु तम् बाष्पम् प्रमृज्य नयने शुभे । विनिःश्वस्य च तेजस्वी राघवम् पुनरूचिवान् ॥३१॥

पुरा अहम् वलिना राम राज्यात् स्वात् अवरोपितः । परुषाणि च संश्राव्य निर्धूतो अस्मि बलीयसा ॥३२॥

हृता भार्या च मे तेन प्राणेभ्यो अपि गरीयसी । सुहृदः च मदीया ये संयता बन्धनेषु ते ॥३३॥

यत्नवान् च स दुष्टात्मा मद् विनाशाय राघव । बहुशः तत् प्रयुक्ताः च वानरा निहता मया ॥३४॥

शंकया एतया अहम् च दृष्ट्वा त्वाम् अपि राघव । न उपसर्पामि अहम् भीतो भये सर्वे हि बिभ्यति ॥३५॥

केवलम् हि सहाया मे हनुमत् प्रमुखास्त्विमे । अतः अहम् धारयामि अद्य प्राणान् कृच्छ्र गतः अपि सन् ॥३६॥

एते हि कपयः स्निग्धा माम् रक्षन्ति समन्ततः । सह गच्छन्ति गन्तव्ये नित्यम् तिष्ठन्ति च स्थिते ॥३७॥

संक्षेपः ते एष मे राम किम् उक्त्वा विस्तरम् हि ते । स मे ज्येष्ठो रिपुः भ्राता वाली विश्रुत पौरुषः ॥३८॥

तद् विनाशे अपि मे दुःखम् प्रमृष्टम् स्यात् अनन्तरम् । सुखम् मे जीवितम् चैव तद् विनाश निबन्धनम् ॥३९॥

एष मे राम शोकान्तः शोक आर्तेन निवेदितः । दुःखितः सुखितः वा अपि सख्युः नित्यम् सखा गतिः ॥४०॥

श्रुत्वा एतत् च वचः रामः सुग्रीवम् इदम् अब्रवीत् । किम् निमित्तम् अभूत् वैरम् श्रोतुम् इच्छामि तत्त्वतः ॥४१॥

सुखम् हि कारणम् श्रुत्वा वैरस्य तव वानर । आनन्तर्यद् विधास्यामि संप्रधार्य बलाबलम् ॥४२॥

बलवान् हि मम अमर्षः श्रुत्वा त्वाम् अवमानितम् । वर्धते हृदय उत्कम्पी प्रावृड् वेग इव अंभसः ॥४३॥

हृष्टः कथय विस्रब्धो यावत् आरोप्यते धनुः । सृष्टः च हि मया बाणो निरस्तः च रिपुः तव ॥४४॥

एवम् उक्तः तु सुग्रीवः काकुत्स्थेन महात्मना । प्रहर्षम् अतुलम् लेभे चतुर्भिः सह वानरैः ॥४५॥

ततः प्रहृष्ट वदनः सुग्रीवः लक्ष्मणाग्रजे । वैरस्य कारणम् तत्त्वम् आख्यातुम् उपचक्रमे ॥४६॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे अष्टमः सर्गः ॥

Listen to the sarga
0:00