एवम् उक्तः तु सुग्रीवः रामेण आर्तेन वानरः । अब्रवीत् प्राञ्जलिः वाक्यम् सबाष्पम् बाष्प गद्गदः ॥१॥
सप्तमः सर्गः 4.7
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
न जाने निलयम् तस्य सर्वथा पाप रक्षसः । सामर्थ्यम् विक्रमम् वा अपि दौष्कुलेयस्य वा कुलम् ॥२॥
सत्यम् तु प्रतिजानामि त्यज शोकम् अरिन्दम । करिष्यामि तथा यत्नम् यथा प्राप्स्यसि मैथिलीम् ॥३॥
रावणम् सगणम् हत्वा परितोष्य आत्म पौरुषम् । तथा अस्मि कर्ता नचिराद् यथा प्रीतो भविष्यसि ॥४॥
अलम् वैक्लव्यम् आलम्ब्य धैर्यम् आत्मगतम् स्मर । त्वत् विधानाम् न सदृशम् ईदृशम् बुद्धि लाघवम् ॥५॥
मया अपि व्यसनम् प्राप्तम् भार्या विरहजम् महत् । न अहम् एवम् हि शोचामि धैर्यम् न च परित्यजे ॥६॥
न अहम् ताम् अनुशोचामि प्राकृतो वानरो अपि सन् । महात्मा च विनीतः च किम् पुनर् धृतिमान् महान् ॥७॥
बाष्पम् आपतितम् धैर्यात् निग्रहीतुम् त्वम् अर्हसि । मर्यादाम् सत्त्व युक्तानाम् धृतिम् न उत्स्रष्टुम् अर्हसि ॥८॥
व्यसने वा अर्थ कृच्छ्रे वा भये वा जीवितान्तगे । विमृशन् वै स्वया बुद्ध्या धृतिमान् न अवसीदति ॥९॥
बालिशस् तु नरो नित्यम् वैक्लब्यम् योऽनुवर्तते । स मज्जति अवशः शोके भार आक्रान्ता इव नौः जले ॥१०॥
एषो अन्जलिः मया बद्धः प्रणयात् त्वाम् प्रसादये । पौरुषम् श्रय शोकस्य न अन्तरम् दातुम् अर्हसि ॥११॥
ये शोकम् अनुवर्तन्ते न तेषाम् विद्यते सुखम् । तेजः च क्षीयते तेषाम् न त्वम् शोचितुम् अर्हसि ॥१२॥
शोकेन अभिप्रपन्नस्य जीविते च अपि संशयः । स शोकम् त्यज राजेन्द्र धैर्यम् आश्रय केवलम् ॥१३॥
हितम् वयस्य भावेन ब्रूमि न उपदिशामि ते । वयस्यताम् पूजयन् मे न त्वम् शोचितुम् अर्हसि ॥१४॥
मधुरम् सान्त्वितः तेन सुग्रीवेण स राघवः । मुखम् अश्रु परि क्लिन्नम् वस्त्र अन्तेन प्रमार्जयत् ॥१५॥
प्रकृतिः स्थः तु काकुत्स्थः सुग्रीव वचनात् प्रभुः । संपरिष्वज्य सुग्रीवम् इदम् वचनम् अब्रवीत् ॥१६॥
कर्तव्यम् यत् वयस्येन स्निग्धेन च हितेन च । अनुरूपम् च युक्तम् च कृतम् सुग्रीव तत् त्वया ॥१७॥
एष च प्रकृतिः स्थः अहम् अनुनीतः त्वया सखे । दुर्लभो हि ईदृशो बन्धुः अस्मिन् काले विशेषतः ॥१८॥
किम् तु यत्नः त्वया कार्यो मैथिल्याः परिमार्गणे । राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः ॥१९॥
मया च यद् अनुष्ठेयम् विस्रब्धेन तत् उच्यताम् । वर्षासु इव च सुक्षेत्रे सर्वम् संपद्यते तव ॥२०॥
मया च यदिदम् वाक्यम् अभिमानात् समीरितम् । तत् त्वया हरिशार्दूल तत् त्वम् इति उपधार्यताम् ॥२१॥
अनृतम् न उक्त पूर्वम् मे न च वक्ष्ये कदाचन । एतत् ते प्रतिजानामि सत्येन एव शपामि अहम् ॥२२॥
ततः प्रहृष्टः सुग्रीवः वानरैः सचिवैः सह । राघवस्य वचः श्रुत्वा प्रतिज्ञातम् विशेषतः ॥२३॥
एवम् एकान्त संपृक्तौ ततः तौ नर वानरौ । उभौ अन्योन्य सदृशम् सुख दुःखम् अभाष्ताम् ॥२४॥
महानुभावस्य वचो निशम्य हरिर् नृपाणाम् अधिपस्य तस्य । कृतम् स मेने हरिवीर मुख्यः तदा च कार्यम् हृदयेन विद्वान् ॥२५॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे सप्तमः सर्गः ॥