पुनरेव अब्रवीत् प्रीतः राघवम् रघुनन्दनम् । अयम् आख्याति ते राम सेवकः मन्त्रि सत्तमः ॥१॥
षष्टः सर्गः 4.6
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
हनुमान् यन् निमित्तम् त्वम् निर्जनम् वनम् आगतः । लक्ष्मणेन सह भ्रात्रा वसतः च वने तव ॥२॥
रक्षसा अपहृता भार्या मैथिली जनक आत्मजा । त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता ॥३॥
अन्तरम् प्रेप्सुना तेन हत्वा गृध्रम् जटायुषम् । भार्या वियोगजम् दुःखम् प्रापितः तेन रक्ष्सा ॥४॥
भर्या वियोगजम् दुःखम् न चिरात् त्वम् विमोक्ष्यसे । अहम् ताम् आनयिष्यामि नष्टाम् वेदश्रुतीम् इव ॥५॥
रसातले वा वर्तन्तीम् वर्तन्तीम् वा नभः तले । अहम् आनीय दास्यामि तव भार्याम् अरिन्दम ॥६॥
इदम् तथ्यम् मम वचः त्वम् अवेहि च राघव । न शक्या सा जरयितुम् अपि सः इन्द्रैः सुर असुरैः ॥७॥
तव भार्या महाबाहो भक्ष्यम् विष कृतम् यथा । त्यज शोकम् महाबाहो ताम् कान्ताम् आनयामि ते ॥८॥
अनुमानात् तु जानामि मैथिली सा न संशयः । ह्रियमाणा मया दृष्टा रक्षसा रौउद्र कर्मणा ॥९॥
क्रोशन्ती राम रामेति लक्ष्मणेति च विस्वरम् । स्फुरन्ती रावणस्य अन्के पन्नगेन्द्र वधूः यथा ॥१०॥
आत्मना पञ्चमम् माम् हि दृष्ट्वा शैल तले स्थितम् । उत्तरीयम् तया त्यक्तम् शुभानि आभरणानि च ॥११॥
तानि अस्माभिः गृहीतानि निहितानि च राघव । आनयिष्यामि अहम् तानि प्रत्यभिज्ञातुम् अर्हसि ॥१२॥
तम् अब्रवीत् ततः रामः सुग्रीवम् प्रिय वादिनम् । आनयस्व सखे शीघ्रम् किम् अर्थम् प्रविलम्बसे ॥१३॥
एवम् उक्तः तु सुग्रीवः शैलस्य गहनाम् गुहाम् । प्रविवेश ततः शीघ्रम् राघव प्रिय काम्यया ॥१४॥
उत्तरीयम् गृहीत्वा तु स तानि आभरणानि च । इदम् पश्य इति रामाय दर्शयामास वानरः ॥१५॥
ततो गृहीत्वा वासः तु शुभानि आभरणानि च । अभवत् बाष्प सम्रुद्धः नीहारेण इव चन्द्रमाः ॥१६॥
सीता स्नेह प्रवृत्तेन स तु बाष्पेण दूषितः । हा प्रिये इति रुदन् धैर्यम् उत्सृज्य न्यपतत् क्षितौ ॥१७॥
हृदि कृत्वा स बहुशः तम् अलंकारम् उत्तमम् । निशश्वास भृशम् सर्पः बिलस्थ इव रोषितः ॥१८॥
अविच्छिन्न अश्रु वेगः तु सौमित्रिम् प्रेक्ष्य पार्श्वतः । परिदेवयितुम् दीनम् रामः सम् उपचक्रमे ॥१९॥
पश्य लक्ष्मण वैदेह्या संत्यक्तम् ह्रियमाणया । उत्तरीयम् इदम् भूमौ शरीराद् भूषणानि च ॥२०॥
शाद्वलिन्याम् ध्रुवम् भूम्याम् सीतया ह्रियमाणया । उत्सृष्टम् भूषणाम् इदम् तथा रूपम् हि दृश्यते ॥२१॥
एवम् उक्तसः तु रामेण लक्ष्मणो वाक्यम् इदम् अब्रवीत् । न अहम् जानामि केयूरे न अहम् जानामि कुण्डले ॥२२॥
नूपुरे तु अभिजनामि नित्यम् पाद अभिवंदनात् । ततः तु राघवो वाक्यम् सुग्रीवम् इदम् अब्रवीत् ॥२३॥
ब्रूहि सुग्रीव कम् देशम् ह्रियन्ती लक्षिता त्वया । रक्षसा रौद्ररूपेण मम प्राणप्रिया प्रिया ॥२४॥
क्व वा वसति तत् रक्षज़ः महत् व्यसनदम् मम । यन् निमित्तम् अहम् सर्वान् नाशयिष्यामि राक्षसान् ॥२५॥
हरता मैथिलीम् येन माम् च रोषयता ध्रुवम् । आत्मनो जीवित अन्ताय मृत्यु द्वारम् अपावृतम् ॥२६॥
मम दयित तमा हृता वनात् रजनिचरेण विमथ्य येन सा । कथय मम रिपुम् तम् अद्य वै प्लवगपते यम सन्निधिम् नयामि ॥२७॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे षष्टः सर्गः ॥