रामायणम्

पञ्चमः सर्गः 4.5

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

ऋश्यमूकात् तु हनुमान् गत्वा तम् मलयम् गिरिम् । आचचक्षे तदा वीरौ कपि राजाय राघवौ ॥१॥

अयम् रामो महाप्राज्ञ संप्राप्तो दृढ विक्रमः । लक्ष्मणेन सह भ्रात्रा रामोऽयम् सत्य विक्रमः ॥२॥

इक्ष्वाकूणाम् कुले जातो रामो दशरथात्मजः । धर्मे निगदितः च एव पितुर् निर्देश कारकः ॥३॥

राजसूय अश्वमेधैः च वह्निः येन अभितर्पितः । दक्षिणाः च तथा उत्सृष्टा गावः शत सहस्रशः ॥४॥

तपसा सत्य वाक्येन वसुधा येन पालिता । स्त्री हेतोः तस्य पुत्रोऽयम् रामः अरणयम् समागतः ॥५॥

तस्य अस्य वसतो अरण्ये नियतस्य महात्मनः । रावणेन हृता भार्या स त्वाम् शरणम् आगतः ॥६॥

भवता सख्य कामौ तौ भ्रातरौ राम लक्ष्मणौ । प्रगृह्य च अर्चयस्व एतौ पूजनीयतमौ उभौ ॥७॥

श्रुत्वा हनुमतो वाक्यम् सुग्रीवो वानर अधिपः । दर्शनीयतमो भूत्वा प्रीत्या उवाच राघवम् ॥८॥

भवान् धर्म विनीतः च सुतपाः सर्व वत्सलः । आख्याता वायुपुत्रेण तत्त्वतो मे भवद् गुणाः ॥९॥

तन् मम एव एष सत्कारो लाभः च एव उत्तमः प्रभो । यत् त्वम् इच्छसि सौहार्दम् वानरेण मया सह ॥१०॥

रोचते यदि मे सख्यम् बाहुः एष प्रसारितः । गृह्यताम् पाणिना पाणिः मर्यादा बध्यताम् ध्रुवा ॥११॥

एतत् तु वचनम् श्रुत्वा सुग्रीवस्य सुभाषितम् । संप्रहृष्ट मना हस्तम् पीडयामास पाणिना ॥१२॥

हृष्टः सौहृदम् आलम्ब्य पर्यष्वजत पीडितम् । ततो हनूमान् संत्यज्य भिक्षु रूपम् अरिन्दमः ॥१३॥

काष्ठयोः स्वेन रूपेण जनयामास पावकम् । दीप्यमानम् ततो वह्निम् पुष्पैः अभ्यर्च्य सत्कृतम् ॥१४॥

तयोर् मध्ये तु सुप्रीतो निदधौ सुसमाहितः । ततो अग्निम् दीप्यमानम् तौ चक्रतुः च प्रदक्षिणम् ॥१५॥

सुग्रीवो राघवः च एव वयस्यत्वम् उपागतौ । ततः सुप्रीत मनसौ तौ उभौ हरि राघवौ ॥१६॥

अन्योन्यम् अभिवीक्षन्तौ न तृप्तिम् अभिजग्मतुः । त्वम् वयस्योऽसि हृद्यः मे हि एकम् दुःखम् सुखम् च नौ ॥१७॥

सुग्रीवो राघवम् वाक्यम् इति उवाच प्रहृष्टवत् । ततः सुपर्ण बहुलाम् भंक्त्वा शाखाम् सुपुष्पिताम् ॥१८॥

सालस्य आस्तीर्य सुग्रीवः निषसाद स राघवः । लक्ष्मनाय अथ संहृष्टो हनुमान् मारुतात्मजः ॥१९॥

शखाम् चन्दन वृक्षस्य ददौ परम पुष्पिताम् । ततः प्रहृष्टः सुग्रीवः श्लक्ष्णम् मधुरया गिरा ॥२०॥

प्रति उवाच तदा रामम् हर्ष व्याकुल लोचनः । अहम् विनिकृतो राम चरमि इह भय आर्दितः ॥२१॥

हृत भार्यो वने त्रस्तो दुर्गम् एतत् उपाश्रितः । सोऽहम् त्रस्तो वने भीतो वसामि उद् भ्रान्त चेतनः ॥२२॥

वालिना निकृतो भ्रात्रा कृत वैरः च राघव । वालिनो मे महाभाग भय आर्तस्य अभयम् कुरु ॥२३॥

कर्तुम् अर्हसि काकुत्स्थः भयम् मे न भवेद् यथा । एवम् उक्तः तु तेजस्वी धर्मज्ञो धर्म वत्सलः ॥२४॥

प्रति अभाषत काकुत्स्थः सुग्रीवम् प्रहसन् इव । उपकार फलम् मित्रम् विदितम् मे महाकपे ॥२५॥

वालिनम् तम् वधिष्यामि तव भार्य अपहारिणम् । अमोघोः सूर्य संकाशाः मम इमे निशिताः शराः ॥२६॥

तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः । कन्क पत्र प्रतिच्छन्ना महेन्द्र अशनि संनिभाः ॥२७॥

तीक्ष्णाग्रा ऋजुपर्वाणः स रोषा भुजगा इव । तम् अद्य वालिनम् पश्य तीक्ष्णैः आशी विष उपमैः ॥२८॥

शरैः विनिहितम् भूमौ प्रकीर्णम् इव पर्वतम् । स तु तद् वचनम् श्रुत्वा राघवस्य आत्मनोहितम् । सुग्रीवः परम प्रीतः परमम् वाक्यम् अब्रवीत् ॥२९॥

तव प्रसादेन नृसिंह वीर प्रियाम् च राज्यम् च समाप्नुयाम् अहम् । तथा कुरु त्वम् नर देव वैरिणम् यथा न हिंस्यत् स पुनर् मम अग्रजम् ॥३०॥

सीत कपीन्द्र क्षणदा चराणाम् राजीव हेम ज्वलनोपमानानि । सुग्रीव राम प्रणय पसङ्गे वामानि नेत्राणि समम् स्फुरन्ति ॥३१॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे पञ्चमः सर्गः ॥

Listen to the sarga
0:00