रामायणम्

विंशः सर्गः 4.26

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

ततः शोक अभिसंतप्तम् सुग्रीवम् क्लिन्न वासनम् । शाखा मृग महामात्राः परिवार्य उपतस्थिरे ॥१॥

अभिगम्य महाबाहुम् रामम् अक्लिष्ट कारिणम् । स्थिताः प्रांजलयः सर्वे पितामहम् इव ऋषयः ॥२॥

ततः कांचन शैल आभः तरुण अर्क निभ आननः । अब्रवीत् प्रांजलिर् वाक्यम् हनुमान् मारुत आत्मजः ॥३॥

भवत् प्रसादात् काकुत्स्थ पितृ पैतामहम् महत् । वानराणाम् सुदंष्ट्राणाम् संपन्न बलशालिनाम् ॥४॥

महात्मानाम् सुदुष्प्रापम् प्राप्तम् राज्यम् इदम् प्रभो । भवता समनुज्ञातः प्रविश्य नगरम् शुभम् ॥५॥

संविधास्यति कार्याणि सर्वाणि ससुहृत् गणः| स्नातो अयम् विविधैर् गन्धैर् औषधैः च यथा विधि ॥६॥

अर्चयिष्यति माल्यैः च रत्नैः च त्वाम् विशेषतः । इमाम् गिरि गुहाम् रम्याम् अभिगन्तुम् त्वम् अर्हसि ॥७॥

कुरुष्व स्वामि संबन्धम् वानरान् संप्रहर्षयन् । एवम् उक्तो हनुमता राघवः पर वीरहा ॥८॥

प्रत्युवाच हनूमन्तम् बुद्धिमान् वाक्य कोविदः । चतुर्दश समाः सौम्य ग्रामम् वा यदि वा पुरम् ॥९॥

न प्रवेक्ष्यामि हनुमन् पितुर् निर्देश पालकः । सुसमृद्धाम् गुहाम् दिव्याम् सुग्रीवो वानरर्षभः ॥१०॥

प्रविष्टो विधिवत् वीरः क्षिप्रम् राज्ये अभिषिच्यताम् । एवम् उक्त्वा हनूमन्तम् रामः सुग्रीवम् अब्रवीत् ॥११॥

वृत्तज्ञो वृत्त संपन्नम् उदार बल विक्रमम् । इमम् अपि अंगदम् वीरम् यौवराज्ये अभिषेचय ॥१२॥

ज्येष्ठस्य हि सुतो ज्येष्ठः सदृशो विक्रमेण च । अंगदो अयम् अदीनात्मा यौवराज्यस्य भाजनम् ॥१३॥

पूर्वो अयम् वार्षिको मासः श्रावणः सलिल आगमः । प्रवृत्ताः सौम्य चत्वारो मासा वार्षिक संज्ञिताः ॥१४॥

न अयम् उद्योग समयः प्रविश त्वम् पुरीम् शुभाम् । अस्मिन् वत्स्यामि अहम् सौम्य पर्वते सह लक्ष्मणः ॥१५॥

इयम् गिरि गुहा रम्या विशाला युक्त मारुता । प्रभूत सलिला सौम्य प्रभूत कमल उत्पला ॥१६॥

कार्तिके समनुप्राप्ते त्वम् रावण वधे यत । एष नः समयः सौम्य प्रविश त्वम् स्वम् आलयम् ॥१७॥

अभिषिंचस्व राज्ये च सुहृदः संप्रहर्षय । इति राम अभ्यनुज्ञातः सुग्रीवो वानरर्षभः ॥१८॥

प्रविवेश पुरीम् रम्याम् किष्किंधाम् वालि पालिताम् । तम् वानर सहस्राणि प्रविष्टम् वानर ईश्वरम् ॥१९॥

अभिवार्य प्रहृष्टानि सर्वतः प्लवगेश्वरम् । ततः प्रकृतयः सर्वा दृष्ट्वा हरि गण ईश्वरम् ॥२०॥

प्रणम्य मूर्ध्ना पतिता वसुधायाम् समाहिताः । सुग्रीवः प्रकृतीः सर्वाः संभाष्य उत्थाप्य वीर्यवान् ॥२१॥

भ्रातुर् अंतः पुरम् सौम्यम् प्रविवेश महाबलः । प्रविष्टम् भीम विक्रांतम् सुग्रीवम् वानरर्षभम् ॥२२॥

अभ्यषिंचंत सुहृदः सहस्राक्षम् इव अमराः । तस्य पाण्डुरम् आजह्रुः छत्रम् हेम परिष्कृतम् ॥२३॥

शुक्ले च वाल व्यजने हेम दण्डे यशस्करे । तथा सर्वाणि रत्नानि सर्व बीज औषधानि च ॥२४॥

स क्षीराणाम् च वृक्षाणाम् प्ररोहान् कुसुमानि च । शुक्लानि चैव वस्त्राणि श्वेतम् चैव अनुलेपनम् ॥२५॥

सुगंधीनि च माल्यानि स्थलजानि अंबुजानि च । चन्दनानि च दिव्यानि गन्धाम् च विविधान् बहून् ॥२६॥

अक्षतम् जात रूपम् च प्रियंगु मधु सर्पिषी । दधि चर्म च वैयाघ्रम् परार्ध्ये च अपि उपानहौ ॥२७॥

समालंभनम् आदाय गोरोचनम् मनः शिलाम् । आजग्मुः तत्र मुदिता वराः कन्याः च षोडश ॥२८॥

ततः ते वानर श्रेष्ठम् अभिषेक्तुम् यथा विधि । रत्नैर् वस्त्रैः च भक्ष्यैः च तोषयित्वा द्विजर्षभान् ॥२९॥

ततः कुश परिस्तीर्णम् समिद्धम् जात वेदसम् । मंत्र पूतेन हविषा हुत्वा मंत्रविदो जनाः ॥३०॥

ततो हेम प्रतिष्ठाने वर आस्तरण संवृते । प्रासाद शिखरे रम्ये चित्र माल्य उपशोभिते ॥३१॥

प्राङ्मुखम् विधिवत् मंत्रैः स्थापयित्वा वर आसने । नदी नदेभ्यः संहृत्य तीर्थेभ्यः च समंततः ॥३२॥

आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः । अपः कनक कुंभेषु निधाय विमलम् जलम् ॥३३॥

शुभैः वृषभ शृन्गैः च कलशैः च एव कांचनैः । शास्त्र दृष्टेन विधिना महर्षि विहितेन च ॥३४॥

गजो गवाक्षो गवयः शरभो गंधमादनः । मैन्दः च द्विविदः चैव हनूमान् जांबवान् तथा ॥३५॥

अभ्यषिंचंत सुग्रीवम् प्रसन्नेन सुगंधिना । सलिलेन सहस्राक्षम् वसवो वासवम् यथा ॥३६॥

अभिषिक्ते तु सुग्रीवे सर्वे वानर पुंगवाः । प्रचुक्रुशुर् महात्मानो हृष्टाः शत सहस्रशः ॥३७॥

रामस्य तु वचः कुर्वन् सुग्रीवो हरि पुंगवः । अंगदम् संपरिष्वज्य यौवराज्ये अभिषेचयत् ॥३८॥

अंगदे च अभिषिक्ते तु सानुक्रोशाः प्लवंगमाः । साधु साधु इति सुग्रीवम् महात्मानो हि अपूजयन् ॥३९॥

रामम् च एव महात्मानम् लक्ष्मणम् च पुनः पुनः । प्रीताः च तुष्टुवुः सर्वे तादृशे तत्र वर्तिनि ॥४०॥

हृष्ट पुष्ट जन आकीर्णा पताका ध्वज शोभिता । बभूव नगरी रम्या क्षिकिंधा गिरि गह्वरे ॥४१॥

निवेद्य रामाय तदा महात्मने महा अभिषेकम् कपि वाहनी पतिः । रुमाम् च भार्याम् उपलभ्य वीर्यवान् अवाप राज्यम् त्रिदश अधिपो यथा ॥४२॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे षड् विंशः सर्गः ॥

Listen to the sarga
0:00