रामायणम्

विंशः सर्गः 4.27

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् । आजगाम सह भ्रात्रा रामः प्रस्रवणम् गिरिम् ॥१॥

शार्दूल मृग संघुष्टम् सिंहैः भीम रवैः वृतम् । नाना गुल्म लता गूढम् बहु पादप संकुलम् ॥२॥

ऋक्ष वानर गोपुच्छैः मार्जारैः च निषेवितम् । मेघ राशि निभम् शैलम् नित्यम् शुचिकरम् शिवम् ॥३॥

तस्य शैलस्य शिखरे महतीम् आयताम् गुहाम् । प्रत्यगृह्णीत वासार्थम् रामः सौमित्रिणा सह ॥४॥

कृत्वा च समयम् रामः सुग्रीवेण सह अनघ । काल युक्तम् महद् वाक्यम् उवाच रघुनन्दन ॥५॥

विनीतम् भ्रातरम् भ्राता लक्ष्मणम् लक्ष्मि वर्धनम् । इयम् गिरि गुहा रम्या विशाला युक्त मारुता ॥६॥

अस्याम् वस्त्याम सौमित्रे वर्ष रात्रम् अरिंदम । गिरि शृंगम् इदम् रम्यम् उत्तमम् पार्थिवात्मज ॥७॥

श्वेताभिः कृष्ण ताम्राभिः शिलाभिः उपशोभितम् । नाना धातु समाकीर्णम् नदी दर्दुर संयुतम् ॥८॥

विविधैः वृक्ष षण्डैः च चारु चित्र लता युतम् । नाना विहग संघुष्टम् मयूर वर नादितम् ॥९॥

मालती कुंद गुल्मैः च सिंदुवारैः शिरीषकैः । कदंब अर्जुन सर्जैः च पुष्पितैः उपशोभितम् ॥१०॥

इयम् च नलिनि रम्या फुल्ल पंकज मण्डितैः । न अति दूरे गुहाया नौ भविष्यति नृपात्मज ॥११॥

प्राग् उदक् प्रवणे देशे गुहा साधु भविष्यति । पश्चात् च एव उन्नता सौम्य निवाते अयम् भविष्यति ॥१२॥

गुहा द्वारे च सौमित्रे शिला सम तला शिवा । कृष्णा च एव आयता चैव भिन्न अंजन चय उपममा ॥१३॥

गिरि शृंगम् इदम् तात पश्य च उत्तरतः सुभम् । भिन्न अंजन चय आकारम् अंभोधरम् इव उदितम् ॥१४॥

दक्षिणस्याम् अपि दिश स्थितम् श्वेतम् इव अंबरम् । कैलास शिखर प्रख्यम् नाना धातु विराजितम् ॥१५॥

प्राचीन वाहिनीम् चैव नदीम् भृशम् अकर्दमम् । गुहायाः परतः पश्य त्रिकूटे जह्नवीम् इव ॥१६॥

चन्दनैः तिलकैः सालैः तमालैः अतिमुक्तकैः । पद्मकैः सरलैः चैव अशोकैः चैव शोभितम् ॥१७॥

वानीरैः तिमिदैः चैव वकुलैः केतकैः अपि । हिन्तालैः तिनिशैः नीपैः वेतसैः कृतमालकैः ॥१८॥

तीरजैः शोभिता भाति नाना रूपैः ततः ततः । वसन आभरण उपेत प्रमद एव अभ्यलंकृता ॥१९॥

शतशः पक्षि सन्घैः च नाना नाद विनादिता । एकैकम् अनुरक्तैः च चक्रवाकैः अलंकृता ॥२०॥

पुलिनैः अति रम्यैः च हंस सारस सेविता । प्रहसंती इव भाति एषा नारी रत्न विभूषिता ॥२१॥

क्वचित् नीलोत्पलैः च्छन्न भाति रक्तोत्पलैः क्वचित् । क्वचित् भाति शुक्लैः च दिव्यैः कुमुद कुड्मलैः ॥२२॥

पारिप्लव शतैः जुष्टा बर्हि क्रौन्च विनादिता । रमणिया नदी सौम्य मुनि संघ निषेविता ॥२३॥

पश्य चंदन वृक्षाणाम् पंक्ती सुरुचिरा इव । ककुभानम् च दृश्यन्ते मनसा इव उदिताः समम् ॥२४॥

अहो सुरमणीयो अयम् देशः शत्रु निषूदन । दृढम् रंस्याव सौमित्रे साधु अत्र निवसावहे ॥२५॥

इतः च न अति दूरे सा किष्किंधा चित्र कानना । सुग्रीवस्य पुरी रम्या भविष्यति नृपात्मज ॥२६॥

गीत वादित्र निर्घोषः श्रूयते जयताम् वर । नदताम् वानराणाम् च मृदंग आडंबरैः सह ॥२७॥

लब्ध्वा भार्याम् कपिवरः प्राप्य राज्यम् सुहृत् वृतः । ध्रुवम् नंदति सुग्रीवः संप्राप्य महतीम् श्रियम् ॥२८॥

इति उक्त्वा न्यवसत् तत्र राघवः सह लक्ष्मणः । बहु दृश्य दरी कुंजे तस्मिन् प्रस्रवणे गिरौ ॥२९॥

सुसुखे हि बहु द्रव्ये तस्मिन् हि धरणी धरे । वसतः तस्य रामस्य रतिः अल्पा अपि न अभवत् ॥३०॥

हृताम् हि भार्याम् स्मरतः प्राणेभ्यो अपि गरीयसीम् । उदय अभ्युदितम् दृष्ट्वा शशांकम् च विशेषतः ॥३१॥

आविवेश न तम् निद्रा निशासु शयनम् गतम् । तत् समुत्थेन शोकेन बाष्प उपहत चेतसम् ॥३२॥

तम् शोचमानम् काकुत्स्थम् नित्यम् शोक परायणम् । तुल्य दुःखो अब्रवीद् भ्राता लक्ष्मणो अनुनयम् वचः ॥३३॥

अलम् वीर व्यथाम् गत्वा न त्वम् शोचितुम् अर्हसि । शोचतो हि अवसीदन्ति सर्व अर्था विदितम् हि ते ॥३४॥

भवान् क्रिया परो लोके भवान् देव परायणः । आस्तिको धर्म शीलः च व्यवसायी च राघव ॥३५॥

ओर् न हि अव्यवसितः शत्रुम् राक्षसम् तम् विशेषतः । समर्थः त्वम् रणे हन्तुम् विक्रमैः जिह्म कारिणम् ॥३६॥

समुन्मूलय शोकम् त्वम् व्यवसायम् स्थिरी कुरु । ततः सपरिवारम् तम् राक्षसम् हन्तुम् अर्हसि ॥३७॥

पृथिवीम् अपि काकुत्स्थ ससागर वन अचलाम् । परिवर्तयितुम् शक्तः किम् पुनः तम् हि रावणम् ॥३८॥

शरत् कालम् प्रतीक्षस्व प्रावृट् कालो अयम् आगतः । ततः स राष्ट्रम् स गणाम् रावणम् तम् वधिष्यसि ॥३९॥

अहम् तु खलु ते वीर्यम् प्रसुप्तम् प्रतिबोधये । दीप्तैः आहुतिभिः काले भस्म चन्नम् इव अनलम् ॥४०॥

लक्ष्मणस्य हि तद् वाक्यम् प्रतिपूज्य हितम् शुभम् । राघवः सुहृदम् स्निग्धम् इदम् वचनम् अब्रवीत् ॥४१॥

वाच्यम् यद् अनुरक्तेन स्निग्धेन च हितेन च । सत्य विक्रम युक्तेन तद् उक्तम् लक्ष्मण त्वया ॥४२॥

एष शोकः परित्यक्तः सर्व कार्य अवसादकः । विक्रमेषु अप्रतिहतम् तेजः प्रोत्साहयामि अहम् ॥४३॥

शरत् कालम् प्रतीक्षिष्ये स्थितो अस्मि वचने तव । सुग्रीवस्य नदीनाम् च प्रसादम् अनुपालयन् ॥४४॥

उपकारेण विरः तु प्रतिकारेण युज्यते । अकृतज्ञो अप्रतिकृतो हन्ति सत्ववताम् मनः ॥४५॥

तत् एव युक्तम् प्रणिधाय लक्ष्मणः कृत अंजलि तत् प्रतिपूजय भाषितम् । उवाच रामम् स्वभिराम दर्शनम् प्रदर्शयन् दर्शनम् आत्मनः शुभम् ॥४६॥

यथोक्तम् एतत् तव सर्वम् ईप्सितम् नरेन्द्र कर्ता न चिरात् तु वानर । शरत् प्रतीक्षः क्षमताम् इमम् भवान् जल प्रपातम् रिपु निग्रहे धृतः ॥४७॥

नियम्य कोपम् प्रतिपाल्यताम् शरत् क्षमस्व मासाम् चतुरो मया सह । वस अचले अस्मिन् मृग राज सेविते संवर्तयन् शत्रु वधे समर्थः ॥४८॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे सप्त विंशः सर्गः ॥

Listen to the sarga
0:00