स तदा वालिनम् हत्वा सुग्रीवम् अभिषिच्य च । वसन् माल्यवतः पृष्टे रामो लक्ष्मणम् अब्रवीत् ॥१॥
विंशः सर्गः 4.28
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
अयम् स कालः संप्राप्तः समयो अद्य जल आगमः । संपश्य त्वम् नभो मेघैः संवृतम् गिरि संनिभैः ॥२॥
नव मास धृतम् गर्भम् भास्कारस्य गभस्तिभिः । पीत्वा रसम् समुद्राणाम् द्यौः प्रसूते रसायनम् ॥३॥
शक्यम् अंबरम् आरुह्य मेघ सोपान पंक्तिभिः । कुटज अर्जुन मालाभिः अलंकर्तुम् दिवाकरम् ॥४॥
संध्या राग उत्थितैः ताम्रैः अंतेषु अधिक पाण्डुरैः । स्निग्धैः अभ्र पट च्छेदैः बद्ध व्रणम् इव अंबरम् ॥५॥
मन्द मारुत निःश्वासम् संध्या चंदन रंजितम् । आपाण्डु जलदम् भाति काम आतुरम् इव अंबरम् ॥६॥
एषा घर्म परिक्लिष्टा नव वारि परिप्लुता । सीता इव शोक संतप्ता मही बाष्पम् विमुंचति ॥७॥
मेघ उदर विनिर्मुक्ताः कर्पूर दल शीतलाः । शक्यम् अंजलिभिः पातुम् वाताः केतकि गन्धिनः ॥८॥
एष फुल्ल अर्जुनः शैलः केतकैः अधिवासितः । सुग्रीव इव शान्त अरिः धाराभिः अभिषिच्यते ॥९॥
मेघ कृष्ण अजिन धरा धारा यज्ञ उपवीतिनः । मारुत आपूरित गुहाः प्राधीता इव पर्वताः ॥१०॥
कशाभिः इव हैमीभिः विद्युद्भिः इव ताडितम् । अन्तः स्तनित निर्घोषम् सवेदनम् इव अंबरम् ॥११॥
नील मेघ आश्रिता विद्युत् स्फुरंती प्रतिभाति मे । स्फुरंती रावणस्य अंके वैदेही इव तपस्विनी ॥१२॥
इमाः ता मन्मथवताम् हिताः प्रतिहता दिशः । अनुलिप्ता इव घनैः नष्ट ग्रह निशा कराः ॥१३॥
क्वचित् बाष्प अभिसंरुद्धान् वर्ष आगम समुत्सुकान् । कुटजान् पश्य सौमित्रे पुष्टितान् गिरि सानुषु । मम शोक अभिभूतस्य काम संदीपनान् स्थितान् ॥१४॥
रजः प्रशांतम् स हिमो अद्य वायुः निदाघ दोष प्रसराः प्रशांताः । स्थिता हि यात्रा वसुधा अधिपानाम् प्रवासिनो यांति नराः स्व देशान् ॥१५॥
संप्रस्थिता मानस वास लुब्धाः प्रिय अन्विताः संप्रति चक्रवाकः । अभीक्ष्ण वर्ष उदक विक्षतेषु यानानि मार्गेषु न संपतन्ति ॥१६॥
क्वचित् प्रकाशम् क्वचिद् अप्रकाशम् नभः प्रकीर्णा अंबु धरम् विभाति । क्वचित् क्वचित् पर्वत संनिरुद्धम् रूपम् यथा शान्त महार्णवस्य ॥१७॥
व्यामिश्रितम् सर्ज कदंब पुष्पैः नवम् जलम् पर्वत धातु ताम्रम् । मयूर केकाभिः अनुप्रयातम् शैल अपगाः शीघ्रतरम् वहन्ति ॥१८॥
रस आकुलम् षट्पद संनिकाशम् प्रभुज्यते जंबु फलम् प्रकामम् । अनेक वर्णम् पवन अवधूतम् भूमौ पतति आम्र फलम् विपक्वम् ॥१९॥
विद्युत् पताकाः स बलाक मालाः शैलेन्द्र कूट आकृति संनिकाशाः । गर्जन्ति मेघाः समुदीर्ण नादा मत्त गजेन्द्रा इव संयुगस्थाः ॥२०॥
वर्ष उदक आअप्यायित शाद्वलानि प्रवृत्त नृत्त उत्सव बर्हिणानि । वनानि निर्वृष्ट बलाहकानि पश्य अपराह्णेषु अधिकम् विभान्ति ॥२१॥
सम् उद् वहन्तः सलिल अति भारम् बलाकिनो वारि धरा नदन्तः । महत्सु शृंगेषु मही धराणाम् विश्रम्य विश्रम्य पुनः प्रयान्ति ॥२२॥
मेघ अभिकामा परिसंपतन्ती सम्मोदिता भाति बलाक पंक्तिः । वात अवधूता वर पौण्डरीकी लंब इव माला रुचिर अंबरस्य ॥२३॥
बाल इन्द्रगोप्ता अंतर चित्रितेन विभाति भूमिः नव शाद्वलेन । गात्र अनुपृक्तेन शुक प्रभेण नारी इव लाक्ष उक्षित कंबलेन ॥२४॥
निद्रा शनैः केशवम् अभ्युपैति द्रुतम् नदी सागरम् अभ्युपैति । हृष्टा बलाका घनम् अभ्युपैति कान्ता स कामा प्रियम् अभ्युपैति ॥२५॥
जाता वनान्ताः शिखि सुप्रनृत्ता जाताः कदंबाः स कदंब शाखाः । जाता वृषा गोषु समान कामा जाता मही सस्य वन अभिरामा ॥२६॥
वहन्ति वर्षन्ति नदन्ति भान्ति ध्यायन्ति नृत्यन्ति समाश्वसन्ति । नद्यो घना मत्त गजा वन अन्ताः प्रिया विहीनाः शिखिनः प्लवंगाः ॥२७॥
प्रहर्षिताः केतक पुष्प गन्धम् आघ्राय मत्ता वन निर्झरेषु । प्रपात शब्द आकुलिता गजेन्द्राः सार्धम् मयूरैः स मदा नदन्ति ॥२८॥
धारा निपातैः अभिहन्यमानाः कदंब शाखासु विलंबमानाः । क्षण अर्जितम् पुष्प रस अवगाढम् शनैर् मदम् षट् चरणाः त्यजन्ति ॥२९॥
अंगार चूर्ण उत्कर संनिकाशैः फलैः सुपर्याप्त रसैः समृद्धैः । जंबू द्रुमाणाम् प्रविभान्ति शाखा निपीयमाना इव षट्पद ओघैः ॥३०॥
तडित् पताकाभिः अलंकृतानाम् उदीर्ण गंभीर महा रवाणाम् । विभान्ति रूपाणि बलाहकानाम् रण उत्सुकानाम् इव वारणानाम् ॥३१॥
मार्ग अनुगः शैल वन अनुसारी संप्रस्थितो मेघ रवम् निशम्य । युद्ध अभिकामः प्रतिनाद शन्की मत्तो गजेन्द्रः प्रतिसंनिवृत्तः ॥३२॥
क्वचित् प्रगीता इव षट्पद ओघैः क्वचित् प्रवृत्ता इव नील कण्ठैः । क्वचित् प्रमत्ता इव वारण इन्द्रैः विभाति अनेक आश्रयिणो वनान्ता ॥३३॥
कदंब सर्जा अर्जुन कंदल आढ्या वनान्त भूमि मधु वारि पूर्णा । मयूर मत्ता अभिरुत प्रवृत्तैः अपान भूमि प्रतिमा विभाति ॥३४॥
मुक्ता समाभम् सलिलम् पतत् वै सुनिर्मलम् पत्र पुटेषु लग्नम् । हृष्टा विवर्ण च्छदना विहंगाः सुरेन्द्र दत्तम् तृषिताः पिबन्ति ॥३५॥
षत्पद तंत्री मधुर अभिधानम् प्लवंगम् उदीरित कण्ठ तालम् । आविष्कृतम् मेघ मृदंग नादैः वनेषु संगीतम् इव प्रवृत्तम् ॥३६॥
क्वचित् प्रनृत्तैः क्वचित् उन् नदद्भिः क्वचित् च वृक्ष अग्र निषण्ण कायैः । व्यालंब बर्ह आभरणैः मयूरैः वनेषु संगितम् इव प्रवृत्तम् ॥३७॥
स्वनैः घनानाम् प्लवगाः प्रबुद्धा विहाय निद्राम् चिर संनिरुद्धाम् । अनेक रूपा आकृति वर्ण नादा नव अंबु धारा अभिहता नदन्ति ॥३८॥
नद्यः समुद्वाहित चक्रवाका तटानि शीर्णानि अपवाहयित्वा । दृप्ता नव प्राभृत पूर्ण भोगा द्रुतम् स्व भर्तारम् उपोप यान्ति ॥३९॥
नीलेषु नीला नव वारि पूर्णा मेघेषु मेघाः प्रविभान्ति सक्ताः । दवाग्नि दग्धेषु दवाग्नि दग्धाः शैलेषु शैला इव बद्ध मूलाः ॥४०॥
प्रमत्त संनाददित बर्हिणानि स शक्रगोप अकुल शाद्वलानि । चरन्ति नीप अर्जुन वासितानि गजाः सुरम्याणि वन अन्तराणि ॥४१॥
नव अंबु धार आहत केसराणि द्रुतम् परित्यज्य सरोरुहाणि । कदंब पुष्पाणि स केसराणि नवानि हृष्टा भ्रमराः पिबन्ति ॥४२॥
मत्ता गजेन्द्रा मुदिता गवेन्द्रा वनेषु विक्रांततरा मृगेन्द्राः । रम्या नगेन्द्रा निभृता नरेन्द्राः प्रक्रीडितो वारि धरैः सुरेन्द्रः ॥४३॥
मेघाः समुद् भूत समुद्र नादा महाजल ओघैः गगन अवलंबाः । नदीः तटाकानि सरांसि वापिः महीम् च कृत्स्नाम् अपवाहयन्ति ॥४४॥
वर्ष प्रवेगा विपुला पतन्ति प्रवान्ति वाताः समुदीर्ण वेगाः । प्रनष्ट कूलाः प्रवहन्ति शीघ्रम् नद्यो जलम् विप्रतिपन्न मार्गाः ॥४५॥
नरैः नरेन्द्रा इव पर्वतेन्द्राः सुरेन्द्र नीतैः पवन उपनीतैः । घन अंबु कुम्भैः अभिषिच्यमाना रूपम् श्रियम् स्वाम् इव दर्शयन्ति ॥४६॥
घन उपगूढम् गगनम् न तारा न भास्करो दर्शनम् अभ्युपैति । नवैः जल ओघैः धरणी वितृप्ता तमो विलिप्ता न दिशः प्रकाशाः ॥४७॥
महान्ति कूटानि मही धराणाम् धारा विधौतानि अधिकम् विभान्ति । महा प्रमाणैः विपुलैः प्रपातैः मुक्त कलापैः इव लंबमानैः ॥४८॥
शैलोपल प्रस्खलमान वेगाः शैलोत्तमानाम् विपुलाः प्रपाताः । गुहासु संनादित बर्हिणासु हारा विकीर्यन्त इव अवभान्ति ॥४९॥
शीघ्र प्रवेगा विपुलाः प्रपाता निर्धौत शृंग उपतला गिरीणाम् । मुक्ता कलाप प्रतिमाः पतन्तो महा गुह उस्त्संग तलैः ध्रियन्ते ॥५०॥
सुरताम् अर्द विच्छिन्नाः स्वर्ग स्त्री हार मौक्तिकाः । पतन्ति च अतुलाः दिक्षु तोय धाराः समन्ततः ॥५१॥
विलीयमानैः विहगैः निमीलद्भिः च पंकजैः । विकसन्त्या च मालत्या गतो अस्तम् ज्ञायते रविः ॥५२॥
वृत्ता यात्रा नरेन्द्राणाम् सेना पथि एव वर्तते । वैराणि चैव मार्गाः च सलिलेन समीकृताः ॥५३॥
मासि प्रौष्ठपदे ब्रह्म ब्राह्मणानाम् विवक्षताम् । अयम् अध्याय समयः सामगानाम् उपस्थितः ॥५४॥
निवृत्त कर्म आयतनो नूनम् संचित संचयः । आषाढीम् अभ्युपगतो भरतः कोसल अधिपः ॥५५॥
नूनम् आपूर्यमाणायाः सरय्वा वधते रयः । माम् समीक्ष्य समायान्तम् अयोध्याया इव स्वनः ॥५६॥
इमाः स्फीत गुणा वर्षाः सुग्रीवः सुखम् अश्नुते । विजित अरिः स दारः च राज्ये महति च स्थितः ॥५७॥
अहम् तु हृत दारः च राज्यात् च महतः च्युतः । नदी कूलम् इव क्लिन्नम् अवसीदामि लक्ष्मण ॥५८॥
शोकः च मम विस्तीर्णो वर्षाः च भृश दुर्गमाः । रावणः च महान् शत्रुः अपारम् प्रतिभाति मे ॥५९॥
अयात्राम् चैव दृष्ट्वा इमाम् मार्गाम् च भृश दुर्गमान् । प्रणते चैव सुग्रीवे न मया किंचित् ईरितम् ॥६०॥
अपि च अति परिक्लिष्टम् चिरात् दारैः समागतम् । आत्म कार्य गरीयस्त्वात् वक्तुम् न इच्छामि वानरम् ॥६१॥
स्वयम् एव हि विश्रम्य ज्ञात्वा कालम् उपागतम् । उपकारम् च सुग्रीवो वेत्स्यते न अत्र संशयः ॥६२॥
तस्मात् काल प्रतीक्षो अहम् स्थितो अस्मि शुभ लक्षण । सुग्रीवस्य नदीनाम् च प्रसादम् अभिकांक्षयन् ॥६३॥
उपकारेण वीरो हि प्रतिकारेण युज्यते । अकृतज्ञो अप्रतिकृतो हन्ति सत्त्ववताम् मनः ॥६४॥
अथ एवम् उक्तः प्रणिधाय लक्ष्मणः कृत अंजलिः तत् प्रतिपूज्य भाषितम् । उवाच रामम् स्वभिराम दर्शनम् प्रदर्शयन् दर्शनम् आत्मनः शुभम् ॥६५॥
यत् उक्तम् एतत् तव सर्वम् ईप्सितम् नर इन्द्र कर्ता नचिरा हरि ईश्वरः । शरत् प्रतीक्षः क्षमताम् इमम् भवान् जल प्रपातम् रिपु निग्रहे धृतः ॥६६॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे अष्ट विंशः सर्गः ॥