रामायणम्

त्रिंश सर्गः 4.29

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

समीक्ष्य विमलम् व्योम गत विद्युत् बलाहकम् । सारसा आकुल संघुष्टम् रम्य ज्योत्स्ना अनुलेपनम् ॥१॥

समृद्ध अर्थम् च सुग्रीवम् मन्द धर्मार्थ संग्रहम् । अत्यर्थम् च असताम् मार्गम् एकांत गत मानसम् ॥२॥

निवृत्त कार्यम् सिद्धार्थम् प्रमद अभिरतम् सदा । प्राप्तवन्तम् अभिप्रेतान् सर्वान् एव मनोरथान् ॥३॥

स्वाम् च पात्नीम् अभिप्रेताम् ताराम् च अपि समीप्सिताम् । विहरंतम् अहो रात्रम् कृतार्थम् विगत ज्वरम् ॥४॥

क्रीडन्तम् इव देवेशम् गन्धर्व अप्सरसाम् गणैः । मंत्रिषु न्यस्त कार्यम् च मंत्रिणाम् अनवेक्षकम् ॥५॥

उच्छिन्न राज्य संदेहम् काम वृत्तम् इव स्थितम् । निश्चित अर्थो अर्थ तत्त्वज्ञः काल धर्म विशेष वित् ॥६॥

प्रसाद्य वाक्यैः मधुरैः हेतुमद्भिः मनो रमैः । वाक्यवित् वाक्य तत्त्वज्ञम् हरीशम् मारुतात्मजः ॥७॥

हितम् तथ्यम् च पथ्यम् च साम धर्म अर्थ नीतिमत् । प्रणय प्रीति संयुक्तम् विश्वास कृत निश्चयम् ॥८॥

हरीश्वरम् उपागम्य हनुमान् वाक्यम् अब्रवीत् । राज्यम् प्राप्तम् यशः चैव कौली श्रीः अभिवर्थिता ॥९॥

मित्राणाम् संग्रहः शेषः तत् भवान् कर्तुम् अर्हति । यो हि मित्रेषु कालज्ञः सततम् साधु वर्तते ॥१०॥

तस्य राज्यम् च कीर्तिः च प्रतापः च अपि वर्धते । यस्य कोशः च दण्डः च मित्राणि आत्मा च भूमिप । समानि एतानि सर्वाणि स राज्यम् महत् अश्नुते ॥११॥

तत् भवान् वृत्त संपन्नः स्थितः पथि निरत्यये । मित्रार्थम् अभिनीतार्थम् यथावत् कर्तुम् अर्हति ॥१२॥

संत्यज्य सर्व कर्माणि मित्रार्थम् यो न वर्तते । संभ्रमात् हि कृत उत्साहः सः अनर्थेन अवरुध्यते ॥१३॥

यो हि काल व्यतीतेषु मित्र कार्येषु वर्तते । स कृत्वा महतो अपि अर्थान् न मित्रार्थेन युज्यते ॥१४॥

तत् इदम् मित्रकार्यम् नः काल अतीतम् अरिंदम । क्रियताम् राघवस्य एतत् वैदेह्याः परिमार्गणम् ॥१५॥

न च कालम् अतीतम् ते निवेदयति कालवित् । त्वरमाणो अपि स प्राज्ञः तव राजन् वशानुगः ॥१६॥

कुलस्य हेतुः स्फीतस्य दीर्घ बन्धुः च राघवः । अप्रमेय प्रभावः च स्वयम् च अप्रतिमो गुणैः ॥१७॥

तस्य त्वम् कुरु वै कार्यम् पूर्वम् तेन कृतम् तव । हरीश्वर हरि श्रेष्ठान् आज्ञापयितुम् अर्हसि ॥१८॥

न हि तावत् भवेत् कालो व्यतीतः चोदनात् ऋते । चोदितस्य हि कार्यस्य भवेत् काल व्यतिक्रमः ॥१९॥

अकर्तुर् अपि कार्यस्य भवान् कर्ता हरीश्वर । किम् पुनः प्रतिकर्तुः ते राज्येन च वधेन च ॥२०॥

शक्तिमान् अतिविक्रान्तो वानर ऋष्क गण ईश्वर । कर्तुम् दाशरथेः प्रीतिम् आज्ञायाम् किम् नु सज्जसे ॥२१॥

कामम् खलु शरैः शक्तः सुर असुर महा उरगान् । वशे दाशरथिः कर्तुम् त्वत् प्रतिज्ञाम् अवेक्षते ॥२२॥

प्राण त्याग अविशंकेन कृतम् तेन महत् प्रियम् । तस्य मार्गाम वैदेहीम् पृथिव्याम् अपि च अंबरे ॥२३॥

न देवा न च गंधर्वा न असुरा न मरुत् गणाः । न च यक्षा भयम् तस्य कुर्युः किम् इव राक्षसाः ॥२४॥

तत् एवम् शक्ति युक्तस्य पूर्वम् प्रिय कृतः तथा । रामस्य अर्हसि पिंगेश कर्तुम् सर्व आत्मना प्रियम् ॥२५॥

न अधस्तात् अवनौ न अप्सु गतिः न उपरि च अम्बरे । कस्यचित् सज्जते अस्माकम् कपीश्वर तव आज्ञया ॥२६॥

तत् आज्ञापय कः किम् ते कुतो वा अपि व्यवस्यतु । हरयो हि अप्रधृष्याः ते सन्ति कोटि अग्रतो अनघ ॥२७॥

तस्य तद् वचनम् श्रुत्वा काले साधु निरूपितम् । सुग्रीवः सत्त्व संपन्नः चकार मतिम् उत्तमाम् ॥२८॥

संदिदेश अति मति मान् नीलम् नित्य कृत उद्यमम् । दिक्षु सर्वासु सर्वेषाम् सैन्यानाम् उपसंग्रहे ॥२९॥

यथा सेना समग्रा मे यूथपालाः च सर्वशः । समागच्छन्ति असंगेन सेनाग्राणि तथा कुरु ॥३०॥

ये तु अंतपालाः प्लवगाः शीघ्रगा व्यवसायिनः । समानयंतु ते शीघ्रम् त्वरिताः शासनात् मम । स्वयम् च अनंतरम् सैन्यम् भवान् एव अनुपश्यतु ॥३१॥

त्रि पंच रात्रात् ऊर्ध्वम् यः प्राप्नुयात् इह वानरः । तस्य प्राण अन्तिको दण्डो न अत्र कार्या विचारणा ॥३२॥

हरीन् च वृद्धान् उपयातु स अंगदो भवान् मम आज्ञाम् अधिकृत्य निश्चितम् । इति व्यवस्थाम् हरि पुंगव ईश्वरो विधाय वेश्म प्रविवेश वीर्यवान् ॥३३॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे एकोन त्रिंश सर्गः ॥

Listen to the sarga
0:00