रामायणम्

त्रिंश सर्गः 4.30

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

गुहाम् प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः । वर्ष रात्रे स्थितो रामः काम शोक अभिपीडितः ॥१॥

पाण्डुरम् गगनम् दृष्ट्वा विमलम् चन्द्र मण्डलम् । शारदीम् रजनीम् चैव दृष्ट्वा ज्योत्स्न अनुलेपनाम् ॥२॥

काम वृत्तम् च सुग्रीवम् नष्टाम् च जनक आत्मजाम् । दृष्ट्वा कालम् अतीतम् च मुमोह परम आतुरः ॥३॥

स तु संज्ञाम् उपागम्य मुहूर्तात् मतिमान् नृपः । मनः स्थाम् अपि वैदेहीम् चिंतयामास राघवः ॥४॥

दृष्ट्वा च विमलम् व्योम गत विद्युत् बलाहकम् । सारस आरव संघुष्टम् विललाप आर्तया गिरा ॥५॥

आसीनः पर्वतस्य अग्रे हेम धातु विभूषिते । शारदम् गगनम् दृष्ट्वा जगाम मनसा प्रियाम् ॥६॥

सारस आरव संनादैः सारस आरव नादिनी । या आश्रमे रमते बाला सा अद्य मे रमते कथम् ॥७॥

पुष्पिताम् च आसनान् दृष्ट्वा कांचनान् इव निर्मलान् । कथम् सा रमते बाला पश्यंती माम् अपश्यती ॥८॥

या पुरा कलहंसानाम् स्वरेण कल भाषिणी । बुध्यते चारु सर्वांगी सा अद्य मे रमते कथम् ॥९॥

निःस्वनम् चक्रवाकानाम् निशम्य सहचारिणाम् । पुण्डरीकविशालाक्षी कथम् एषा भविष्यति ॥१०॥

सरांसि सरितो वापीः काननानि वनानि च । ताम् विना मृगशावाक्षीम् चरन् न अद्य सुखम् लभे ॥११॥

अपि ताम् मत् वियोगात् च सौकुमार्यात् च भामिनीम् । सुदूरम् पीडयेत् कामः शरत् गुण निरंतरः ॥१२॥

एवम् आदि नरश्रेष्ठो विललाप नृपात्मजः । विहंग इव सारंगः सलिलम् त्रिदशेश्वरात् ॥१३॥

ततः चंचूर्य रम्येषु फलार्थी गिरि सानुषु । ददर्श पर्युपावृत्तो लक्ष्मीवान् लक्ष्मणो अग्रजम् ॥१४॥

स चिन्तया दुस्सहया परीतम् विसंज्ञम् एकम् विजने मनस्वी । भ्रातुर् विषादात् त्वरितो अति दीनः समीक्ष्य सौमित्रिः उवाच रामम् ॥१५॥

किम् आर्य कामस्य वशम् गतेन किम् आत्म पौरुष्य पराभवेन । अयम् ह्रिया संह्रियते समाधिः किम् अत्र योगेन निवर्तितेन ॥१६॥

क्रियाभियोगम् मनसः प्रसादम् समाधि योग अनुगतम् च कालम् । सहाय सामर्थ्यम् अदीन सत्त्वः स्व कर्म हेतुम् च कुरुष्व तात ॥१७॥

न जानकी मानव वंश नाथ त्वया सनाथा सुलभा परेण । न च अग्नि चूडाम् ज्वलिताम् उपेत्य न दह्यते वीर वरार्ह कश्चित् ॥१८॥

सलक्षणम् लक्ष्मणम् अप्रधृष्यम् स्वभावजम् वाक्यम् उवाच रामः । हितम् च पथ्यम् च नय प्रसक्तम् ससाम धर्मार्थ समाहितम् च ॥१९॥

निस्संशयम् कार्यम् अवेक्षितव्यम् क्रिया विशेषो अपि अनुवर्तितव्यः । न तु प्रवृद्धस्य दुरासदस्य कुमार वीर्यस्य फलम् च चिन्त्यम् ॥२०॥

अथ पद्म पलाश अक्षीम् मैथिलीम् अनुचिन्तयन् । उवाच लक्ष्मणम् रामो मुखेन परिशुष्यता ॥२१॥

तर्पयित्वा सहस्राक्षः सलिलेन वसुंधराम् । निर्वर्तयित्वा सस्यानि कृत कर्मा व्यवस्थितः ॥२२॥

दीर्घ गंभीर निर्घोषाः शैल द्रुम पुरोगमाः । विसृज्य सलिलम् मेघाः परिश्रांता नृप आत्मज ॥२३॥

नील उत्पल दल श्यामः श्यामी कृत्वा दिशो दश । विमदा इव मातंगाः शान्त वेगाः पयो धराः ॥२४॥

जल गर्भा महा वेगाः कुटज अर्जुन गंधिनः । चरित्वा विरताः सौम्य वृष्टि वाताः समुद्यताः ॥२५॥

घनानाम् वारणानाम् च मयूराणाम् च लक्ष्मण । नादः प्रस्रवणानाम् च प्रशान्तः सहसा अनघ ॥२६॥

अभिवृष्टा महा मेघैः निर्मलाः चित्र सानवः । अनुलिप्ता इव आभान्ति गिरयः चन्द्र रश्मिभिः ॥२७॥

शाखासु सप्त च्छद पादपानाम् प्रभासु तार अर्क निशा कराणाम् । लीलासु चैव उत्तम वारणानाम् श्रियम् विभज्य अद्य शरत् प्रवृत्ता ॥२८॥

संप्रति अनेक आश्रय चित्र शोभा लक्ष्मीः शरत् काल गुण उपपन्ना । सूर्य अग्र हस्त प्रतिबोधितेषु पद्माकरेषु अभ्यधिकम् विभाति ॥२९॥

सप्त च्छदानाम् कुसुमोप गंधी षट् पाद वृन्दैः अनुगीयमानः । मत्त द्विपानाम् पवन अनुसारी दर्पम् विनेष्यन् अधिकम् विभाति ॥३०॥

अभ्यागतैः चारु विशाल पक्षैः सरः प्रियैः पद्म रजो अवकीर्णैः । महा नदीनाम् पुलिन उपयातैः क्रीडन्ति हंसाः सह चक्रवाकैः ॥३१॥

मद प्रगल्भेषु च वारिणेषु गवाम् समूहेषु च दर्पितेषु । प्रसन्न तोयासु च निम्न गासु विभाति लक्ष्मीः बहुधा विभक्ता ॥३२॥

नभः समीक्ष्या अंबु धरैः विमुक्तम् विमुक्त बर्ह आभरणा वनेषु । प्रियासु अरक्ता विनिवृत्त शोभा गत उत्सवा ध्यान परा मयूराः ॥३३॥

मनोज्ञ गन्धैः प्रियकैः अनल्पैः पुष्प अति भार अवनत अग्र शाखैः । सुवर्ण गौरैः नयन अभिरामैः उद्योतितान् इव वन अन्तराणि ॥३४॥

प्रिय अन्वितानाम् नलिनी प्रियाणाम् वन प्रियाणाम् कुसुम उद्धतानाम् । मद उत्कटानाम् मद लालसानाम् गज उत्तमानम् गतयो अद्य मन्दाः ॥३५॥

4.30.35 #a10cce2cd42d timing uncertain

व्यक्तम् नभः शस्त्र विधौत वर्णम् कृश प्रवाहानि नदी जलानि । कह्लार शिताः पवनाः प्रवान्ति तमो विमुक्ताः च दिशः प्रकाशाः ॥३६॥

सूर्य आतप क्रामण नष्ट पंका भूमिः चिर उद्घाटित सांद्र रेणुः । अन्योन्य वैरेण समायुतानाम् उद्योग कालो अद्य नर अधिपानाम् ॥३७॥

शरत् गुण आप्यायित रूप शोभाः प्रहर्षित पांशु समुक्षित अंगाः । मद उत्कटाः संप्रति युद्ध लुब्धा वृषा गवाम् मध्य गता नदन्ति ॥३८॥

स मन्मध तीव्रतर अनुरागा कुलान्विता मन्द गतिः करेणुः । मदान्वितम् संपरिवार्य यान्तम् वनेषु भर्तारम् अनुप्रयाति ॥३९॥

त्यक्त्वा वराणि आत्म विभूषणानि बर्हाणि तीर उपगता नदीनाम् । निर्भर्त्स्यमाना इव सार ओघैः प्रयान्ति दीना विमना मयूराः ॥४०॥

वित्रास्य कारण्डव चक्रवाकान् । महा रवैः भिन्न कटा गजेन्द्राः । सरस्सु बद्ध अंबुज भूषणेषु विक्षोभ्य विक्षोभ्य जलम् पिबन्ति ॥४१॥

व्यपेत पंकजासु स वालुकासु प्रसन्न तोयासु स गो कुलासु । स सारसा राव विनादितासु नदिषु हंसा निपतन्ति हृष्टाः ॥४२॥

नदी घन प्रस्रवण उदकानाम् अति प्रवृद्ध अनिल बर्हिणानाम् । प्लवंगमानाम् च गत उत्सवानाम् ध्रुवम् रवाः संप्रति संप्रणष्टाः ॥४३॥

अनेक वर्णाः सुविनष्ट कायाः नव उदितेषु अंबुधरेषु नष्टाः । क्षुध अर्दिता घोर विषा बिलेभ्यः चिर उषिता विप्रसरन्ति सर्पाः ॥४४॥

चंचत् चन्द्र कर स्पर्श हर्ष उन्मीलित तारका । अहो रागवती संध्या जहाति स्वयम् अंबरम् ॥४५॥

रात्रिः शशांक उदित सौम्य वक्त्रा तारा गण उन्मीलित चारु नेत्रा । ज्योत्स्ना अंशुक प्रावरणा विभाति नारी इव शुक्ल अंशुक संवृत अंगी ॥४६॥

विपक्व शालि प्रसवानि भुक्त्वा प्रहर्षिता सारस चारु पंक्ति । नभः समाक्रामति शीघ्र वेगा वात अवधूता ग्रथित इव माला ॥४७॥

सुप्त एक हंसम् कुमुदैः उपेतम् महा ह्रदस्थम् सलिलम् विभाति । घनैः विमुक्तम् निशि पूर्ण चन्द्रम् तारा गण कीर्णम् इव अंतरिक्षम् ॥४८॥

प्रकीर्ण हंसा अकुल मेखलानाम् प्रबुद्ध पद्म उत्पल मालिनीनाम् । वापीः उत्तमानाम् अधिक अद्य लक्ष्मीः वर अंगनाम् इव भूषितानाम् ॥४९॥

वेणु स्वर व्यंजित तूर्य मिश्रः प्रत्यूष काले अनिल संप्रवृत्तः । संमूर्च्छितो गह्वर गो वृषाणाम् अन्योन्यम् आपूरयति इव शब्दः ॥५०॥

नवैः नदीनाम् कुसुम प्रहासैः व्या धूयमानैः मृदु मारुतेन । धौत अमल क्षौम पट प्रकाशैः कूलानि काशैः उपशोभितानि ॥५१॥

वन प्रचण्डा मधु पान शौण्डाः प्रिय अन्विताः षट् चरणाः प्रहृष्टाः । वनेसु मत्ताः पवन अनु यात्राम् कुर्वन्ति पद्म आसन रेणु गौराः ॥५२॥

जलम् प्रसन्नम् कुसुम प्रहासम् क्रौन्च स्वनम् शालि वनम् विपक्वम् । मृदुः च वायुः विमलः च चन्द्रः शंसन्ति वर्ष व्यपनीत कालम् ॥५३॥

मीन उप संदर्शित मेखलानाम् नदी वधूनाम् गतयो अद्य मंदाः । कान्त उपभुक्त अलस गामिनीनाम् प्रभात कालेषु इव कामिनीनाम् ॥५४॥

स चक्रवाकानि स शैवलानि काशैः दुकूलैः इव संवृतानि । स पत्र रेखाणि स रोचनानि वधू मुखानि इव नदी मुखानि ॥५५॥

प्रफुल्ल बाण आसन चित्रितेषु प्रहृष्ट षट्पदानि कूजितेषु । गृहीत चापः उद्यत दण्ड चण्डः प्रचण्ड चारो अद्य वनेषु कामः ॥५६॥

लोकम् सुवृष्ट्या परितोषयित्व नदीः तटाकानि च पूरयित्वा । निष्पन्न सस्याम् वसुधाम् च कृत्वा त्यक्त्वा नभः तोय धराः प्रणष्टाः ॥५७॥

दर्शयन्ति शरन् नद्यः पुलिनानि शनैः शनैः । नव संगम सव्रीडा जघनानि इव योषितः ॥५८॥

प्रसन्न सलिलाः सौम्य कुरराभिः विनादिताः । चक्रवाक गण आकीर्णा विभांति सलिल आशयाः ॥५९॥

अन्योन्य बद्ध वैराणाम् जिगीषूणाम् नृपात्मज । उद्योग समयः सौम्य पार्थिवानाम् उपस्थितः ॥६०॥

इयम् सा प्रथमा यात्रा पार्थिवानाम् नृपात्मज । न च पश्यामि सुग्रीवम् उद्योगम् वा तथा विधम् ॥६१॥

असनाः सप्त पर्णाः च कोविदाराः च पुष्पिताः । दृश्यन्ते बन्धुजीवाः च श्यामाः च गिरि सानुषु ॥६२॥

हंस सारस चक्राह्वैः कुररैः च समंततः । पुलिनानि अवकीर्णानि नदीनाम् पश्य लक्ष्मण ॥६३॥

चत्वारो वार्षिका मासा गता वर्ष शत उपमाः । मम शोक अभितप्तस्य तथा सीताम् अपश्यतः ॥६४॥

चक्रवाकी इव भर्तारम् पृष्टतो अनुगता वनम् । विषमम् दण्डकारण्यम् उद्यान वनम् इव च अंगना ॥६५॥

प्रिया विहीने दुःख आर्ते हृत राज्ये विवासिते । कृपाम् न कुरुते राजा सुग्रीवो मयि लक्ष्मण ॥६६॥

अनाथो हृत राज्यो अयम् रावणेन च धर्षितः || दीनो दूर गृहः कामी माम् चैव शरणम् गतः ॥६७॥

इति एतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः । अहम् वानर राजस्य परिभूतः परंतप ॥६८॥

स कालम् परिसंख्याय सीतायाः परिमार्गणे । कृतार्थः समयम् कृत्वा दुर्मतिः न अवबुध्यते ॥६९॥

स किष्किंधाम् प्रविश्य त्वम् ब्रूहि वानर पुंगवम् । मूर्खम् ग्राम्य सुखे सक्तम् सुग्रीवम् वचनात् मम ॥७०॥

अर्थिनाम् उपपन्नानाम् पूर्वम् च अपि उपकारिणाम् । आशाम् संश्रुत्य यो हन्ति स लोके पुरुषाधमः ॥७१॥

शुभम् वा यदि वा पापम् यो हि वाक्यम् उदीरितम् । सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः ॥७२॥

कृतार्था हि अकृतार्थानाम् मित्राणाम् न भवन्ति ये । तान् मृतान् अपि क्रव्यादाः कृतघ्नान् न उपभुंजते ॥७३॥

नूनम् कांचन पृष्ठस्य विकृष्टस्य मया रणे । द्रष्टुम् इच्छसि चापस्य रूपम् विद्युत् गण उपमम् ॥७४॥

घोरम् ज्या तल निर्घोषम् क्रुद्धस्य मम संयुगे । निर्घोषम् इव वज्रस्य पुनः संश्रोतुम् इच्छसि ॥७५॥

कामम् एवम् गते अपि अस्य परिज्ञाते पराक्रमे । त्वत् सहायस्य मे वीर न चिन्ता स्यात् नृपात्मज ॥७६॥

यद् अर्थम् अयम् आरंभः कृतः पर पुरम् जय । समयम् न अभिजानाति कृतार्थः प्लवगेश्वरः ॥७७॥

वर्षा समय कालम् तु प्रतिज्ञाय हरीश्वरः । व्यतीतान् चतुरो मासान् विहरन् न अवबुध्यते ॥७८॥

स अमात्य परिषत् क्रीडन् पानम् एव उपसेवते । शोक दीनेषु न अस्मासु सुग्रीवः कुरुते दयाम् ॥७९॥

उच्यताम् गच्छ सुग्रीवः त्वया वीरः महाबल । मम रोषस्य यत् रूपम् ब्रूयाः च एनम् इदम् वचः ॥८०॥

न स संकुचितः पंथा येन वाली हतो गतः । समये तिष्ठ सुग्रीव मा वालि पथम् अन्वगाः ॥८१॥

एक एव रणे वाली शरेण निहतो मया । त्वाम् तु सत्यात् अतिक्रांतम् हनिष्यामि स बान्धवम् ॥८२॥

तत् एवम् विहिते कार्ये यत् हितम् पुरुषर्षभ । तत् तत् ब्रूहि नरश्रेष्ठ त्वर काल व्यतिक्रमः ॥८३॥

कुरुष्व सत्यम् मम वानरेश्वर प्रतिश्रुतम् धर्मम् अवेक्ष्य शाश्वतम् । मा वालिनम् प्रेत गतो यम क्षयम् त्वम् अद्य पश्येः मम चोदितः शरैः ॥८४॥

स पूर्वजम् तीव्र विवृद्ध कोपम् लालप्यमानम् प्रसमीक्ष्य दीनम् । चकार तीव्राम् मतिम् उग्र तेजा हरीश्वरे मानव वंश वर्थनः ॥८५॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे त्रिंश सर्गः ॥

Listen to the sarga
0:00