स कामिनम् दीनम् अदीन सत्त्वः शोक अभिपन्नम् समुदीर्ण कोपम् । नरेन्द्र सूनुर् नरदेव पुत्रम् रामानुजः पूर्वजम् इति उवाच ॥१॥
त्रिंश सर्गः 4.31
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
न वानरः स्थास्यति साधु वृत्ते न मन्यते कर्म फल अनुषंगान् । न भोक्ष्यते वानर राज्य लक्ष्मीम् तथा हि न अभिक्रमते अस्य बुद्धिः ॥२॥
मति क्षयात् ग्राम्य सुखेषु सक्तः तव प्रसाद अप्रतिकार बुद्धिः । हतो अग्रजम् पश्यतु वालिनम् न राज्यम् एवम् विगुणस्य देयम् ॥३॥
न धारये कोपम् उदीर्ण वेगम् निहन्मि सुग्रीवम् असत्यम् अद्य । हरि प्रवीरैः सह वालि पुत्रो नरेन्द्र पुत्र्या विचयम् करोतु ॥४॥
तम् आत्त बाण आसनम् उत्पतंतम् निवेदित अर्थम् रण चण्ड कोपम् । उवच रामः पर वीर हन्ता स्व वेक्षितम् स अनुनयम् च वाक्यम् ॥५॥
न हि वै त्वत् विधो लोके पापम् एवम् समाचरेत् । कोपम् आर्येण यो हन्ति स वीरः पुरुषोत्तमः ॥६॥
न इदम् अत्र त्वया ग्राह्यम् साधु वृत्तेन लक्ष्मण । ताम् प्रीतिम् अनुवर्तस्व पूर्व वृत्तम् च संगतम् ॥७॥
साम उपहितया वाचा रूक्षाणि परिवर्जयन् । वक्तुम् अर्हसि सुग्रीवम् व्यतीतम् काल पर्यये ॥८॥
सो अग्रजेन अनुशिष्ट अर्थो यथावत् पुरुषर्षभः । प्रविवेश पुरीम् वीरो लक्ष्मणः पर वीर हा ॥९॥
ततः शुभ मतिः प्राज्ञो भ्रातुः प्रियहितेरतः । लक्ष्मणः प्रतिसंरब्धो जगाम भवनम् कपेः ॥१०॥
शक्र बाणासन प्रख्यम् धनुः कालांतक उपमः । प्रगृह्य गिरि शृंगाभम् मन्दरः सानुमान् इव ॥११॥
यथा उक्त कारी वचनम् उत्तरम् चैव स उत्तरम् । बृहस्पति समो बुद्ध्या मत्त्वा रामानुजः तदा ॥१२॥
काम क्रोध समुत्थेन भ्रातुः कोपाग्निना वृतः । प्रभंजन इव अप्रीतः प्रययौ लक्ष्मणः तदा ॥१३॥
साल ताल अश्व कर्णाम् च तरसा पातयन् बलात् । पर्यस्यन् गिरि कूटानि द्रुमान् अन्याम् च वेगितः ॥१४॥
शिलाः च शकली कुर्वन् पद्भ्याम् गज इव आशु गः । दूरम् एक पदम् त्यक्त्वा ययौ कार्यवशात् द्रुतम् ॥१५॥
ताम् अपश्यत् बल आकीर्णाम् हरिराज महापुरीम् । दुर्गाम् इक्ष्वाकु शार्दूलः किष्किंधाम् गिरि संकटे ॥१६॥
रोषात् प्रस्फुरमाण ओष्ठः सुग्रीवम् प्रति लक्ष्मणः । ददर्श वानरान् भीमान् किष्किंधाया बहिः चरान् ॥१७॥
तम् दृष्ट्वा वानराः सर्वे लक्ष्मणम् पुरुषर्षभम् शैल शृंगाणि शतशः प्रवृद्धाम् च महीरुहान् । जगृहुः कुंजर प्रख्या वानराः पर्वत अंतरे ॥१८॥
तान् गृहीत प्रहरणान् सर्वान् दृष्ट्वा तु लक्ष्मणः । बभूव द्विगुणम् क्रुद्धो बहु इंधन इव अनलः ॥१९॥
तम् ते भयपरीत अंगाः ख्सुब्धम् दृष्ट्वा प्लवंगमाः । काल मृत्यु युगांताअभम् शतशो विद्रुता दिशः ॥२०॥
ततः सुग्रीव भवनम् प्रविश्य हरिपुंगवाः । क्रोधम् आगमनम् चैव लक्ष्मणस्य न्यवेदयन् ॥२१॥
तारया सहितः कामी सक्तः कपिवृषः तदा । न तेषाम् कपि वीराणाम् शुश्राव वचनम् तदा ॥२२॥
ततः सचिव संदिष्टा हरयो रोमहर्षणाः । गिरि कुंजर मेघ आभा नगर्या निर्ययुः तदा ॥२३॥
नख दंष्ट्र आयुधा सर्वे वीराः विकृत दर्शनाः । सर्वे शार्दूल दर्पाः च सर्वे च विकृत आननाः ॥२४॥
दश नाग बलाः केचित् केचित् दश गुणोत्तराः । केचित् नाग सहस्रस्य बभूवुः तुल्य वर्चसः ॥२५॥
ततः तैः कपिभिर् व्याप्ताम् द्रुम हस्तैर् महाबलैः । अपश्यत् लक्ष्मणः क्रुद्धः किष्किंधाम् ताम् दुरासदम् ॥२६॥
ततः ते हरयः सर्वे प्राकार परिख अंतरात् । निष्क्रम्य उदग्र सत्त्वाः तु तस्थुर् आविष्कृतम् तदा ॥२७॥
सुग्रीवस्य प्रमादम् च पूर्वजस्य अर्थम् आत्मवान् । दृष्ट्वा कोप वशम् वीरः पुनर् एव जगाम सः ॥२८॥
स दीर्घ उष्ण महा उच्छ्वासः कोप संरक्त लोचनः । बभूव नर शार्दूल स धूम इव पावकः ॥२९॥
बाण शल्य स्फुरत् जिह्वः सायक आसन भोगवान् । स्व तेजो विष संघातः पंच आस्य इव पन्नगः ॥३०॥
तम् दीप्तम् इव कालाग्निम् नागेन्द्रम् इव कोपितम् । समासाद्य अंगदः त्रासात् विषादम् अगमत् परम् ॥३१॥
सो अंगदम् रोष ताम्राक्षः संदिदेश महायशाः । सुग्रीवः कथ्यताम् वत्स मम आगमनम् इति उत ॥३२॥
एष रामानुजः प्राप्तः त्वत् सकाशम् अरिन्दमः । भ्रातुर् व्यसन संतप्तो द्वारि तिष्ठति लक्ष्मणः ॥३३॥
तस्य वाक्यम् यदि रुचिः क्रियताम् साधु वानरः । इति उक्त्वा शीघ्रम् आगच्छ वत्स वाक्यम् अरिन्दम ॥३४॥
लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टो अंगदो अब्रवीत् । पितुः समीपम् आगम्य सौमित्रिः अयम् आगतः ॥३५॥
अथ अंगदः तस्य सुतीव्र वाचा संभ्रांत भावः परिदीन वक्त्रः । निर्गत्य पूर्वम् नृपतेः तरस्वी ततो रुमायाः चरणौ ववन्दे ॥३६॥
संगृह्य पादौ पितुः उग्रतेजा जग्राह मातुः पुनर् एव पादौ । पादौ रुमायाः च निपीडयित्वा निवेदयामास ततः तत् अर्थम् ॥३७॥
स निद्रा मद संवीतो वानरो न विबुद्धवान् । बभूव मद मत्तः च मदनेन च मोहितः ॥३८॥
ततः किल किलाम् चक्रुः लक्ष्मणम् प्रेक्ष्य वानराः । प्रसादयन्तः तम् क्रुद्धम् भय मोहित चेतसः ॥३९॥
ते महा ओघ निभम् दृष्ट्वा वज्र अशनि सम स्वनम् । सिंह नादम् समम् चक्रुर् लक्ष्मणस्य समीपतः ॥४०॥
तेन शब्देन महता प्रत्यबुध्यत वानरः । मद विह्वल ताम्राक्षो व्याकुल स्रग्वि भूषणः ॥४१॥
अथ अंगद वचः श्रुत्वा तेन एव च समागतौ । मंत्रिणो वानरेन्द्रस्य सम्मत उदार दर्शिनौ ॥४२॥
प्लक्षः च एव प्रभावः च मंत्रिणौ अर्थ धर्मयोः । वक्तुम् उच्चावचम् प्राप्तम् लक्ष्मणम् तौ शशंसतुः ॥४३॥
प्रसादयित्वा सुग्रीवम् वचनैः स अर्थ निश्चितैः । आसीनम् पर्युपासीनौ यथा शक्रम् मरुत्पतिम् ॥४४॥
सत्य संधौ महाभागौ भ्रातरौ राम लक्ष्मणौ । वयस्य भावम् संप्राप्तौ राज्य अर्हौ राज्य दायिनौ ॥४५॥
तयोः एको धनुष्पाणिर् द्वारि तिष्ठति लक्ष्मणः । यस्य भीताः प्रवेपन्ते नादान् मुंचन्ति वानराः ॥४६॥
स एष राघव भ्राता लक्ष्मणो वाक्य सारथिः । व्यवसाय रथः प्राप्तः तस्य रामस्य शासनात् ॥४७॥
अयम् च तनयो राजन् ताराया दयितो अंगदः । लक्ष्मणेन सकाशम् ते प्रेषितः त्वरया अनघ ॥४८॥
सः अयम् रोष परीताक्षो द्वारि तिष्ठति वीर्यवान् । वानरान् वानरपते चक्षुसा निर्दहन इव ॥४९॥
तस्य मूर्ध्ना प्रणम्य त्वम् स पुत्र सह बान्धवः । गच्छ शीघ्रम् महाराज रोषो हि अद्य उपशम्यताम् ॥५०॥
यथा आह रामो धर्मात्मा तत् कुरुष्व समाहितः । राजन् तिष्ठ स्व समये भव सत्य प्रतिश्रवः ॥५१॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे एक त्रिंश सर्गः ॥