इति ब्रुवाणम् सुग्रीवम् रामो धर्मभृताम् वरः । बाहुभ्याम् संपरिष्वज्य प्रत्युवाच कृतांजलिम् ॥१॥
चत्वारिंशः सर्गः 4.39
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
यत् इन्द्रो वर्षते वर्षम् न तत् चित्रम् भविष्यति । आदित्यो असौ सहस्रांशुः कुर्यात् वितिमिरम् नभः ॥२॥
चन्द्रमा रजनीम् कुर्यात् प्रभया सौम्य निर्मलाम् । त्वत् विधो वा अपि मित्राणाम् प्रीतिम् कुर्यात् परंतप ॥३॥
एवम् त्वयि तत् न चित्रम् भवेत् यत् सौम्य शोभनम् । जानामि अहम् त्वाम् सुग्रीव सततम् प्रिय वादिनम् ॥४॥
त्वत् स नाथः सखे संख्ये जेता अस्मि सकलान् अरीन् । त्वम् एव मे सुहृत् मित्रम् साहाय्यम् कर्तुम् अर्हसि ॥५॥
जहार आत्म विनाशाय वैदेहीम् राक्षस अधमः । वंचयित्वा तु पौलोमीम् अनुह्लादो यथा शचीम् ॥६॥
न चिरात् तम् हनिष्यामि रावणम् निशितैः शरैः । पौलोम्याः पितरम् दृप्तम् शत क्रतुः इव अरिहा ॥७॥
एतस्मिन् अन्तरे च एव रजः समभिवर्तत । उष्णाम् तीव्राम् सहस्रांशोः छादयत् गगने प्रभाम् ॥८॥
दिशः पर्याकुलाः च आसन् तमसा तेन दूषिताः । चचाल च मही सर्वा स शैल वन कानना ॥९॥
ततो नगेन्द्र संकाशैः तीक्ष्ण दन्ष्ट्रैः महाबलैः । कृत्स्ना संछादिता भूमिः असंख्येयैः प्लवंगमैः ॥१०॥
निमेष अंतर मात्रेण ततः तैः हरि यूथपैः । कोटी शत परीवारैः कामरूपिभिः आवृता ॥११॥
नादेयैः पार्वतेयैः च सामुद्रैः च महाबलैः । हरिभिः मेघ निर्ह्रादैः अन्यैः च वन वासिभिः ॥१२॥
तरुण आदित्य वर्णैः च शशि गौरैः च वानरैः । पद्म केसर वर्णैः च श्वेतैः मेरु कृत आलयैः ॥१३॥
कोटी सहस्रैः दशभिः श्रीमान् परिवृतः तदा । वीरः शतबलिः नाम वानरः प्रत्यदृश्यत ॥१४॥
ततः कांचन शैल आभः ताराया वीर्यवान् पिता । अनेकैः बहु साहस्रैः कोटिभिः प्रत्यदृश्यत ॥१५॥
तथा अपरेण कोटीनाम् साहस्रेण समन्वितः । पिता रुमयाः संप्राप्तः सुग्रीव श्वशुरो विभुः ॥१६॥
पद्म केसर संकाशः तरुण अर्क निभ आननः । बुद्धिमान् वानर श्रेष्ठः सर्व वानर सत्तमः ॥१७॥
अनीकैः बहु साहस्रैः वानराणाम् समन्वितः । पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत ॥१८॥
गो लांगूल महाराजो गवाक्षो भीम विक्रमः । वृतः कोटि सहस्रेण वानराणाम् अदृश्यत ॥१९॥
ऋक्षाणाम् भीम वेगानाम् धूम्रः शत्रु निबर्हणः । वृतः कोटि सहस्राभ्याम् द्वाभ्याम् समभिवर्तत ॥२०॥
महा अचल निभैः घोरैः पनसो नाम यूथपः । आजगाम महावीर्यः तिसृभिः कोटिभिः वृतः ॥२१॥
नील अंजन चय आकारो नीलो नाम अथ यूथपः । अदृश्यत महाकायः कोटिभिः दशभिः वृतः ॥२२॥
ततः कांचन आभो गवयो नाम यूथपः । आजगाम महावीर्यः कोटिभिः पंचभिः वृतः ॥२३॥
दरीमुखः च बलवान् यूथपो अभ्याययौ तदा । वृतः कोटि सहस्रेण सुग्रीवम् समुपस्थितः ॥२४॥
मैन्दः च द्विविदः च उभौ अश्वि पुत्रौ महाबलौ । कोटि कोटि सहस्रेण वानराणाम् अदृश्यताम् ॥२५॥
गजः च बलवान् वीरः त्रिसृभिः कोटिभिः वृतः । आजगाम महातेजाः सुग्रीवस्य समीपतः ॥२६॥
ऋक्ष राजो महातेजा जांबवान् नाम नामतः । कोटिभिः दशभिः व्याप्तः सुग्रीवस्य वशे स्थितः ॥२७॥
रुमणो नाम तेजस्वी विक्रान्तैः वानरैः वृतः । आगतो बलवान् तूर्णम् कोटि शत समावृतः ॥२८॥
ततः कोटि सहस्राणाम् सहस्रेण शतेन च । पृष्ठतो अनुगतः प्राप्तो हरिभिः गंधमादनः ॥२९॥
ततः पद्म सहस्रेण वृतः शन्कु शतेन च । युव राजो अंगदः प्राप्तः पितृ तुल्य पराक्रमः ॥३०॥
ततः तारा द्युतिः तारो हरिः भीम पराक्रमः । पंचभिः हरि कोटीभिः दूरतः प्रत्यदृश्यत ॥३१॥
इन्द्रजानुः कपिः वीरो यूथपः प्रत्यदृश्यत । एकादशानाम् कोटीनाम् ईश्वरः तैः च सम्वृतः ॥३२॥
ततो रंभः तु अनुप्राप्तः तरुण आदित्य संनिभः । आयुतेन वृतः चैव सहस्रेण शतेन च ॥३३॥
ततो यूथ पतिः वीरो दुर्मुखो नाम वानरः । प्रत्यदृश्यत कोटिभ्याम् द्वाभ्याम् परिवृतो बली ॥३४॥
कैलास शिखर आकारैः वानरैः भीम विक्रमैः । वृतः कोटि सहस्रेण हनुमान् प्रत्यदृश्यत ॥३५॥
नलः च अपि महावीर्यः संवृतो द्रुम वासिभिः । कोटी शतेन संप्राप्तः सहस्रेण शतेन च ॥३६॥
ततो दधिमुखः श्रीमान् कोटिभिः दशभिः वृतः । संप्राप्तो अभिनदन् तस्य सुग्रीवस्य महात्मनः ॥३७॥
शरभः कुमुदो वह्निः वानरो रंहः एव च । एते च अन्ये च बहवो वानराः काम रूपिणः ॥३८॥
आवृत्य पृथिवीम् सर्वाम् पर्वतान् च वनानि च । यूथपाः समनुप्राप्ता एषाम् संख्या न विद्यते ॥३९॥
आगताः च निविष्टाः च पृथिव्याम् सर्व वानराः । आप्लवंतः प्लवंतः च गर्जंतः च प्लवंगमाः । अभ्यवर्तन्त सुग्रीवम् सूर्यम् अभ्र गणा इव ॥४०॥
कुर्वाणा बहु शब्दान् च प्रकृष्टा बलशालिनः । शिरोभिः वानरेन्द्राय सुग्रीवाय न्यवेदयन् ॥४१॥
अपरे वानर श्रेष्ठाः संगम्य च यथा उचितम् । सुग्रीवेण समागम्य स्थिताः प्रांजलयः तदा ॥४२॥
सुग्रीवः त्वरितो रामे सर्वान् तान् वानरर्षभान् । निवेदयित्वा धर्मज्ञः स्थितः प्रान्जलिः अब्रवीत् ॥४३॥
यथा सुखम् पर्वत निर्झरेषु वनेषु सर्वेषु च वानरेन्द्राः । निवेशयित्वा विधिवत् बलानि बलम् बलज्ञः प्रतिपत्तुम् ईष्टे ॥४४॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे एकोन चत्वारिंशः सर्गः ॥