रामायणम्

त्रिंशः सर्गः 4.38

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

प्रतिगृह्य च तत् सर्वम् उपानयम् उपाहृतम् । वानरान् सान्त्वयित्वा च सर्वान् एव व्यसर्जयत् ॥१॥

विसर्जयित्वा स हरीन् सहस्रान् तान् कृत कर्मणः । मेने कृतार्थम् आत्मानम् राघवम् च महाबलम् ॥२॥

स लक्ष्मणो भीम बलम् सर्व वानर सत्तमम् । अब्रवीत् प्रश्रितम् वाक्यम् सुग्रीवम् संप्रहर्षयन् ॥३॥

किष्किंधाया विनिष्क्राम यदि ते सौम्य रोचते । तस्य तत् वचनम् श्रुत्वा लक्ष्मणस्य सुभाषितम् ॥४॥

सुग्रीवः परम प्रीतो वाक्यम् एतत् उवाच ह । एवम् भवतु गच्छामः स्थेयम् त्वत् शासने मया ॥५॥

तम् एवम् उक्त्वा सुग्रीवो लक्ष्मणम् शुभ लक्षणम् । विसर्जयामास तदा तारा अद्याः च एव योषितः ॥६॥

एहि इति उच्छैः हरि वरान् सुग्रीवः समुदाहरत् । तस्य तद् वचनम् श्रुत्वा हरयः शीघ्रम् आययुः ॥७॥

बद्ध अंजलि पुटाः सर्वे ये स्युः स्त्री दर्शन क्षमाः । तान् उवाच ततः प्राप्तान् राजा अर्क सदृश प्रभः ॥८॥

उपस्थापयत क्षिप्रम् शिबिकाम् मम वानराः । श्रुत्वा तु वचनम् तस्य हरयः शीघ्र विक्रमाः ॥९॥

समुपस्थापयामासुः शिबिकाम् प्रिय दर्शनाम् । ताम् उपस्थापिताम् दृष्ट्वा शिबिकाम् वानराधिपः ॥१०॥

लक्ष्मण आरुह्यताम् शीघ्रम् इति सौमित्रिम् अब्रवीत् । इति उक्त्वा कांचनम् यानम् सुग्रीवः सूर्य सन्निभम् ॥११॥

बहुभिः हरिभिः युक्तम् आरुरोह स लक्ष्मणः । पाण्डुरेण आतपत्रेण ध्रियमाणेन मूर्धनि ॥१२॥

शुक्लैः च वाल व्यजनैः धूयमानैः समंततः । शंख भेरी निनादैः च वन्दिभिः च अभिवन्दितः ॥१३॥

निर्ययौ प्राप्य सुग्रीवो राज्य श्रियम् अनुत्तमाम् । स वानर शतैः तीष्क्णैः बहुभिः शस्त्र पाणिभिः ॥१४॥

परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः । स तम् देशम् अनुप्राप्य श्रेष्ठम् राम निषेवितम् ॥१५॥

अवातरत् महातेजाः शिबिकायाः स लक्ष्मणः । आसाद्य च ततो रामम् कृत अंजलि पुटो अभवत् ॥१६॥

कृत अंजलौ स्थिते तस्मिन् वानराः च अभवन् तथा । तटाकम् इव तम् दृष्ट्वा रामः कुड्मल पंकजम् ॥१७॥

वानराणाम् महत् सैन्यम् सुग्रीवे प्रीतिमान् अभूत् । पादयोः पतितम् मूर्ध्ना तम् उत्थाप्य हरीश्वरम् ॥१८॥

प्रेम्णा च बहुमानात् च राघवः परिषस्वजे । परिष्वज्य च धर्मात्मा निषीद इति ततो अब्रवीत् ॥१९॥

निषण्णम् तम् ततो दृष्ट्वा क्षितौ रामो अब्रवीत् ततः । धर्मम् अर्थम् च कामम् च काले यः तु निषेवते ॥२०॥

विभज्य सततम् वीर स राजा हरिसत्तम । हित्वा धर्मम् तथा अर्थम् च कामम् यः तु निषेवते ॥२१॥

स वृक्ष अग्रे यथा सुप्तः पतितः प्रतिबुध्यते । अमित्राणाम् वधे युक्तो मित्राणाम् संग्रहे रतः ॥२२॥

त्रिवर्ग फल भोक्ता च राजा धर्मेण युज्यते । उद्योग समयः तु एष प्राप्तः शत्रु निषूदन ॥२३॥

संचिंत्यताम् हि पिंगेश हरिभिः सह मंत्रिभिः । एवम् उक्तः तु सुग्रीवो रामम् वचनम् अब्रवीत् ॥२४॥

प्रनष्टा श्रीः च कीर्तिः च कपि राज्यम् च शाश्वतम् । त्वत् प्रसादात् महाबाहो पुनः प्राप्तम् इदम् मया ॥२५॥

तव देव प्रसदात् च भ्रातुः च जयताम् वर । कृतम् न प्रतिकुर्यात् यः पुरुषाणाम् स दूषकः ॥२६॥

एते वानर मुख्याः च शतशः शत्रु सूदन । प्राप्ताः च आदाय बलिनः पृथिव्याम् सर्व वानरान् ॥२७॥

ऋक्षाः च वानराः शूरा गोलांगूलाः च राघव । कांतार वन दुर्गाणाम् अभिज्ञा घोर दर्शनाः ॥२८॥

देव गन्धर्व पुत्राः च वानराः काम रूपिणः । स्वैः स्वैः परिवृताः सैन्यैः वर्तन्ते पथि राघव ॥२९॥

शतैः शत सहस्रैः च कोटिभिः च प्लवंगमाः । अयुतैः च आवृता वीरा शंकुभिः च परंतप ॥३०॥

अर्बुदैः अर्बुद शतैः मध्यैः च अन्तैः च वानराः । समुद्राः च परार्धाः च हरयो हरि यूथपाः ॥३१॥

आगमिष्यन्ति ते राजन् महेन्द्र सम विक्रमाः । मेघ पर्वत संकाशा मेरु विन्ध्य कृत आलयाः ॥३२॥

ते त्वाम् अभिगमिष्यन्ति राक्षसम् योद्धुम् आहवे । निहत्य रावणम् युद्धे हि आनयिष्यन्ति मैथिलीम् ॥३३॥

ततः समुद्योगम् अवेक्ष्य वीर्यवान् हरि प्रवीरस्य निदेश वर्तिनः । बभूव हर्षात् वसुधा अधिप आत्मजः प्रबुद्ध नील उत्पल तुल्य दर्शनः ॥३४॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे अष्टा त्रिंशः सर्गः ॥

Listen to the sarga
0:00