रामायणम्

त्रिंशः सर्गः 4.37

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

एवम् उक्तः तु सुग्रीवो लक्ष्मणेन महात्मना । हनूमन्तम् स्थितम् पार्श्वे वचनम् च इदम् अब्रवीत् ॥१॥

महेन्द्र हिमवत् विंध्य कैलास शिखरेषु च । मन्दरे पाण्डु शिखरे पंच शैलेषु ये स्थिताः ॥२॥

तरुण आदित्य वर्णेषु भ्राजमानेषु नित्यशः । पर्वतेषु समुद्र अंते पश्चिमस्याम् तु ये दिशि ॥३॥

आदित्य भवने चैव गिरौ संध्या अभ्र संनिभे । पद्म ताल वनम् भीमाः संश्रिता हरि पुंगवाः ॥४॥

अंजन अंबुद संकाशाः कुंजर प्रतिम ओजसः । अंजने पर्वते चैव ये वसन्ति प्लवंगमाः ॥५॥

महाशैल गुहा आवासा वानराः कनक प्रभाः । मेरु पार्श्व गताः चैव ये च धूम्र गिरिम् श्रिताः ॥६॥

तरुण आदित्य वर्णाः च पर्वते ये महाअरुणे । पिबंतो मधु मैरेयम् भीम वेगाः प्लवंगमाः ॥७॥

वनेषु च सुरम्येषु सुगन्धिषु महत्सु च । तापस आश्रम रम्येषु वन अन्तेषु समंततः ॥८॥

तान् तान् त्वम् आनय क्षिप्रम् पृथिव्याम् सर्व वानरान् । साम दान आदिभिः कल्पैः वानरैः वेगवत्तरैः ॥९॥

प्रेषिताः प्रथमम् ये च मया आज्ञाताः महाजवाः । त्वरण अर्थम् तु भूयः त्वम् संप्रेषय हरीश्वरान् ॥१०॥

ये प्रसक्ताः च कामेषु दीर्घ सूत्राः च वानराः । इह आनयस्व तान् शीघ्रम् सर्वान् एव कपीश्वरान् ॥११॥

अहोभिः दशभिः ये च न आगच्छन्ति मम आज्ञया । हन्तव्याः ते दुरात्मानो राज शासन दूषकाः ॥१२॥

शतानि अथ सहस्राणि कोट्यः च मम शासनात् । प्रयान्तु कपि सिंहानाम् निदिशे मम ये स्थिताः ॥१३॥

मेघ पर्वत संकाशाः छादयन्त इव अंबरम् । घोर रूपाः कपि श्रेष्ठा यान्तु मत् शासनात् इतः ॥१४॥

ते गतिज्ञा गतिम् गत्वा पृथिव्याम् सर्व वानराः । आनयंतु हरीन् सर्वान् त्वरिताः शासनान् मम ॥१५॥

तस्य वानर राजस्य श्रुत्वा वायु सुतो वचः । दिक्षु सर्वासु विक्रान्तान् प्रेषयामास वानरान् ॥१६॥

ते पदम् विष्णु विक्रान्तम् पतत्रि ज्योतिः अध्वगाः । प्रयाताः प्रहिता राज्ञा हरयः तु क्षणेन वै ॥१७॥

ते समुद्रेषु गिरिषु वनेषु च सरःसु च । वानरा वानरान् सर्वान् राम हेतोः अचोदयन् ॥१८॥

मृत्यु काल उपमस्य आज्ञाम् राज राजस्य वानराः । सुग्रीवस्य आययुः श्रुत्वा सुग्रीव भय शन्किताः ॥१९॥

ततः ते अंजन संकाशा गिरेः तस्मात् महाजवाः । तिस्रः कोट्यः प्लवंगानाम् निर्ययुर् यत्र राघवः ॥२०॥

अस्तम् गच्छति यत्र अर्कः तस्मिन् गिरिवरे रताः । संतप्त हेम वर्ण आभा तस्मात् कोट्यो दश च्युताः ॥२१॥

कैलास शिखरेभ्यः च सिंह केसर वर्चसाम् । ततः कोटि सहस्राणि वानराणाम् समागमन् ॥२२॥

फल मूलेन जीवन्तो हिमवन्तम् उपाश्रिताः । तेषाम् कोटि सहस्राणाम् सहस्रम् समवर्तत ॥२३॥

अंगारक समानानाम् भीमानाम् भीम कर्मणाम् । विंध्यात् वानर कोटीनाम् सहस्राणि अपतन् द्रुतम् ॥२४॥

क्षीर उद वेला निलयाः तमाल वन वासिनः । नारि केल अशनाः चैव तेषाम् संख्या न विद्यते ॥२५॥

वनेभ्यो गह्वरेभ्यः च सरित्भ्यः च महाबलाः । आगच्छत् वानरी सेना पिबन्ति इव दिवा करम् ॥२६॥

ये तु त्वरयितुम् याता वानराः सर्व वानरान् । ते वीरा हिमवत् शैले ददृशुः तम् महाद्रुमम् ॥२७॥

तस्मिन् गिरि वरे पुण्ये यज्ञो माहेश्वरः पुरा । सर्व देव मनः तोषो बभूव सु मनोरमः ॥२८॥

अन्न निस्यंद जातानि मूलानि च फलानि च । अमृत स्वादु कल्पानि ददृशुः तत्र वानराः ॥२९॥

तत् अन्न संभवम् दिव्यम् फलम् मूलम् मनोहरम् । यः कश्चित् सकृत् अश्नाति मासम् भवति तर्पितः ॥३०॥

तानि मूलानि दिव्यानि फलानि च फल अशनाः । औषधानि च दिव्यानि जगृहुर् हरि पुंगवाः ॥३१॥

तस्मात् च यज्ञ आयतनात् पुष्पाणि सुरभीणि च । आनिन्युर् वानरा गत्वा सुग्रीव प्रिय कारणात् ॥३२॥

ते तु सर्वे हरिवराः पृथिव्याम् सर्व वानरान् । संचोदयित्वा त्वरितम् यूथानाम् जग्मुर् अग्रतः ॥३३॥

ते तु तेन मुहूर्तेन कपयः शीघ्र चारिणः । किष्किंधाम् त्वरया प्राप्ताः सुग्रीवो यत्र वानरः ॥३४॥

ते गृहीत्वा ओषधीः सर्वाः फल मूलम् च वानराः । तम् प्रतिग्राहयामासुर् वचनम् च इदम् अब्रुवन् ॥३५॥

सर्वे परिसृताः शैलाः सरितः च वनानि च । पृथिव्याम् वानराः सर्वे शासनात् उपयान्ति ते ॥३६॥

एवम् श्रुत्वा ततो हृष्टः सुग्रीवः प्लवग अधिपः । प्रतिजग्राह च प्रीतः तेषाम् सर्वम् उपायनम् ॥३७॥

4.37.37 #84a2dc7f96aa timing uncertain

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे सप्त त्रिंशः सर्गः ॥

Listen to the sarga
0:00