इति उक्तः तारया वाक्यम् प्रश्रितम् धर्म संहितम् । मृदु स्वभावः सौमित्रिः प्रतिजग्राह तत् वचः ॥१॥
त्रिंशः सर्गः 4.36
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
तस्मिन् प्रतिगृहीते तु वाक्ये हरि गण ईश्वरः । लक्ष्मणात् सुमहत् त्रासम् वस्त्रम् क्लिन्नम् इव अत्यजत् ॥२॥
ततः कण्ठ गतम् माल्यम् चित्रम् बहु गुणम् महत् । चिच्छेद विमदः च आसीत् सुग्रीवो वानर ईश्वरः ॥३॥
स लक्ष्मणम् भीम बलम् सर्व वानर सत्तमः । अब्रवीत् प्रश्रितम् वाक्यम् सुग्रीवः संप्रहर्षयन् ॥४॥
प्रनष्टा श्रीः च कीर्तिः च कपि राज्यम् च शाश्वतम् । राम प्रसादात् सौमित्रे पुनः च आप्तम् इदम् मया ॥५॥
कः शक्तः तस्य देवस्य ख्यातस्य स्वेन कर्मणा । तादृशम् प्रतिकुर्वीत अंशेन अपि नृपात्मज ॥६॥
सीताम् प्राप्स्यति धर्मात्मा वधिष्यति च रावणम् । सहाय मात्रेण मया राघवः स्वेन तेजसा ॥७॥
सहाय कृत्यम् किम् तस्य येन सप्त महाद्रुमाः । शैलः च वसुधा चैव बाणेन एकेन दारिताः ॥८॥
धनुर् विस्फारमाणस्य यस्य शब्देन लक्ष्मण । स शैला कम्पिता भूमिः सहायैः किम् नु तस्य वै ॥९॥
अनुयात्राम् नर इन्द्रस्य करिष्ये अहम् नरषभ । गच्छतो रावणम् हन्तुम् वैरिणम् स पुरःसरम् ॥१०॥
यदि किंचित् अतिक्रान्तम् विश्वासात् प्रणयेन वा । प्रेष्यस्य क्षमितव्यम् मे न कश्चिन् न अपराध्यति ॥११॥
इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः । अभवत् लक्ष्मणः प्रीतः प्रेम्णा च इदम् उवाच ह ॥१२॥
सर्वथा हि मम भ्राता स नाथो वानरेश्वर । त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः ॥१३॥
यः ते प्रभावः सुग्रीव यत् च ते शौचम् ईदृशम् । अर्हः तम् कपि राज्यस्य श्रियम् भोक्तुम् अनुत्तमाम् ॥१४॥
सहायेन च सुग्रीव त्वया रामः प्रतापवान् । वधिष्यति रणे शत्रून् अचिरात् न अत्र संशयः ॥१५॥
धर्मज्ञस्य कृतज्ञस्य संग्रामेषु अनिवर्तिनः । उपपन्नम् च युक्तम् च सुग्रीव तव भाषितम् ॥१६॥
दोषज्ञः सति सामर्थ्ये को अन्यो भाषितुम् अर्हति । वर्जयित्वा मम ज्येष्ठम् त्वाम् च वानर सत्तम ॥१७॥
सदृशः च असि रामस्य विक्रमेण बलेन च । सहायो दैवतैः दत्तः चिराय हरि पुंगव ॥१८॥
किम् तु शीघ्रम् इतो वीर निष्क्राम त्वम् मया सह । सान्त्वयस्व वयस्यम् च भार्या हरण दुःखितम् ॥१९॥
यत् च शोक अभिभूतस्य श्रुत्वा रामस्य भाषितम् । मया त्वम् परुषाणि उक्तः तत् क्षमस्व सखे मम ॥२०॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे षट् त्रिंशः सर्गः ॥