रामायणम्

त्रिंशः सर्गः 4.35

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

तथा ब्रुवाणम् सौमित्रिम् प्रदीप्तम् इव तेजसा । अब्रवीत् लक्ष्मणम् तारा तारा अधिप निभ आनना ॥१॥

न एवम् लक्ष्मण वक्तव्यो न अयम् परुषम् अर्हति । हरीणाम् ईश्वरः श्रोतुम् तव वक्त्रात् विशेषतः ॥२॥

न एव अकृतज्ञः सुग्रीवो न शठो न अपि दारुणः । न एव अनृत कथो वीर न जिह्मः च कपीश्वरः ॥३॥

उपकारम् कृतम् वीरो न अपि अयम् विस्मृतः कपिः । रामेण वीर सुग्रीवो यत् अन्यैः दुष्करम् रणे ॥४॥

राम प्रसादात् कीर्तिम् च कपि राज्यम् च शाश्वतम् । प्राप्तवान् इह सुग्रीवो रुमाम् माम् च परंतप ॥५॥

सुदुःख शयितः पूर्वम् प्राप्य इदम् सुखम् उत्तमम् । प्राप्त कालम् न जानीते विश्वामित्रो यथा मुनिः ॥६॥

घृताच्याम् किल संसक्तो दश वर्षाणि लक्ष्मण । अहो अमन्यत धर्मात्मा विश्वामित्रो महामुनिः ॥७॥

स हि प्राप्तम् न जानीते कालम् कालविदाम् वरः । विश्वामित्रो महातेजाः किम् पुनर् यः पृथग् जनः ॥८॥

देह धर्म गतस्य अस्य परिश्रान्तस्य लक्ष्मण । अवितृप्तस्य कामेषु रामः क्षन्तुम् इह अर्हति ॥९॥

न च रोष वशम् तात गंतुम् अर्हसि लक्ष्मण । निश्चयार्थम् अविज्ञाय सहसा प्राकृतो यथा ॥१०॥

सत्त्व युक्ता हि पुरुषाः त्वत् विधाः पुरुषर्षभ । अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् ॥११॥

प्रसादये त्वाम् धर्मज्ञ सुग्रीवार्थे समाहिता । महान् रोष समुत्पन्नः संरंभः त्यज्यताम् अयम् ॥१२॥

रुमाम् माम् च अंगदम् राज्यम् धन धान्य पशूनि च । राम प्रियार्थम् सुग्रीवः त्यजेत् इति मतिर् मम ॥१३॥

समानेष्यति सुग्रीवः सीतया सह राघवम् । शशांकम् इव रोहिण्या हत्वा तम् राक्षस अधमम् ॥१४॥

शत कोटि सहस्राणि लंकायाम् किल रक्षसाम् । अयुतानि च षट् त्रिंशत् सहस्राणि शतानि च ॥१५॥

अहत्वा ताम् च दुर्धर्षान् राक्षसान् काम रूपिणः । न शक्यो रावणो हंतुम् येन सा मैथिली हृता ॥१६॥

ते न शक्या रणे हंतुम् असहायेन लक्ष्मण । रावणः क्रूर कर्मा च सुग्रीवेण विशेषतः ॥१७॥

एवम् आख्यातवान् वाली स हि अभिज्ञो हरीश्वरः । आगमः तु न मे व्यक्तः श्रवात् तस्य ब्रवीमि अहम् ॥१८॥

त्वत् सहाय निमित्तम् हि प्रेषिता हरिपुंगवाः । आनेतुम् वानरान् युद्धे सुबहून् हरिपुंगवान् ॥१९॥

ताम् च प्रतीक्षमाणो अयम् विक्रांतान् सुमहा बलान् । राघवस्य अर्थ सिद्धि अर्थम् न निर्याति हरि ईश्वरः ॥२०॥

कृता सुसंस्था सौमित्रे सुग्रीवेण यथा पुरा । अद्य तैः वानरैः सर्वैः आगंतव्यम् महाबलैः ॥२१॥

ऋक्ष कोटि सहस्राणि गोलांगूल शतानि च । अद्य त्वाम् उपयास्यन्ति जहि कोपम् अरिन्दम कोट्यो अनेकाः तु काकुत्स्थ कपीनाम् दीप्त तेजसाम् ॥२२॥

तव हि मुखम् इदम् निरीक्ष्य कोपात् क्षतज समे नयने निरीक्षमाणाः । हरि वर वनिता न यान्ति शान्तिम् प्रथम भयस्य हि शन्किताः स्म सर्वाः ॥२३॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे पंच त्रिंशः सर्गः ॥

Listen to the sarga
0:00