तम् अप्रतिहतम् क्रुद्धम् प्रविष्टम् पुरुषर्षभम् । सुग्रीवो लक्ष्मणम् दृष्ट्वा बभूव व्यथित इन्द्रियः ॥१॥
त्रिंशः सर्गः 4.34
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
क्रुद्धम् निःश्वसमानम् तम् प्रदीप्तम् इव तेजसा । भ्रातुर् व्यसन संतप्तम् दृष्ट्वा दशरथ आत्मजम् ॥२॥
उत्पपात हरिश्रेष्ठो हित्वा सौवर्णम् आसनम् । महान् महेन्द्रस्य यथा स्वलंकृत इव ध्वजः ॥३॥
उत्पतंतम् अनूत्पेतू रुमा प्रभृतयः स्त्रियः । सुग्रीवम् गगने पूर्णम् चंद्रम् तारा गणा इव ॥४॥
संरक्त नयनः श्रीमान् संचचार कृतांजलिः । बभूव अवस्थितः तत्र कल्प वृक्षो महान् इव ॥५॥
रुमा द्वितीयम् सुग्रीवम् नारी मध्य गतम् स्थितम् । अब्रवीत् लक्ष्मणः क्रुद्धः स तारम् शशिनम् यथा ॥६॥
सत्त्व अभिजन संपन्नः स अनुक्रोशो जितेन्द्रियः । कृतज्ञः सत्य वादी च राजा लोके महीयते ॥७॥
यस्तु राजा स्थितो अधर्मे मित्राणाम् उपकारिणाम् । मिथ्या प्रतिज्ञाम् कुरुते को नृशंस तरः ततः ॥८॥
शतम् अश्व अनृते हन्ति सहस्रम् तु गव अनृते । आत्मानम् स्व जनम् हन्ति पुरुषः पुरुष अनृते ॥९॥
पूर्वम् कृतार्थो मित्राणाम् न तत् प्रति करोति यः । कृतघ्नः सर्व भूतानाम् स वध्यः प्लवगेश्वर ॥१०॥
गीतो अयम् ब्रह्मणा श्लोकः सर्व लोक नमस्कृतः । दृष्ट्वा कृतघ्नम् क्रुद्धेन तम् निबोध प्लवम्गम ॥११॥
गो घ्ने च एव सुरापे च चौरे भग्न व्रते तथा । निष्कृतिर् विहिता सद्भिः कृतघ्ने न अस्ति निष्कृतिः ॥१२॥
अनार्य त्वम् कृतघ्नः च मिथ्या वादी च वानर । पूर्वम् कृतार्थो रामस्य न तत् प्रतिकरोषि यत् ॥१३॥
ननु नाम कृतार्थेन त्वया रामस्य वानर । सीताया मार्गणे यत्नः कर्तव्यः कृतम् इच्छता ॥१४॥
स त्वम् ग्राम्येषु भोगेषु सक्तो मिथ्या प्रतिश्रवः । न त्वाम् रामो विजानीते सर्पम् मण्डूक राविणम् ॥१५॥
महाभागेन रामेण पापः करुण वेदिना । हरीणाम् प्रापितो राज्यम् त्वम् दुरात्मा महात्मना ॥१६॥
कृतम् चेत् न अभिजानीषे राघवस्य महात्मनः । सद्यः त्वम् निशितैर् बाणैर् हतो द्रक्ष्यसि वालिनम् ॥१७॥
न च संकुचितः पन्था येन वाली हतो गतः । समये तिष्ठ सुग्रीव मा वालि पथम् अन्वगाः ॥१८॥
न नूनम् इक्ष्वाकु वरस्य कार्मुकात् शरान् च तान् पश्यसि वज्र संनिभान् । ततः सुखम् नाम विषेवसे सुखी न राम कार्यम् मनसा अपि अवेक्षसे ॥१९॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे चतुर् त्रिंशः सर्गः ॥