अथ प्रतिसंआदिष्टो लक्ष्मणः परवीरहा । प्रविवेश गुहाम् रम्याम् किष्किंधाम् राम शासनात् ॥१॥
त्रिंशः सर्गः 4.33
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
द्वारस्था हरयः तत्र महाकाया महाबलाः । बभूवुः लक्ष्मणम् दृष्ट्वा सर्वे प्रांजलयः स्थिताः ॥२॥
निःश्वसन्तम् तु तम् दृष्ट्वा क्रुद्धम् दशरथ आत्मजम् । बभूवुः हरयः त्रस्ता न च एनम् पर्यवारयन् ॥३॥
स तम् रत्नमयीम् दिव्याम् श्रीमान् पुष्पित काननाम् । रम्याम् रत्न समाकीर्णाम् ददर्श महतीम् गुहाम् ॥४॥
हर्म्य प्रासाद संबाधाम् नाना रत्नोपशोभिताम् । सर्व काम फलैः वृक्षैः पुष्पितैः उपशोभिताम् ॥५॥
देव गंधर्व पुत्रैः च वानरैः काम रूपिभिः । दिव्य माल्य अम्बर धारैः शोभिताम् प्रिय दर्शनैः ॥६॥
चन्दन अगरु पद्मानाम् गन्धैः सुरभि गन्धिताम् । मैरेयाणाम् मधूनाम् च सम्मोदित महा पथाम् ॥७॥
विंध्य मेरु गिरि प्रख्यैः प्रासादैः न एक भूमिभिः । ददर्श गिरि नद्यः च विमलाः तत्र राघवः ॥८॥
अंगदस्य गृहम् रम्यम् मैन्दस्य द्विविदस्य च । गवयस्य गवाक्षस्य गजस्य शरभस्य च ॥९॥
विद्युन्मालेः च संपातेः सूर्याक्षस्य हनूमतः । वीरबाहोः सुबाहोः च नलस्य च महात्मनः ॥१०॥
कुमुदस्य सुषेणस्य तार जाम्बवतोः तथा । दधिवक्त्रस्य नीलस्य सुपाटल सुनेत्रयोः ॥११॥
एतेषाम् कपि मुख्यानाम् राज मार्गे महात्मनाम् । ददर्श गृह मुख्यानि महासाराणि लक्ष्मणः ॥१२॥
पाण्डुर अभ्र प्रकाशानि गन्ध माल्य युतानि च । प्रभूत धन धान्यानि स्त्री रत्नैः शोभितानि च ॥१३॥
पाण्डुरेण तु शैलेन परिक्षिप्तम् दुरासदम् । वानरेन्द्र गृहम् रम्यम् महेन्द्र सदन उपमम् ॥१४॥
शुल्कैः प्रासाद शिखरैः कैलास शिखर उपमैः । सर्व काम फलैः वृक्षैः पुष्पितैः उपशोभितम् ॥१५॥
महेन्द्र दत्तैः श्रीमद्भिः नील जीमूत संनिभैः । दिव्य पुष्प फलैः वृक्षैः शीत च्छायैः मनोरमैः ॥१६॥
हरिभिः संवृत द्वारम् बलिभिः शस्त्र पाणिभिः । दिव्य माल्य आवृतम् शुभ्रम् तप्त कांचन तोरणम् ॥१७॥
सुग्रीवस्य गृहम् रम्यम् प्रविवेश महाबलः । अवार्यमाणः सौमित्रिः महाअभ्रम् इव भास्करः ॥१८॥
स सप्त कक्ष्या धर्मात्मा यान आसन समावृताः । प्रविश्य सुमहत् गुप्तम् ददर्श अंतःपुरम् महत् ॥१९॥
हैम राजत पर्यन्कैः बहुभिः च वर आसनैः । महा अर्ह आस्तरण उपेतैः तत्र तत्र समावृतम् ॥२०॥
प्रविशन् एव सततम् शुश्राव मधुर स्वनम् । तंत्री गीत समाकीर्णम् सम ताल पदाक्षरम् ॥२१॥
बह्वीः च विविध आकारा रूप यौवन गर्विताः । स्त्रियः सुग्रीव भवने ददर्श स महाबलः ॥२२॥
दृष्ट्वा अभिजन संपन्नाः तत्र माल्य कृत स्रजः । वर माल्य कृत व्यग्रा भूषण उत्तम भूषिताः ॥२३॥
न अतृप्तान् न अति च व्यग्रान् न अनुदात्त परिच्छदान् । सुग्रीव अनुचरान् च अपि लक्षयामास लक्ष्मणः ॥२४॥
कूजितम् नूपुराणाम् च कंचनीम् निःस्वनम् तथा । स निशम्य ततः श्रीमान् सौमित्रिः लज्जितो अभवत् ॥२५॥
रोष वेग प्रकुपितः श्रुत्वा च आभरण स्वनम् । चकार ज्या स्वनम् वीरो दिशः शब्देन पूरयन् ॥२६॥
चारित्रेण महाबाहुः अपकृष्टः स लक्ष्मनः । तस्थौ एकांतम् आश्रित्य राम शोक समन्वितः ॥२७॥
तेन चाप स्वनेन अथ सुग्रीवः प्लवगाधिपः । विज्ञाय आगमनम् त्रस्तः स चचाल वर आसनात् ॥२८॥
अंगदेन यथा मह्यम् पुरस्तात् प्रतिवेदितम् । सुव्यक्तम् एष संप्रप्तः सौमित्रिः भ्रातृ वत्सलः ॥२९॥
अंगदेन समाख्यतो ज्या स्वनेन च वानरः । बुबुधे लक्ष्मणम् प्राप्तम् मुखम् च अस्य व्यशुष्यत ॥३०॥
ततः ताराम् हरि श्रेष्ठः सुग्रीवः प्रिय दर्शनाम् । उवाच हितम् अव्यग्र त्रास संभ्रांत मानसः ॥३१॥
किम् नु रुट् कारणम् सुभ्रु प्रकृत्या मृदु मानसः । स रोष इव संप्राप्तो येन अयम् राघवानुजः ॥३२॥
किम् पश्यसि कुमारस्य रोष स्थानम् अनिन्दिते । न खलु अकारणे कोपम् आहरेत् नरपुंगवः ॥३३॥
यदि अस्य कृतम् अस्माभिः बुध्यसे किंचित् अप्रियम् । तत् बुध्या संप्रधार्य आशु क्षिप्रम् एव अभिधीयताम् ॥३४॥
अथवा स्वयम् एव एनम् द्रष्टुम् अर्हसि भामिनी । वचनैः स्वांत्व युक्तैः च प्रसादयितुम् अर्हसि ॥३५॥
त्वत् दर्शने विशुद्ध आत्मा न स कोपम् करिष्यति । न हि स्त्रीषु महात्मानः क्वचित् कुर्वन्ति दारुणम् ॥३६॥
त्वया स्वांत्वैः उपक्रांतम् प्रसन्न इन्द्रिय मानसम् । ततः कमलपत्राक्षम् द्रक्ष्याअमि अहम् अरिंदमम् ॥३७॥
सा प्रस्खलंती मद विह्वल अक्षी प्रलंब कांची गुण हेम सूत्रा । सलक्षणा लक्ष्मण संनिधानम् जगाम तारा नमित अंग यष्टिः ॥३८॥
स ताम् समीक्ष्य एव हरि ईश पत्नीम् तस्थौ उदासीनतया महात्मा । अवाङ्मुखो आभूत् मनुजेन्द्र पुत्रः स्त्री सन्निकर्षात् विनिवृत्त कोपम् ॥३९॥
सा पान योगात् च निवृत्त लज्जा दृष्टि प्रसादात् च नरेन्द्र सूनोः । उवाच तारा प्रणय प्रगल्भम् वाक्यम् महार्थम् परिसांत्व रूपम् ॥४०॥
किम् कोप मूलम् मनुजेन्द्र पुत्र कः ते न सन्तिष्ठति वाक् निदेशे । कः शुष्क वृक्षम् वनम् आपतन्तम् दवाग्निम् आसीदति निर्विशंकः ॥४१॥
स तस्य वचनम् श्रुत्वा सांत्व पूर्वम् अशंकितः । भूयः प्रणय दृष्टार्थम् लक्ष्मणो वाक्यम् अब्रवीत् ॥४२॥
किम् अयम् काम वृत्तः ते लुप्त धर्मार्थ संग्रहः । भर्ता भर्तृ हिते युक्ते न च एवम् अवबुध्यसे ॥४३॥
न चिंतयति राज्यार्थम् सः अस्मान् शोक परायणान् । स अमात्य परिषत् तारे कामम् एव उपसेवते ॥४४॥
स मासान् चतुर कृत्वा प्रमाणम् प्लवगेश्वरः । व्यतीतान् तान् मद उदग्रो विहरन् न अवबुध्यते ॥४५॥
न हि धर्मार्थ सिद्ध्यर्थम् पानम् एवम् प्रशस्यते । पानात् अर्थस्य कामः च धर्मः च परिहीयते ॥४६॥
धर्म लोपो महान् तावत् कृते हि अप्रति कुर्वतः । अर्थ लोपः च मित्रस्य नाशे गुणवतो महान् ॥४७॥
मित्रम् हि अर्थ गुण श्रेष्ठम् सत्य धर्म परायणम् । तत् द्वयम् तु परित्यक्तम् न तु धर्मे व्यवस्थितम् ॥४८॥
तत् एवम् प्रस्तुते कार्ये कार्यम् अस्माभिः उत्तरम् । यत् कार्यम् कार्य तत्त्वज्ञे त्वम् उदाहर्तुम् अर्हसि ॥४९॥
सा तस्य धर्मार्थ समाधि युक्तम् निशम्य वाक्यम् मधुर स्वभावम् । तारा गतार्थे मनुजेन्द्र कार्ये विश्वास युक्तम् तम् उवाच भूयः ॥५०॥
न कोप कालः क्षितिपाल पुत्र न च अपि कोपः स्व जने विधेयः । त्वत् अर्थ कामस्य जनस्य तस्य प्रमादम् अपि अर्हसि वीर सोढुम् ॥५१॥
कोपम् कथम् नाम गुण प्रकृष्टः कुमार कुर्यात् अपकृष्ट सत्त्वे । कः त्वत् विधः कोप वशम् हि गच्छे सत्त्व अवरुद्धः तपसः प्रसूतिः ॥५२॥
जानामि कोपम् हरि वीर बन्धोः जानामि कार्यस्य च काल संगम् । जानामि कार्यम् त्वयि यत् कृतम् नः तत् च अपि जानामि यत् अत्र कार्यम् ॥५३॥
तत् च अपि जानामि यथा अविषह्यम् बलम् नरश्रेष्ठ शरीरजस्य । जानामि यस्मिन् च जने अवबद्धम् कामेन सुग्रीवम् अस्तकम् अद्य ॥५४॥
न काम तंत्रे तव बुद्धिः अस्ति त्वम् वै यथा मन्यु वशम् प्रपन्नः । न देश कालौ हि न च अर्थ धर्मौ अवेक्षते काम रतिः मनुष्यः ॥५५॥
तम् काम वृत्तम् मम सन्निकृष्टम् काम अभियोगात् च विमुक्त लज्जम् । क्षमस्व तावत् पर वीर हन्तः तव भ्रातर्म वानर वंश नाथम् ॥५६॥
महर्षयो धर्म तपोभिरामाः कामा अनुकामाः प्रति बद्ध मोहाः । अयम् प्रकृत्या चपलः कपिः तु कथम् न सज्जेत सुखेषु राजा ॥५७॥
इति एवम् उक्त्वा वचनम् महार्थम् सा वानरी लक्ष्मणम् अप्रमेयम् । पुनः स खेदम् मद विह्वलाक्षी भर्तुर् हितम् वाक्यम् इदम् बभाषे ॥५८॥
उद्योगः तु चिर आज्ञप्तः सुग्रीवेण नरोत्तम । कांस्य अपि विधेयेन तव अर्थ प्रति साधने ॥५९॥
आगता हि महा वीर्या हरयः काम रूपिणः । कोटि शत सहस्राणि नाना नग निवासिनः ॥६०॥
तत् आगच्छ महाबाहो चारित्रम् रक्षितम् त्वया । अच्छलम् मित्र भावेन सताम् दरा अवलोकनम् ॥६१॥
ताराया च अभ्यनुज्ञात त्वरया चा अपि चोदितः । प्रविवेश महाबाहुः अभ्यंतरम् अरिन्दमः ॥६२॥
ततः सुग्रीवम् आसीनम् कांचने परम आसने । महाअर्ह आस्तरणोपेते ददर्श आदित्य संनिभम् ॥६३॥
दिव्य आभरण चित्रांगम् दिव्य रूपम् यशस्विनम् । दिव्य माल्यांबर धरम् महेन्द्रम् इव दुर्जयम् ॥६४॥
दिव्य आभरण माल्याभिः प्रमदाभिः समावृतम् । संरब्धतर रक्ताक्षो बभूव अंतक संनिभः ॥६५॥
रुमाम् तु वीरः परिरभ्य गाढम् वर आसनस्थो वर हेम वर्णः । ददर्श सौमित्रिम् अदीन सत्त्वम् विशाल नेत्रः स विशाल नेत्रम् ॥६६॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे त्रयः त्रिंशः सर्गः ॥