रामायणम्

चत्वारिंशः सर्गः 4.41

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

ततः प्रस्थाप्य सुग्रीवः तन् महत् वानरम् बलम् । दक्षिणाम् प्रेषयामास वानरान् अभिलक्षितान् ॥१॥

नीलम् अग्नि सुतम् चैव हनूमन्तम् च वानरम् । पितामह सुतम् चैव जांबवंतम् महोजसम् ॥२॥

सुहोत्रम् च शरारिम् च शरगुल्मम् तथा एव च । गजम् गवाक्षम् गवयम् सुषेणम् वृषभम् तथा ॥३॥

मैन्दम् च द्विविदम् चैव सुषेणम् गन्धमादनम् । उल्कामुखम् अनंगम् च हुतशन सुतौ उभौ ॥४॥

अंगद प्रमुखान् वीरान् वीरः कपि गण ईश्वरः । वेग विक्रम संपन्नान् संदिदेश विशेषवित् ॥५॥

तेषाम् अग्रेसरम् चैव बृहद् बलम् अथ अंगदम् । विधाय हरि वीराणाम् आदिशद् दक्षिणाम् दिशम् ॥६॥

ये केचन समुद्देशाः तस्याम् दिशि सुदुर्गमाः । कपीइशः कपि मुख्यानाम् स तेषाम् समुदाहरत् ॥७॥

सहस्र शिरसम् विंध्यम् नाना द्रुम लता आयुतम् । नर्मदाम् च नदीम् रम्याम् महोरग निषेविताम् ॥८॥

ततो गोदावरीम् रम्याम् कृष्णावेणीम् महानदीम् । वरदाम् च महाभागाम् महोरग निषेविताम् । मेखलान् उत्कलाम् चैव दशार्ण नगराणि अपि ॥९॥

अब्रवंतीम् अवंतीम् च सर्वम् एव अनुपश्यत । विदर्भान् ऋष्टिकान् चैव रम्यान् माहिषकान् अपि ॥१०॥

तथा वन्गान् कलिन्गाम् च कौशिकान् च समंततः । अन्वीक्ष्य दण्डक अरण्यम् स पर्वत नदी गुहम् ॥११॥

नदीम् गोदावरीम् चैव सर्वम् एव अनुपश्यत । तथैव आन्ध्रान् च पुण्ड्रान् च चोलान् पाण्ड्यान् केरलान् ॥१२॥

अयोमुखः च गंतव्यः पर्वतो धातु मण्डितः । विचित्र शिखरः श्रीमान् चित्र पुष्पित काननः ॥१३॥

सुचंदन वनोद्देशो मार्गितव्यो महागिरिः । ततः ताम् आपगाम् दिव्याम् प्रसन्न सलिलाशयान् ॥१४॥

तत्र द्रक्ष्यथ कावेरीम् विहृताम् अप्सरो गणैः । तस्य आसीनम् नगस्य अग्रे मलयस्य महोजसम् ॥१५॥

द्रक्ष्यथ आदित्य संकाशम् अगस्त्यम् ऋषि सत्तमम् । ततः तेन अभ्यनुज्ञाताः प्रसन्नेन महात्मना ॥१६॥

ताम्रपर्णीम् ग्राह जुष्टाम् तरिष्यथ महानदीम् । सा चन्दन वनैः चित्रैः प्रच्छन्ना द्वीप वारिणी ॥१७॥

कान्ता इव युवती कान्तम् समुद्रम् अवगाहते । ततो हेममयम् दिव्यम् मुक्ता मणि विभूषितम् ॥१८॥

युक्तम् कवाटम् पाण्ड्यानाम् गता द्रक्ष्यथ वानराः । ततः समुद्रम् आसाद्य संप्रधार्य अर्थ निश्चयम् ॥१९॥

अगस्त्येन अन्तरे तत्र सागरे विनिवेशितः । चित्र सानु नगः श्रीमान् महेन्द्रः पर्वतोत्तमः ॥२०॥

जात रूपमयः श्रीमान् अवगाढो महार्णवम् । नाना विधैः नगैः फुल्लैः लताभिः च उपशोभितम् ॥२१॥

देव ऋषि यक्ष प्रवरैः अप्सरोभिः च सेवितम् । सिद्ध चारण संघैः च प्रकीर्णम् सुमनोहरम् ॥२२॥

तम् उपैति सहस्राक्षः सदा पर्वसु पर्वसु । द्वीपः तस्य अपरे पारे शत योजन विसृतः ॥२३॥

अगम्यो मानुषैः दीप्तः तम् मार्गध्वम् समंततः । तत्र सर्व आत्मना सीता मार्गितव्या विशेषतः ॥२४॥

स हि देशः तु वध्यस्य रावणस्य दुरात्मनः । राक्षस अधिपतेः वासः सहस्राक्ष समद्युतेः ॥२५॥

दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी । अंगारक इति विख्याता चायाम् आक्षिप्य भोजिनी ॥२६॥

एवम् निःसंशयान् कृत्वा संशयान् नष्ट संशयाः । मृगयध्वम् नरेन्द्रस्य पत्नीम् अमित ओजसः ॥२७॥

तम् अतिक्रम्य लक्ष्मीवान् समुद्रे शत योजने । गिरिः पुष्पितको नाम सिद्ध चारण सेवितः ॥२८॥

चन्द्र सूर्य अंशु संकाशः सागर अंबु समाश्रयः । भ्राजते विपुलैः शृन्गैः अम्बरम् विलिखन् इव ॥२९॥

तस्य एकम् कांचनम् शृंगम् सेवते यम् दिवाकरः । श्वेतम् राजतम् एकम् च सेवते यम् निशाकरः । न तम् कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ॥३०॥

प्रणम्य शिरसा शैलम् तम् विमार्गथ वानराः । तम् अतिक्रम्य दुर्धर्षम् सूर्यवान् नाम पर्वतः ॥३१॥

अध्वना दुर्विगाहेन योजनानि चतुर्दश । ततः तम् अपि अतिक्रम्य वैद्युतो नाम पर्वतः ॥३२॥

सर्व काम फलैः वृक्षैः सर्व काल मनोहरैः । तत्र भुक्त्वा वर अर्हाणि मूलानि च फलानि च ॥३३॥

मधूनि पीत्वा जुष्टानि परम् गच्छत वानराः । तत्र नेत्र मनः कांतः कुंजरो नाम पर्वतः ॥३४॥

अगस्त्य भवनम् यत्र निर्मितम् विश्वकर्मणा । तत्र योजन विस्तारम् उच्छ्रितम् दश योजनम् ॥३५॥

शरणम् कांचनम् दिव्यम् नाना रत्न विभूषितम् । तत्र भोगवती नाम सर्पाणाम् आलयः पुरी ॥३६॥

विशाल रथ्या दुर्धर्षा सर्वतः परिरक्षिता । रक्षिता पन्नगैः घोरैः तीष्क्ण दम्ष्ट्रैः महा विषैः ॥३७॥

सर्प राजो महाघोरो यस्याम् वसति वासुकिः । निर्याय मार्गितव्या च सा च भोगवती पुरी ॥३८॥

तत्र च अंतरोद्देशा ये केचन समावृताः । तम् च देशम् अतिक्रम्य महान् ऋषभ संस्थितिः ॥३९॥

सर्व रत्नमयः श्रीमान् ऋषभो नाम पर्वतः । गोशीर्षकम् पद्मकम् च हरिश्यामम् च चन्दनम् ॥४०॥

दिव्यम् उत्पद्यते यत्र तत् चैव अग्नि सम प्रभम् । न तु तत् चन्दनम् दृष्ट्वा स्प्रष्टव्यम् च कदाचन ॥४१॥

रोहिता नाम गंधर्वा घोरम् रक्षन्ति तद् वनम् । तत्र गंधर्व पतयः पंच सूर्य सम प्रभाः ॥४२॥

शैलूषो ग्रामणीः शिक्षः शुको बभ्रुः तथैव च । रवि सोम अग्नि वपुषा निवासः पुण्य कर्मणाम् ॥४३॥

अन्ते पृथिव्या दुर्धर्षाः ततः स्वर्ग जितः स्थिताः । ततः परम् न वः सेव्यः पितृ लोकः सुदारुणः ॥४४॥

राजधानी यमस्य एषा कष्टेन तमसा आवृता । एतावत् एव युष्माभिः वीरा वानर पुंगवाः । शक्यम् विचेतुम् गन्तुम् वा न अतो गतिमताम् गतिः ॥४५॥

सर्वम् एतत् समालोक्य यत् च अन्यत् अपि दृश्यते । गतिम् विदित्वा वैदेह्याः संनिवर्तितम् अर्हथ ॥४६॥

यः च मासान् निवृत्तो अग्रे दृष्टा सीत इति वक्ष्यति । मत् तुल्य विभवो भोगैः सुखम् स विहरिष्यति ॥४७॥

ततः प्रियतरो न अस्ति मम प्राणात् विशेषतः । कृत अपराधो बहुशो मम बन्धुः भविष्यति ॥४८॥

अमित बल पराक्रमा भवन्तो विपुल गुणेषु कुलेषु च प्रसूताः । मनुज पति सुताम् यथा लभध्वम् तत् अधिगुणम् पुरुषार्थम् आरभध्वम् ॥४९॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे एक चत्वारिंशः सर्गः ॥

Listen to the sarga
0:00