रामायणम्

चत्वारिंशः सर्गः 4.42

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

ततः प्रस्थाप्य सुग्रीवः तान् हरीन् दक्षिणाम् दिशम् । अब्रवित् मेघ संकाशम् सुशेषणम् नाम वानरम् ॥१॥

तारायाः पितरम् राजा श्वशुरम् भीम विक्रमम् । अब्रवीत् प्रांजलिः वाक्यम् अभिगम्य प्रणम्य च ॥२॥

महर्षि पुत्रम् मारीचम् अर्चिष्मन्तम् महाकपिम् । वृतम् कपिवरैः शूरैः महेन्द्र सदृश द्युतिम् ॥३॥

बुद्धि विक्रम सम्पन्नान् वैनतेय सम द्युतिम् । मरीचि पुत्रान् मारीचान् अर्चिर्माल्यान् महबलान् ॥४॥

ऋषि पुत्रान् च तान् सर्वान् प्रतीचीम् आदिशत् दिशम् । द्वाभ्याम् शत सहस्राभ्याम् कपीनाम् कपि सत्तमाः ॥५॥

सुशेषण प्रमुखा यूयम् वैदेहीम् परिमार्गथ । सौराष्ट्रान् सह बाह्लीकान् चंद्रचित्रान् तथैव च ॥६॥

स्फीतान् जन पदान् रम्यान् विपुलानि पुराणि च । पुंनाग गहनम् कुक्षिम् वकुल उद्दालक आकुलम् ॥७॥

तथा केतक खँडान् च मार्गध्वम् हरि पुंगवाः । प्रत्यक् स्रोतो वहाः चैव नद्यः शीतजलाः शिवाः ॥८॥

तापसानाम् अरण्यानि कांतारा गिरयः च ये । तत्र स्थलीः मरुप्राया अति उच्च शिखराः शिलाः ॥९॥

गिरि जाल आवृताम् दुर्गाम् मार्गित्वा पश्चिमाम् दिशम् । ततः पश्चिमम् आगम्य समुद्रम् द्रष्टुम् अर्हथ ॥१०॥

तिमि नक्र आकुल जलम् गत्वा द्रक्ष्यथ वानराः । ततः केतक खँडेषु तमाल गहनेषु च ॥११॥

कपयो विहरिष्यन्ति नारिकेल वनेषु च । तत्र सीताम् च मार्गध्वम् निलयम् रावणस्य च ॥१२॥

वेलातल निवेष्टेषु पर्वतेषु वनेषु च । मुरची पत्तनम् चैव रम्यम् चैव जटा पुरम् ॥१३॥

अवंतीम् अंगलेपाम् च तथा च अलक्षितम् वनम् । राष्ट्राणि च विशालानि पत्तनानि ततः ततः ॥१४॥

सिंधु सागरयोः चैव संगमे तत्र पर्वतः । महान् हेम गिरिः नाम शत शृंगो महाद्रुमः ॥१५॥

तत्र प्रस्थेषु रम्येषु सिंहाः पक्ष गमाः स्थिताः । तिमि मत्स्य गजाम्ब् चैव नीडानि आरोपयन्ति ते ॥१६॥

तानि नीडानि सिंहानाम् गिरि शृंग गताः च ये । दृप्ताः तृप्ताः च मातंगाः तोयद स्वन निःस्वनाः ॥१७॥

विचरन्ति विशाले अस्मिन् तोय पूर्णे समन्ततः । तस्य शृंगम् दिव स्पर्शम् कांचनम् चित्र पादपम् ॥१८॥

सर्वम् आशु विचेतव्यम् कपिभिः काम रूपिभिः । कोटिम् तत्र समुद्रे तु कांचनीम् शत योजनम् ॥१९॥

दुर्दर्शाम् पारियात्रस्य गता द्रक्ष्यथ वानराः । कोट्यः तत्र चतुर्विंशत् गंधर्वाणाम् तरस्विनाम् ॥२०॥

वसन्ति अग्नि निकाशानाम् घोराणाम् काम रूपिणाम् । पावक अर्चिः प्रतीकाशाः समवेताः समन्ततः ॥२१॥

न अति आसादयित्वाः ते वानरैः भीम विक्रमैः । न अदेयम् च फलम् तस्मात् देशात् किंचित् प्लवंगमैः ॥२२॥

दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः । फल मूलानि ते तत्र रक्षन्ते भीम विक्रमाः ॥२३॥

तत्र यत्नः च कर्तव्यो मार्गितव्या च जानकी । न हि तेभ्यो भयम् किंचित् कपित्वम् अनुवर्तताम् ॥२४॥

तत्र वैदूर्य वर्णाभो वज्र संस्थान संस्थितः । नाना द्रुम लता आकीर्णो वज्रः नाम महागिरिः ॥२५॥

श्रीमान् समुदितः तत्र योजनानाम् शतम् समम् । गुहाः तत्र विचेतव्याः प्रयत्नेन प्लवंगमाः ॥२६॥

चतुर् भागे समुद्रस्य चक्रवान् नाम पर्वतः । तत्र चक्रम् सहस्रारम् निर्मितम् विश्वकर्मणा ॥२७॥

तत्र पंचजनम् हत्वा हयग्रीवम् च दानवम् । आजहार ततः चक्रम् शंखम् च पुरुषोत्तमः ॥२८॥

तस्य सानुषु रम्येषु विशालासु गुहासु च । रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥२९॥

योजनानि चतुः षष्टिः वराहो नाम पर्वतः । सुवर्ण शृंगः सुमहान् अगाधे वरुण आलये ॥३०॥

तत्र प्राक् ज्योतिषम् नाम जातरूपमयम् पुरम् । यस्मिन् वसति दुष्ट आत्मा नरको नाम दानवः ॥३१॥

तत्र सानुषु रम्येषु विशालासु गुहासु च । रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥३२॥

तम् अतिक्रम्य शैलेन्द्रम् कांचनान् अन्तर दर्शनम् । पर्वतः सर्व सौवर्णो धारा प्रस्रवण आयुतः ॥३३॥

तम् गजाः च वराहाः च सिंहा व्याघ्राः च सर्वतः । अभिगर्जन्ति सततम् तेन शब्देन दर्पिताः ॥३४॥

यस्मिन् हरि हयः श्रीमान् महेन्द्रः पाकशासनः । अभिषिक्तः सुरै राजा मेघो नाम स पर्वतः ॥३५॥

तम् अतिक्रम्य शैलेन्द्रम् महेन्द्र परिपालितम् । षष्टिम् गिरि सहस्राणि कांचनानि गमिष्यथ ॥३६॥

तरुण आदित्य वर्णानि भ्राजमानानि सर्वतः । जातरूपमयैः वृक्षैः शोभितानि सुपुष्पितैः ॥३७॥

तेषाम् मध्ये स्थितो राजा मेरुः उत्तम पर्वतः । आदित्येन प्रसन्नेन शैलो दत्त वरः पुरा ॥३८॥

तेन एवम् उक्तः शैलेन्द्रः सर्व एव त्वत् आश्रयाः । मत् प्रसादात् भविष्यन्ति दिवा रात्रौ च कांचनाः ॥३९॥

त्वयि ये च अपि वत्स्यन्ति देव गन्धर्व दानवाः । ते भविष्यन्ति भक्ताः च प्रभया कांचन प्रभाः ॥४०॥

विश्वेदेवाः च वसवो मरुतः च दिव ओकसः । आगत्य पश्चिमाम् संध्याम् मेरुम् उत्तम पर्वतम् ॥४१॥

आदित्यम् उपतिष्ठन्ति तैः च सूर्यो अभिपूजितः । अदृश्यः सर्व भूतानाम् अस्तम् गच्छति पर्वतम् ॥४२॥

योजनानाम् सहस्राणि दश तानि दिवाकरः । मुहूर्त अर्धेन तम् शीघ्रम् अभियाति शिल उच्चयम् ॥४३॥

शृंगे तस्य महत् दिव्यम् भवनम् सूर्य संनिभम् । प्रासाद गण संबाधम् विहितम् विश्वकर्मणा ॥४४॥

शोभितम् तरुभिः चित्रैः नाना पक्षि समाकुलैः । निकेतम् पाश हस्तस्य वरुणस्य महात्मनः ॥४५॥

अन्तरा मेरुम् अस्तम् च तालो दश शिरा महान् । जातरूपमयः श्रीमान् भ्राजते चित्र वेदिकः ॥४६॥

तेषु सर्वेषु दुर्गेषु सरस्सु च सरित्सु च । रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४७॥

यत्र तिष्ठति धर्मज्ञः तपसा स्वेन भावितः । मेरु सावर्णिर् इति एष ख्यातो वै ब्रह्मणा समः ॥४८॥

प्रष्टव्यो मेरुसावर्णिः महर्षिः सूर्य संनिभः । प्रणम्य शिरसा भूमौ प्रवृत्तिम् मैथिलीम् प्रति ॥४९॥

एतावत् जीव लोकस्य भास्करो रजनी क्षये । कृत्वा वितिमिरम् सर्वम् अस्तम् गच्छति पर्वतम् ॥५०॥

एतावत् वानरैः शक्यम् गन्तुम् वानर पुंगवाः । अभास्करम् अमर्यादम् न जानीमः ततः परम् ॥५१॥

अवगम्य तु वैदेहीम् निलयम् रावणस्य च । अस्तम् पर्वतम् आसाद्य पूर्णे मासे निवर्तत ॥५२॥

ऊर्ध्वम् मासान् न वस्तव्यम् वसन् वध्यो भवेन् मम । सह एव शूरो युष्माभिः श्वशुरो मे गमिष्यति ॥५३॥

श्रोतव्यम् सर्वम् एतस्य भवद्भिः दिष्ट कारिभिः । गुरुः एष महाबाहुः श्वशुरो मे महाबलः ॥५४॥

भवन्तः च अपि विक्रान्ताः प्रमाणम् सर्वे एव हि । प्रमाणम् एनम् संस्थाप्य पश्यध्वम् पश्चिमाम् दिशम् ॥५५॥

दृष्टायाम् तु नरेन्द्रस्या पत्न्याम् अमित तेजसः । कृत कृत्या भविष्यामः कृतस्य प्रतिकर्मणा ॥५६॥

अतो अन्यत् अपि यत् कार्यम् कार्यस्य अस्य प्रियम् भवेत् । संप्रधार्य भवद्भिः च देश काल अर्थ संहितम् ॥५७॥

ततः सुषेण प्रमुखाः प्लवंगमाः सुग्रीव वाक्यम् निपुणम् निशम्य । आमंत्र्य सर्वे प्लवगाधिपम् ते जग्मुर् दिशम् ताम् वरुण अभिगुप्ताम् ॥५८॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे द्वि चत्वारिंशः सर्गः ॥

Listen to the sarga
0:00