ततः संदिश्य सुग्रीवः श्वशुरम् पश्चिमाम् दिशम् । वीरम् शतबलिम् नाम वानरम् वानररेश्वर ॥१॥
चत्वारिन्शः सर्गः 4.43
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
उवाच राजा सर्वज्ञः सर्व वानर सत्तम । वाक्यम् आत्म हितम् चैव रामस्य च हितम् तदा ॥२॥
वृतः शत सहस्रेण त्वत् विधानाम् वन ओकसाम् । वैवस्वत सुतैः सार्धम् प्रविष्ठ सर्व मंत्रिभिः ॥३॥
दिशम् हि उदीचीम् विक्रान्त हिम शैल अवतंसिकाम् । सर्वतः परिमार्गध्वम् राम पत्नीम् यशस्विनीम् ॥४॥
अस्मिन् कार्ये विनिवृत्ते कृते दाशरथेः प्रिये । ऋणान् मुक्ता भविष्यामः कृत अर्था अर्थविदाम् वराः ॥५॥
कृतम् हि प्रियम् अस्माकम् राघवेण महात्मना । तस्य चेत् प्रतिकारो अस्ति सफलम् जीवितम् भवेत् ॥६॥
अर्थिनः कार्य निर्वृत्तिम् अकर्तुम् अपि यः चरेत् । तस्य स्यात् सफलम् जन्म किम् पुनः पूर्व कारिणः ॥७॥
एताम् बुद्धिम् समास्थाय दृश्यते जानकी यथा । तथा भवद्भिः कर्तव्यम् अस्मत् प्रिय हित एषिभिः ॥८॥
अयम् हि सर्व भूतानाम् मान्यः तु नर सत्तमः । अस्मासु च गतः प्रीतिम् रामः पर पुरम् जयः ॥९॥
इमानि बहु दुर्गाणि नद्यः शैल अंतराणि च । भवन्तः परिमार्गन्तु बुद्धि विक्रम संपदा ॥१०॥
तत्र म्लेच्छान् पुलिन्दान् च शूरसेनान् तथैव च । प्रस्थालान् भरतान् चैव कुरूम् च सह मद्रकैः ॥११॥
कांबोज यवनान् चैव शकान् पत्तनानि च । अन्वीक्ष्य दरदान् चैव हिमवन्तम् विचिन्वथ ॥१२॥
लोध्र पद्मक खण्डेषु देवदारु वनेषु च । रावणः सह वैदेह्या मार्गितव्या ततः ततः ॥१३॥
ततः सोम आश्रमम् गत्वा देव गन्धर्व सेवितम् । कालम् नाम महासानुम् पर्वतम् तम् गमिष्यथ ॥१४॥
महत्सु तस्य शैलेषु पर्वतेषु गुहासु च । विचिन्वत महाभागाम् राम पत्नीम् अनिन्दिताम् ॥१५॥
तम् अतिक्रम्य शैलेन्द्रम् हेम गर्भम् महागिरिम् । ततः सुदर्शनम् नाम पर्वतम् गन्तुम् अर्हथ ॥१६॥
ततो देवसखो नाम पर्वतः पतग आलय । नाना पक्षि समाकीर्णो विविध द्रुम भूषितः ॥१७॥
तस्य कानन खण्डेषु निर्झरेषु गुहासु च । रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥१८॥
तम् अतिक्रम्य च आकाशम् सर्वतः शत योजनम् । अपर्वत नदी वृक्षम् सर्व सत्त्व विवर्जितम् ॥१९॥
तत् तु शीघ्रम् अतिक्रम्य कांतारम् रोम हर्षणम् । कैलासम् पाण्डुरम् प्राप्य हृष्टा यूयम् भविष्यथ ॥२०॥
तत्र पाण्डुर मेघाभम् जाम्बूनद परिष्कृतम् । कुबेर भवनम् रम्यम् निर्मितम् विश्वकर्मणा ॥२१॥
विशाला नलिनी यत्र प्रभूत कमलोत्पला । हंस कारण्डव आकीर्णा अप्सरो गण सेविता ॥२२॥
तत्र वैश्रवणो राजा सर्व भूत नमस्कृतः । धनदो रमते श्रीमान् गुह्यकैः सह यक्ष राट् ॥२३॥
तस्य चन्द्र निकशेषु पर्वतेषु गुहासु च । रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥२४॥
क्रौन्चम् तु गिरिम् आसाद्य बिलम् तस्य सुदुर्गमम् । अप्रमत्तैः प्रवेष्टव्यम् दुष्प्रवेशम् हि तत् स्मृतम् ॥२५॥
वसन्ति हि महात्मानः तत्र सूर्य सम प्रभाः । देवैः अभ्यर्थिताः सम्यक् देव रूपा महर्षयः ॥२६॥
क्रौन्चस्य तु गुहाः च अन्याः सानूनि शिखराणि च । निर्दराः च नितंबाः च विचेतव्याः ततः ततः ॥२७॥
अवृक्षम् काम शैलम् च मानसम् विहग आलयम् । न गतिः तत्र भूतानाम् देवानाम् न च रक्षसाम् ॥२८॥
स च सर्वैः विचेतव्यः स सानु प्रस्थ भूधरः । क्रौन्चम् गिरिम् अतिक्रम्य मैनाको नाम पर्वतः ॥२९॥
मयस्य भवनम् तत्र दानवस्य स्वयम् कृतम् । मैनाकः तु विचेतव्यः स सानु प्रस्थ कंदरः ॥३०॥
स्त्रीणाम् अश्व मुखीनाम् च निकेताः तत्र तत्र तु । तम् देशम् समतिक्रम्य आश्रमम् सिद्ध सेवितम् ॥३१॥
सिद्धा वैखानसाः तत्र वालखिल्याः च तापसाः । वन्दितव्याः ततः सिद्धाः तापसा वीत कल्मषाः ॥३२॥
प्रष्टव्याः च अपि सीतायाः प्रवृत्तिम् विनय अन्वितैः । हेम पुष्कर संछन्नम् तत्र वैखानसम् सरः ॥३३॥
तरुण आदित्य संकाशैः हंसैः विचरितम् शुभैः । औपवाह्यः कुबेरस्य सर्वभौम इति स्मृतः ॥३४॥
गजः पर्येति तम् देशम् सदा सह करेणुभिः । तत् सारः समतिक्रम्य नष्ट चन्द्र दिवाकरम् । अनक्षत्र गणम् व्योम निष्पयोदम् अनाअदितम् ॥३५॥
गभस्तिभिः इव अर्कस्य स तु देशः प्रकाशते । विश्राम्यद्भिः तपः सिद्धैः देव कल्पैः स्वयंप्रभैः ॥३६॥
तम् तु देशम् अतिक्रम्य शैलोदा नाम निम्नगा । उभयोः तीरयोः तस्याः कीचका नाम वेणवः ॥३७॥
ते नयंति परम् तीरम् सिद्धान् प्रत्यानयन्ति च । उत्तराः कुरवः तत्र कृत पुण्य प्रतिश्रियाः ॥३८॥
ततः कांचन पद्माभिः पद्मिनीभिः कृतोदकाः । नील वैदूर्य पत्राढ्या नद्यः तत्र सहस्रशः ॥३९॥
रक्तोत्पल वनैः च अत्र मण्डिताः च हिरण्मयैः । तरुण आदित्य संकाशा भान्ति तत्र जलाशयाः ॥४०॥
महाअर्ह मणि पत्रैः च कांचन प्रभ केसरैः । नीलोत्पल वनैः चित्रैः स देशः सर्वतो वृतः ॥४१॥
निस्तुलाभिः च मुक्ताभिः मणिभिः च महाधनैः । उद्भूत पुलिनाः तत्र जातरूपैः च निम्नगाः ॥४२॥
सर्व रत्नमयैः चित्रैः अवगाढा नगोत्तमैः । जातरूपमयैः च अपि हुताशन सम प्रभैः ॥४३॥
नित्य पुष्प फलाः तत्र नगाः पत्ररथ आकुलाः । दिव्य गन्ध रस स्पर्शाः सर्व कामान् स्रवन्ति च ॥४४॥
नाना आकाराणि वासांसि फलन्ति अन्ये नगोत्तमाः । मुक्ता वैदूर्य चित्राणि भूषणानि तथैव च । स्त्रीणाम् यानि अनुरूपाणि पुरुषाणाम् तथैव च ॥४५॥
सर्व ऋतु सुख सेव्यानि फलन्ति अन्ये नगोत्तमाः । महा अर्हाणि मणि चित्राणि फलन्ति अन्ये नगोत्तमाः ॥४६॥
शयनानि प्रसूयन्ते चित्र आस्तारणवन्ति च । मनः कान्तानि माल्यानि फलन्ति अत्र अपरे द्रुमाः ॥४७॥
पानानि च महा अर्हाणि भक्ष्याणि विविधानि च । स्त्रियः च गुण संपन्ना रूप यौवन लक्षिताः ॥४८॥
गन्धर्वाः किंनरा सिद्धा नागा विद्याधराः तथा । रमन्ते सहिताः तत्र नारीभिः भास्वर प्रभाः ॥४९॥
सर्वे सुकृत कर्माणः सर्वे रति परायणाः । सर्वे काम अर्थ सहिता वसंति सह योषितः ॥५०॥
गीत वादित्र निर्घोषः स उत्कृष्ट हसित स्वनः । श्रूयते सततम् तत्र सर्व भूत मनोरमः ॥५१॥
तत्र न अमुदितः कश्चिन् न अत्र कश्चित् असत् प्रियः । अहनि अहनि वर्धन्ते गुणाः तत्र मनोरमाः ॥५२॥
तम् अतिक्रम्य शैलेन्द्रम् उत्तरः पय्साम् निधिः । तत्र सोम गिरिर् नाम मध्ये हेममयो महान् ॥५३॥
इन्द्र लोक गता ये च ब्रह्म लोक गताः च ये । देवाः तम् समवेक्षन्ते गिरि राजम् दिवम् गताः ॥५४॥
स तु देशो विसूर्यो अपि तस्य भासा प्रकाशते । सूर्य लक्ष्म्या अभिविज्ञेयः तपता इव विवस्वता ॥५५॥
भगवान् तत्र विश्वात्मा शम्भुः एकादश आत्मकः । ब्रह्मा वसति देवेशो ब्रह्म ऋषि परिवारितः ॥५६॥
न कथंचन गंतव्यम् कुरूणाम् उत्तरेण वः । अन्येषाम् अपि भूतानाम् न अनुक्रामति वै गतिः ॥५७॥
सा हि सोम गिरिः नाम देवानाम् अपि दुर्गमः । तम् आलोक्य ततः क्षिप्रम् उपावर्तितुम् अर्हथ ॥५८॥
एतावत् वानरैः शक्यम् गंतुम् वानर पुंगवाः । अभास्करम् अमर्यादम् न जानीमः ततः परम् ॥५९॥
सर्वम् एतत् विचेतव्यम् यन् मया परिकीर्तितम् । यत् अन्यत् अपि न उक्तम् च तत्र अपि क्रियताम् मतिः ॥६०॥
ततः कृतम् दाशरथेः महत् प्रियम् महत्तरम् च अपि ततो मम प्रियम् । कृतम् भविष्यति अनिलोअनलौपमा विदेहजा दर्शनजेन कर्मणा ॥६१॥
ततः कृतार्थाः सहिताः सबान्धवा मया अर्चिताः सर्व गुणैः मनो रमैः । चरिष्यथ उर्वीम् प्रतिशान्त शत्रवाअः सह प्रिया भूत धराः प्लवंगमाः ॥६२॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे त्रि चत्वारिन्शः सर्गः ॥