रामायणम्

चत्वारिंशः सर्गः 4.44

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

विशेषेण तु सुग्रीवो हनूमति अर्थम् उक्तवान् । स हि तस्मिन् हरि श्रेष्ठे निश्चितार्थो अर्थ साधने ॥१॥

अब्रवीत् च हनूमंतम् विक्रंतम् अनिल आत्मजम् । सुग्रीवः परम प्रीतः प्रभुः सर्व वन ओकसाम् ॥२॥

न भूमौ न अंतरिक्षे वा न अंबरे न अमर आलये । न अप्सु वा गति संगम् ते पश्यामि हरि पुम्गव ॥३॥

स असुराः सह गंधर्वाः स नाग नर देवताः । विदिताः सर्व लोकाः ते स सागर धरा धराः ॥४॥

गतिः वेगः च तेजः च लाघवम् च महाकपे । पितुः ते सदृशम् वीर मारुतस्य महा ओजसः ॥५॥

तेजसा वा अपि ते भूतम् न समम् भुवि विद्यते । तत् यथा लभ्यते सीता तत् त्वम् एव अनुचिंतय ॥६॥

त्वयि एव हनुमन् अस्ति बलम् बुद्धिः पराक्रमः । देश काल अनुवृत्तिः च नयः च नय पण्डित ॥७॥

ततः कार्य समासंगम् अवगम्य हनूमति । विदित्वा हनुमन्तम् च चिन्तयामास राघवः ॥८॥

सर्वथा निश्चित अर्थो अयम् हनूमति हरि ईश्वरः । निश्चित अर्थतरः च अपि हनूमान् कार्य साधने ॥९॥

तत् एवम् प्रस्थितस्य अस्य परिज्ञातस्य कर्मभिः । भर्त्रा परिगृहीतस्य ध्रुवः कार्य फलोदयः ॥१०॥

तम् समीक्ष्य महातेजा व्यवसायोत्तरम् हरिम् । कृतार्थ इव संहृष्टः प्रहृष्ट इन्द्रिय मानसः ॥११॥

ददौ तस्य ततः प्रीतः स्व नामांक उपशोभितम् । अंगुलीयम् अभिज्ञानम् राजपुत्र्याः परंतपः ॥१२॥

अनेन त्वाम् हरिश्रेष्ठ चिह्नेन जनकाअत्मजा । मत् सकाशात् अनुप्राप्तम् अनुद्विग्ना अनुपश्यति ॥१३॥

व्यवसायः च ते वीर सत्त्व युक्तः च विक्रमः । सुग्रीवस्य च संदेशः सिद्धिम् कथयति इव मे ॥१४॥

स तत् गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृतांजलिः । वन्दित्वा चरणौ चैव प्रस्थितः प्लवगर्षभः ॥१५॥

स तत् प्रकर्षन् हरिणाम् महत् बलम् बभूव वीरः पवनात्मजः कपिः । गत अंबुदे व्योम्नि विशुद्ध मण्डलः शशी इव नक्षत्र गणोपशोभितः ॥१६॥

अतिबल बलम् आश्रितः तव अहम् हरि वर विक्रम विक्रमैः अनल्पैः । पवन सुत यथा अधिगम्यते सा जनक सुता हनुमन् तथा कुरुष्व ॥१७॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे चतुः चत्वारिंशः सर्गः ॥

Listen to the sarga
0:00