रामायणम्

चत्वारिन्शः सर्गः 4.45

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

सर्वाः च आहूय सुग्रीवः प्लवगान् प्लवगर्षभः । समस्तान् च अब्रवीत् राजा राम कार्यार्थ सिद्धये ॥१॥

एवम् एतत् विचेतव्यम् भवद्भिः वानरोत्तमैः । तत् उग्र शासनम् भर्तुर् विज्ञाय हरि पुंगवाः ॥२॥

शलभा इव संछाद्य मेदिनीम् संप्रतस्थिरे । रामः प्रस्रवणे तस्मिन् न्यवसत् सह लक्ष्मणः ॥३॥

प्रतीक्षमाणः तम् मासम् यः सीता अधिगमे कृतः । उत्तराम् तु दिशम् रम्याम् गिरि राज समावृताम् ॥४॥

प्रतस्थे सहसा वीरो हरिः शतबलिः तदा । पूर्वाम् दिशम् प्रति ययौ विनतो हरि यूथपः ॥५॥

तारा अंगदादि सहितः प्लवगः पवनात्मजः । अगस्त्य चरिताम् आशाम् दक्षिणाम् हरि यूथपः ॥६॥

पश्चिमाम् तु दिशम् घोराम् सुषेणः प्लवगेश्वरः । प्रतस्थे हरि शार्दूलो दिशम् वरुण पालिताम् ॥७॥

ततः सर्वा दिशो राजा चोदयित्वा यथा तथम् । कपि सेना पतीन् वीरो मुमोद सुखितः सुखम् ॥८॥

एवम् संचोदिताः सर्वे राज्ञा वानर यूथपाः । स्वाम् स्वाम् दिशम् अभिप्रेत्य त्वरिताः संप्रतस्थिरे ॥९॥

नदन्तः च उन्नदन्तः च गर्जन्तः च प्लवंगमाः । क्ष्वेलन्तो धावमानाः च विनदन्तो महाबलाः ॥१०॥

एवम् संचोदिताः सर्वे राज्ञा वानर यूथपाः । आनयिष्यामहे सीताम् हनिष्यामः च रावणम् ॥११॥

अहम् एको वधिष्यामि प्राप्तम् रावणम् आहवे । ततः च उन्मथ्य सहसा हरिष्ये जनक आत्मजाम् ॥१२॥

वेपमानम् श्रमेण अद्य भवद्भिः स्थीयताम् इति । एक एव आहरिष्यामि पातालात् अपि जानकीम् ॥१३॥

विधमिष्यामि अहम् वृक्षान् दारयिष्यामि अहम् गिरीन् । धरणीम् दारयिष्यामि क्षोभयिष्यामि सागरान् ॥१४॥

अहम् योजन संख्यायाः प्लविता न अत्र संशयः । शतम् योजन संख्यायाः शतम् समधिकम् हि अहम् ॥१५॥

भू तले सागरे वा अपि शैलेषु च वनेषु च । पातालस्य अपि वा मध्ये न मम आच्छिद्यते गतिः ॥१६॥

इति एकैकः तदा तत्र वानरा बल दर्पिताः । ऊचुः च वचनम् तस्य हरि राजस्य सन्निधौ ॥१७॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे पंच चत्वारिन्शः सर्गः ॥

Listen to the sarga
0:00