गतेषु वानरेन्द्रेषु रामः सुग्रीवम् अब्रवीत् । कथम् भवान् विजानीते सर्वम् वै मण्डलम् भुवः ॥१॥
चत्वारिन्शः सर्गः 4.46
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
सुग्रीवः च ततो रामम् उवाच प्रणत आत्मवान् । श्रूयताम् सर्वम् आख्यास्ये विस्तरेण वचो मम ॥२॥
यदा तु दुंदुभिम् नाम दानवम् महिष आकृतिम् । परिकालयते वाली मलयम् प्रति पर्वतम् ॥३॥
तदा विवेश महिषो मलयस्य गुहाम् प्रति । विवेश वाली तत्र अपि मलयम् तत् जिघांसया ॥४॥
ततो अहम् तत्र निक्षिप्तो गुहा द्वारि विनीतवत् । न च निष्क्रमते वाली तदा संवत्सरे गते ॥५॥
ततः क्षतज वेगेन आपुपूरे तदा बिलम् । तत् अहम् विस्मितो दृष्ट्वा भ्रातुः शोक विष अर्दितः ॥६॥
अथ अहम् गत बुद्धिः तु सुव्यक्तम् निहतो गुरुः । शिला पर्वत संकाशा बिल द्वारि मया कृता ॥७॥
अशक्नुवन् निष्क्रमितुम् महिषो विनशिष्यति । ततो अहम् आगाम् किष्किंधाम् निराशः तस्य जीविते ॥८॥
राज्यम् च सुमहत् प्राप्य ताराम् च रुमया सह । मित्रैः च सहितः तत्र वसामि विगत ज्वरः ॥९॥
आजगाम ततो वाली हत्वा तम् दानवर्षभः । ततो अहम् अददाम् राज्यम् गौरवात् भय यंत्रितः ॥१०॥
स माम् जिघांसुः दुष्टात्मा वाली प्रव्यथित इन्द्रियः । परिकालयते क्रोधात् धावंतम् सचिवैः सह ॥११॥
ततो अहम् वालिना तेन सानुबन्धः प्रधावितः । नदीः च विविधाः पश्यन् वनानि नगराणि च ॥१२॥
आदर्श तल संकाशा ततो वै पृथिवी मया । अलात चक्र प्रतिमा दृष्टा गोष्पदवत् तदा - कृता ॥१३॥
पूर्वम् दिशाम् ततो गत्वा पश्यामि विविधान् द्रुमान् । पर्वतान् स दरीन् रम्यान् सरांसि विविधानि च ॥१४॥
उदयम् तत्र पश्यामि पर्वतम् धातु मण्डितम् । क्षीरोदम् सागरम् चैव नित्यम् अप्सर आलयम् ॥१५॥
परिकाल्यमानः तदा वालिना अभिद्रुतः हि अहम् । पुनः आवृत्य सहसा प्रस्थितो अहम् तदा विभो ॥१६॥
दिशः तस्याः ततो भूयः प्रस्थितो दक्षिणम् दिशम् । विन्ध्य पादप संकीर्णाम् चन्दन द्रुम शोभिताम् ॥१७॥
द्रुम शैल अन्तरे पश्यन् भूयो दक्षिणतो अपराअम् । अपराम् च दिशम् प्राप्तो वालिना समभिद्रुतः ॥१८॥
स पश्यन् विविधान् देशान् अस्तम् च गिरि सत्तमम् । प्राप्य च अस्तम् गिरि श्रेष्ठम् उत्तरम् संप्रधावितः ॥१९॥
हिमवंतम् च मेरुम् च समुद्रम् च तथा उत्तरम् । यदा न विन्दे शरणम् वालिना समभिद्रुतः ॥२०॥
ततो माम् बुद्धि संपन्नो हनुमान् वाक्यम् अब्रवीत् । इदानीम् मे स्मृतम् राजन् यथा वाली हरीश्वरः ॥२१॥
मतंगेन तदा शप्तो हि अस्मिन् आश्रम मण्डले । प्रविशेत् यदि वै वाली मूर्धा अस्य शतधा भवेत् ॥२२॥
तत्र वासः सुखो अस्माकम् निर्उद्विग्नो भविष्यति । ततः पर्वतम् आसाद्य ऋश्यमूकम् नृपात्मज ॥२३॥
न विवेश तदा वाली मतंगस्य भयात् तदा । एवम् मया तदा राजन् प्रत्यक्षम् उपलक्षितम् । पृथिवी मण्डलम् सर्वम् गुहाम् अस्मि आगतः ततः ॥२४॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे षट् चत्वारिन्शः सर्गः ॥