रामायणम्

चत्वारिन्शः सर्गः 4.47

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

दर्शनार्थम् तु वैदेह्याः सर्वतः कपि कुंजराः । व्यादिष्टाः कपि राजेन यथा उक्तम् जग्मुर् अंजसा ॥१॥

ते सरांसि सरित् कक्षान् आकाशम् नगराणि च । नदी दुर्गान् तथा शैलान् विचिन्वन्ति समन्ततः ॥२॥

सुग्रीवेण समाख्याताः सर्वे वानर यूथपाः । तत्र देशान् प्रविचिन्वन्ति स शैल वन काननान् ॥३॥

विचिन्त्य दिवसम् सर्वे सीता अधिगमने धृताः । समायान्ति स्म मेदिन्याम् निशा कालेषु वानराः ॥४॥

सर्व ऋतुकान् च देशेषु वानराः स फलान् द्रुमान् । आसाद्य रजनीम् शय्याम् चक्रुः सर्वेषु अहस्सु ते ॥५॥

तत् अहः प्रथमम् कृत्वा मासे प्रस्रवणम् गताः । कपि राजेन संगम्य निराशाः कपि कुंजराः ॥६॥

विचित्य तु दिशम् पूर्वाम् यथा उक्ताम् सचिवैः सह । अदृष्ट्वा विनतः सीताम् आजगाम महाबलः ॥७॥

दिशम् अपि उत्तराम् सर्वाम् विविच्य स महाकपिः । आगतः सह सैन्येन वीरः शतबलिः तदा ॥८॥

सुषेणः पश्चिमाम् आशाम् विविच्य सह वानरैः । समेत्य मासे पूर्णे तु सुग्रीवम् उपचक्रमे ॥९॥

तम् प्रस्रवण पृष्ठस्थम् समासाद्य अभिवाद्य च । आसीनम् सह रामेण सुग्रीवम् इदम् अब्रुवन् ॥१०॥

विचिताः पर्वताः सर्वे वनानि गहनानि च । निम्नगाः सागर अन्ताः च सर्वे जनपदाः तथा ॥११॥

गुहाः च विचिताः सर्वा याः च ते परिकीर्तिताः । विचिताः च महागुल्मा लता वितत संतताः ॥१२॥

गहनेषु च देशेषु दुर्गेषु विषमेषु च । सत्त्वानि अतिप्रमाणानि विचितानि हतानि च । ये चैव गहना देशा विचिताः ते पुनः पुनः ॥१३॥

उदार सत्त्व अभिजनो हनूमान् स मैथिलीम् ज्ञास्यसि वानरेन्द्र । दिशम् तु याम् एव गता तु सीता ताम् आस्थितो वायु सुतो हनूमान् ॥१४॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे सप्त चत्वारिन्शः सर्गः ॥

Listen to the sarga
0:00