रामायणम्

चत्वारिंशः सर्गः 4.48

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

सह तार अंगदाभ्याम् तु सहसा हनुमान् कपिः । सुग्रीवेण यथा उद्दिष्टम् तम् देशम् उपचक्रमे ॥१॥

स तु दूरम् उपागम्य सर्वैः तैः कपि सत्तमैः । ततो विचित्य विन्ध्यस्य गुहाः च गहनानि च ॥२॥

पर्वताग्र नदी दुर्गान् सरांसि विपुल द्रुमान् । वृक्ष खण्डान् च विविधान् पर्वतान् वन पादपान् ॥३॥

अन्वेषमाणाः ते सर्वे वानराः सर्वतो दिशम् । न सीताम् ददृशुर् वीरा मैथिलीम् जनक आत्मजाम् ॥४॥

ते भक्षयन्तो मूलानि फलानि विविधानि अपि । अन्वेषमाणा दुर्धर्षा न्यवसन् तत्र तत्र ह ॥५॥

स तु देशो दुर्अन्वेषो गुहा गहनवान् महान् । निर्जलम् निर्जनम् शून्यम् गहनम् घोर दर्शनम् ॥६॥

ता दृशानि अन्या अपि अरण्यानि विचित्य भृइश पीडिताः । स देशः च दुर्अन्वेष्यो गुहा गहनवान् महान् ॥७॥

त्यक्त्वा तु तम् ततः देशम् सर्वे वै हरि यूथपाः । देशम् अन्यम् दुराधर्षम् विविशुः च अकुतो भयाः ॥८॥

यत्र वन्ध्य फला वृक्षा विपुष्पाः पर्ण वर्जिताः । निस्तोयाः सरितो यत्र मूलम् यत्र सुदुर्लभम् ॥९॥

न सन्ति महिषा यत्र न मृगा न च हस्तिनः । शार्दूलाः पक्षिणो वा अपि ये च अन्ये वन गोचराः ॥१०॥

न च अत्र वृक्षा न ओषध्यो न वल्ल्यो न अपि वीरुधः । स्निग्ध पत्राः स्थले यत्र पद्मिन्यः फुल्ल पंकजाः ॥११॥

प्रेक्षणीयाः सुगन्धाः च भ्रमरैः च वर्जिताः । कण्डुर् नाम महाभागः सत्य वादी तपो धनः ॥१२॥

महर्षिः परम अमर्षी नियमैः दुष्प्रधर्षणः । तस्य तस्मिन् वने पुत्रो बालको दश वार्षिकः ॥१३॥

प्रणष्टो जीवित अन्ताय क्रुद्धः तेन महामुनिः । तेन धर्माअत्मना शप्तम् कृत्स्नम् तत्र महद् वनम् ॥१४॥

अशरण्यम् दुराधर्षम् मृग पक्षि विवर्जितम् । तस्य ते कानन अन्तान् तु गिरीणाम् कन्दराणि च ॥१५॥

प्रभवाणि नदीनाम् च विचिन्वन्ति समाहिताः । तत्र च अपि महात्मानो न अपश्यन् जनक आत्मजाम् ॥१६॥

हर्तारम् रावणम् वा अपि सुग्रीव प्रिय कारिणः । ते प्रविश्य तु तम् भीमम् लता गुल्म समावृतम् ॥१७॥

ददृशुः भीम कर्माणम् असुरम् सुर निर्भयम् । तम् दृष्ट्वा वनरा घोरम् स्थितम् शैलम् इव असुरम् ॥१८॥

गाढम् परिहिताः सर्वे दृष्ट्वा तम् पर्वत उपमम् । सो अपि तान् वानरान् सर्वान् नष्टाः स्थ इति अब्रवीत् बली ॥१९॥

अभ्यधावत सम्क्रुद्धो मुष्टिम् उद्यम्य संगतम् । तम् आपतन्तम् सहसा वालि पुत्रो अंगदः तदा ॥२०॥

रावणो अयम् इति ज्ञात्वा तलेन अभिजघान ह । स वालि पुत्र अभिहतो वक्त्रात् शोणितम् उद्वमन् ॥२१॥

असुरो न्यपतत् भूमौ पर्यस्त इव पर्वतः । ते तु तस्मिन् निर् उच्छ्वासे वानरा जित काशिनः ॥२२॥

व्यचिन्वन् प्रायशः तत्र सर्वम् तत् गिरि गह्वरम् । विचितम् तु ततः सर्वम् सर्वे ते कानन ओकसः ॥२३॥

अन्यत् एव अपरम् घोरम् विविशुर् गिरि गह्वरम् । ते विचित्य पुनः खिन्ना विनिष्पत्य समागताः । एकांते वृक्ष मूले तु निषेदुर् दीन मानसाः ॥२४॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे अष्ट चत्वारिंशः सर्गः ॥

Listen to the sarga
0:00