रामायणम्

पंचाशः सर्गः 4.49

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

अथ अंगदः तदा सर्वान् वानरान् इदम् अब्रवीत् । परिश्रान्तो महा प्राज्ञः समाश्वास्य शनैर् वचः ॥१॥

वनानि गिरयो नद्यो दुर्गाणि गहनानि च । दरी गिरि गुहाः चैव विचिता नः समंततः ॥२॥

तत्र तत्र सह अस्माभिः जानकी न च दृश्यते । तथा रक्षः अपहर्ता च सीतायाः चैव दुष्कृती ॥३॥

कालः च नः महान् यातः सुग्रीवः च उग्र शासनः । तस्मात् भवन्तः सहिता विचिन्वन्तु समंततः ॥४॥

विहाय तन्द्रीम् शोकम् च निद्राम् चैव समुत्थिताम् । विचिनुध्वम् तथा सीताम् पश्यामो जनक आत्मजाम् ॥५॥

अनिर्वेदम् च दाक्ष्यम् च मनसः च अपराजयम् । कार्य सिद्धि कराणि आहुः तस्मात् एतत् ब्रवीमि अहम् ॥६॥

अद्य अपि इदम् वनम् दुर्गम् विचिन्वन्तु वन ओकसः । खेदम् त्यक्त्वा पुनः सर्वम् वनम् एतत् विचिन्वताम् ॥७॥

अवश्यम् कुर्वताम् दृश्यते कर्मणः फलम् । परम् निर्वेदम् आगम्य न हि नः मीलनम् क्षमम् ॥८॥

सुग्रीवः क्रोधनो राजा तीक्ष्ण दण्डः च वानराः । भेतव्यम् तस्य सततम् रामस्य च महात्मनः ॥९॥

हितार्थम् एतत् उक्तम् वः क्रियताम् यदि रोचते । उच्यताम् हि क्षमम् यत् तत् सर्वेषाम् एव वानराः ॥१०॥

अंगदस्य वचः श्रुत्वा वचनम् गंधमादनः । उवाच व्यक्तया वाचा पिपासा श्रम खिन्नया ॥११॥

सदृशम् खलु वः वाक्यम् अंगदो यत् उवाच ह । हितम् च एव अनुकूलम् च क्रियताम् अस्य भाषितम् ॥१२॥

पुनः मार्गामहे शैलान् कन्दराम् च शिलान् तथा । काननानि च शून्यानि गिरि प्रस्रवणानि च ॥१३॥

यथा उद्दिष्ठानि सर्वाणि सुग्रीवेण महात्मना । विचिन्वन्तु वनम् सर्वे गिरि दुर्गाणि संगताः ॥१४॥

ततः समुत्थाय पुनः वानराः ते महाबलाः । विन्ध्य कानन संकीर्णाम् विचेरुर् दक्षिणाम् दिशम् ॥१५॥

ते शारद अभ्र प्रतिमम् श्रीमत् रजत पर्वतम् । शृंगवन्तम् दरीवंतम् अधिरुह्य च वानराः ॥१६॥

तत्र लोध्र वनम् रम्यम् सप्त पर्ण वनानि च । विचिन्वन्तो हरि वराः सीता दर्शन कान्क्षिणः ॥१७॥

तस्य अग्रम् अधिरूढाः ते श्रान्ता विपुल विक्रमाः । न पश्यन्ति स्म वैदेहीम् रामस्य महिषीम् प्रियाम् ॥१८॥

ते तु दृष्टि गतम् दृष्ट्वा तम् शैलम् बहु कंदरम् । अध्यारोहन्त हरयो वीक्षमाणाः समंततः ॥१९॥

अवरुह्य ततो भूमिम् श्रान्ता विगत चेतसः । स्थित्वा मुहूर्तम् तत्र अथ वृक्ष मूलम् उपाश्रिताः ॥२०॥

ते मुहूर्तम् समाश्वस्ताः किंचित् भग्न परिश्रमाः । पुनर् एव उद्यताः कृत्स्नाम् मार्गितुम् दक्षिणाम् दिशम् ॥२१॥

हनुमत् प्रमुखाः ते तु प्रस्थिताः प्लवग ऋषभाः । विंध्यम् एव आदितः कृत्वा विचेरुः ते समंततः ॥२२॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे एको न पंचाशः सर्गः ॥

Listen to the sarga
0:00