रामायणम्

पंचाशः सर्गः 4.50

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

सह तारा अंगदाभ्याम् तु संगम्य हनुमान् कपिः । विचिनोति च विन्ध्यस्य गुहाः च गहनानि च ॥१॥

सिंह शार्दूल जुष्टाः च गुहाः च परितः तथा । विषमेषु नग इन्द्रस्य महा प्रस्रवणेषु च ॥२॥

आसेदुः तस्य शैलस्य कोटिम् दक्षिण पस्चिमाम् । तेषाम् तत्र एव वसताम् स कालो व्यत्यवर्तत ॥३॥

स हि देशो दुरन्वेष्यो गुहा गहनवान् महान् । तत्र वायु सुतः सर्वम् विचिनोति स्म पर्वतम् ॥४॥

परस्परेण रहिता अन्योन्यस्य अविदूरतः । गजो गवाक्षो गवयः शरभो गन्धमादनः ॥५॥

मैन्दः च द्विविदः चैव हनुमान् जांबवान् अपि । अंगदो युव राजः च तारः च वनगोचरः ॥६॥

गिरि जाल आवृतान् देशान् मार्गित्वा दक्षिणाम् दिशम् । विचिन्वन्तः ततः तत्र ददृशुः विवृतम् बिलम् ॥७॥

दुर्गम् ऋक्ष बिलम् नाम दानवेन अभिरक्षितम् । क्षुत् पिपासा परीताः तु श्रान्ताः तु सलिल अर्थिनः ॥८॥

अवकीर्णम् लता वृक्षैः ददृशुः ते महा बिलम् । तत्र क्रौन्चाः च हंसाः च सारसाः च अपि निष्क्रमन् ॥९॥

जल आर्द्राः चक्रवाकाः च रक्त अंगाः पद्म रेणुभिः । ततः तत् बिलम् आसाद्य सुगन्धि दुरतिक्रमम् ॥१०॥

विस्मय व्यग्र मनसो बभूवुः वानरर्षभाः । संजात परिशंकाः ते तत् बिलम् प्लवग उत्तमाः ॥११॥

अभ्यपद्यन्त संहृष्टाः तेजोवन्तो महाबलाः । नाना सत्त्व समाकीर्णाम् दैत्य इन्द्र निलय उपमम् ॥१२॥

दुर्दर्शम् इव घोरम् च दुर्विगाह्यम् च सर्वशः । ततः पर्वत कूट आभो हनुमान् मारुत आत्मजः ॥१३॥

अब्रवीत् वानरान् घोरान् कान्तार वन कोविदः । गिरि जाल आवृतान् देशान् मार्गित्वा दक्षिणाम् दिशम् ॥१४॥

वयम् सर्वे परिश्रांता न च पश्याम मैथिलीम् । अस्मात् च अपि बिलात् हंसाः क्रौन्चाः च सह सारसैः ॥१५॥

जल आर्द्राः चक्रवाकाः च निष्पतन्ति स्म सर्वशः । नूनम् सलिलवान् अत्र कूपो वा यदि वा ह्रदः ॥१६॥

तथा च इमे बिल द्वारे स्निग्धाः तिष्ठन्ति पादपाः । इति उक्ताः तत् बिलम् सर्वे विविशुः तिमिर आवृतम् ॥१७॥

अचन्द्र सूर्यम् हरयो ददृशू रोम हर्षणम् । निशम्य तस्मात् सिंहाः च तान् तान् च मृग पक्षिणः ॥१८॥

प्रविष्टा हरि शार्दूला बिलम् तिमिर आवृतम् । न तेषाम् सज्जते दृष्टिः न तेजः न पराक्रमः ॥१९॥

वायोः इव गतिः तेषाम् दृष्टिः तम् अपि वर्तते । ते प्रविष्टाः तु वेगेन तत् बिलम् कपि कुंजराः ॥२०॥

प्रकाशम् च अभिरामम् च ददृशुः देशम् उत्तमम् । ततः तस्मिन् बिले भीमे नाना पादप संकुले ॥२१॥

अन्योन्यम् संपरिष्वज्य जग्मुर् योजनम् अंतरम् । ते नष्ट संज्ञाः तृषिताः संभ्रांताः सलिल अर्थिनः ॥२२॥

परिपेतुर् बिले तस्मिन् कंचित् कालम् अतन्द्रिताः । ते कृशा दीन वदनाः परिश्रान्ताः प्लवंगमाः ॥२३॥

आलोकम् ददृशुः वीरा निराशा जीविते यदा । ततः तम् देशम् आगम्य सौम्याः वितिमिरम् वनम् ॥२४॥

ददृशुः कान्चनान् वृक्षान् दीप्त वैश्वानर प्रभान् । सालान् तालान् तमालान् च पुन्नागान् वंजुलान् धवान् ॥२५॥

चंपकान् नाग वृक्षान् च कर्णिकारान् च पुष्पितान् । स्तबकैः कांचनैः चित्रैः रक्तैः किसलयैः तथा ॥२६॥

आपीडैः च लताभिः च हेम आभरण भूषितैः । तरुण आदित्य संकाशान् वैदूर्यमय वेदिकान् ॥२७॥

विभ्राजमानान् वपुषा पादपान् च हिरण्मयान् । नील वैदूर्य वर्णाः च पद्मिनीः पतगैः आवृताः ॥२८॥

महद्भिः कांचनैः वृक्षैः वृता बाल अर्क संनिभैः । जातरूपमयैः मत्स्यैः महद्भिः च अथ पन्कजैः ॥२९॥

नलिनीः तत्र ददृशुः प्रसन्न सलिल आयुताः । कांचनानि विमानानि राजतानि तथा एव च ॥३०॥

तपनीय गवाक्षाणि मुक्ता जाल आवृतानि च । हैम राजत भौमानि वैदूर्य मणिमन्ति च ॥३१॥

ददृशुः तत्र हरयो गृह मुख्यानि सर्वशः । पुष्पितान् फलिनो वृक्षान् प्रवाल मणि संनिभान् ॥३२॥

कांचन भ्रमरान् चैव मधूनि च समन्ततः । मणि कांचन चित्राणि शयनानि आसनानि च ॥३३॥

विविधानि विशालानि ददृशुः ते समन्ततः । हेम रजत कांस्यानाम् भाजनानाम् च राशयः ॥३४॥

अगुरूणाम् च दिव्यानाम् चंदनानाम् च संचयम् । शुचीनि अभ्यवहाराणि मूलानि च फलानि च ॥३५॥

महा अर्हाणि च पानानि मधूनि रसवन्ति च । दिव्यानाम् अम्बराणाम् च महा अर्हाणाम् च संचयान् ॥३६॥

कंबलानाम् च चित्राणाम् अजिनानाम् च संचयान् । तत्र तत्र विन्यस्तान् दीप्तान् वैश्वानर प्रभान् ॥३७॥

ददृशुः वानराः शुभ्रान् जातरूपस्य संचयान् । तत्र तत्र विचिन्वन्तो बिले तत्र महा प्रभाः ॥३८॥

ददृशुः वानराः शूराः स्त्रियम् कांचित् अदूरतः । ताम् च ते ददृशुः तत्र चीर कृष्ण अजिन अम्बराम् ॥३९॥

तापसीम् नियत आहाराम् ज्वलंतीम् इव तेजसा । विस्मिता हरयः तत्र व्यवतिष्टन्त सर्वशः । प्रपच्छ हनुमान् तत्र का असि त्वम् कस्य वा बिलम् ॥४०॥

ततो हनूमान् गिरि सन्निकाशः कृत अंजलिः ताम् अभिवाद्य वृद्धाम् । पप्रच्छ का त्वम् भवनम् बिलम् च रत्नानि च इमानि वदस्व कस्य ॥४१॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे पंचाशः सर्गः ॥

Listen to the sarga
0:00