रामायणम्

पंचाशः सर्गः 4.51

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

इति उक्त्वा हनुमान् तत्र पुनः कृष्ण अजिन अंबराम् । अब्रवीत् ताम् महाभागाम् तापसीम् धर्म चारिणीम् ॥१॥

इदम् प्रविष्टाः सहसा बिलम् तिमिर संवृतम् । क्षुत् पिपासा परिश्रांताः परिखिन्नाः च सर्वशः ॥२॥

महत् धरण्या विवरम् प्रविष्टाः स्म पिपासिताः । इमाम् तु एवम् विधान् भावान् विविधान् अद्भुत उपमान् ॥३॥

दृष्ट्वा वयम् प्रव्यथिताः संभ्रांता नष्ट चेतसः । कस्य एते कांचना वृक्षाः तरुण आदित्य सन्निभाः ॥४॥

शुचीनि अभ्यवहार्याणि मूलानि च फलानि च । कांचनानि विमानानि राजतानि गृहाणि च ॥५॥

तपनीय गव अक्षाणि मणि जाल आवृतानि च । पुष्पिताः फालवन्तः च पुण्याः सुरभि गन्धयः ॥६॥

इमे जांबूनदमयाः पादपाः कस्य तेजसा । कांचनानि च पद्मानि जातानि विमले जले ॥७॥

कथम् मत्स्याः च सौवर्णा दृश्यन्ते सह कच्छपैः । आत्मानः अनुभावात् वा कस्य वै एतत् तपो बलम् ॥८॥

अजानताम् नः सर्वेषाम् सर्वम् आख्यातुम् अर्हसि । एवम् उक्ता हनुमता तापसी धर्म चारिणी ॥९॥

प्रति उवाच हनूमंतम् सर्व भूत हिते रता । मयो नाम महातेजा मायावी दानवर्षभः ॥१०॥

तेन इदम् निर्मितम् सर्वम् मायया कांचनम् वनम् । पुरा दानव मुख्यानाम् विश्वकर्मा बभूव ह ॥११॥

येन इदम् कांचनम् दिव्यम् निर्मितम् भवन उत्तमम् । स तु वर्ष सहस्राणि तपः तप्त्वा महत् वने ॥१२॥

पितामहात् वरम् लेभे सर्वम् औशसनम् धनम् । ओर् विधाय सर्वम् बलवान् सर्व काम ईश्वरः तदा ॥१३॥

उवास सुखितः कालम् कंचित् अस्मिन् महावने । तम् अप्सरसि हेमायाम् सक्तम् दानव पुंगवम् ॥१४॥

विक्रम्य एव अशनिम् गृह्य जघान ईशः पुरंदरः । इदम् च ब्रह्मणा दत्तम् हेमायै वनम् उत्तमम् ॥१५॥

शाश्वतः काम भोगः च गृहम् च इदम् हिरण्मयम् । दुहिता मेरुसावर्णेः अहम् तस्याः स्वयंप्रभा ॥१६॥

इदम् रक्षामि भवनम् हेमाया वानरोत्तम । मम प्रिय सखी हेमा नृत्त गीत विशारदा ॥१७॥

तया दत्त वरा च अस्मि रक्षामि भवनम् महान् । किम् कार्यम् कस्य वा हेतोः कांताराणि प्रपद्यथ ॥१८॥

कथम् च इदम् वनम् दुर्गम् युष्माभिः उपलक्षितम् । शुचीनि अभ्यवहार्याणि मूलानि च फलानि च । भुक्त्वा पीत्वा च पानीयम् सर्वम् मे वक्तुम् अर्हथ ॥१९॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे एक पंचाशः सर्गः ॥

Listen to the sarga
0:00