अथ तान् अब्रवीत् सर्वान् विश्रांतान् हरि यूथपान् । इदम् वचनम् एकाग्रा तापसी धर्म चारिणी ॥१॥
पंचाशः सर्गः 4.52
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
वानरा यदि वः खेदः प्रनष्टः फल भक्षणात् । यदि च एतत् मया श्राव्यम् श्रोतुम् इच्छामि कथताम् ॥२॥
तस्याः तत् वचनम् श्रुत्वा हनुमान् मारुत आत्मजः । आर्जवेन यथा तत्त्वम् आख्यातुम् उपचक्रमे ॥३॥
राजा सर्वस्य लोकस्य महेन्द्र वरुण उपमः । रामो दाशरथिः श्रीमान् प्रविष्टो दण्डका वनम् ॥४॥
लक्ष्मणेन सह भ्रात्रा वैदेह्या च अपि भार्यया । तस्य भार्या जनस्थानात् रावणेन हृता बलात् ॥५॥
वीरः तस्य सखा राज्ञः सुग्रीवो नाम वानरः । राजा वानर मुख्यानाम् येन प्रस्थापिता वयम् ॥६॥
अगस्त्य चरिताम् आशाम् दक्षिणाम् यम रक्षिताम् । सहैभिर्वानरैमुख्यैरङ्गदप्रमुखैर्वयम् - यद्वा - सह एभिः वानरैः मुख्यैः अंगद प्रमुखैः वयम् ॥७॥
रावणम् सहिताः सर्वे राक्षसम् काम रूपिणम् । सीतया सह वैदेह्या मार्गध्वम् इति चोदिताः ॥८॥
विचित्य तु वयम् सर्वे समग्रम् - समुद्रम् - दक्षिणाम् दिशम् । वयम् बुभुक्षिताः सर्वे वृक्ष मूलम् उपाश्रिताः ॥९॥
विवर्ण वदनाः सर्वे सर्वे ध्यान परायणाः । न अधिगच्छामहे पारम् मग्नाः चिन्ता महाअर्णवे ॥१०॥
चारयन्तः ततः चक्षुः दृष्टवन्तो महद् बिलम् । लता पादप संछन्नम् तिमिरेण समावृतम् ॥११॥
अस्मात् हंसा जल क्लिन्नाः पक्षैः सलिल रेणुभिः । कुरराः सारसाः चैव निष्पतन्ति पतत्रिणः ॥१२॥
साधु अत्र प्रविशाम इति मया तु उक्ताः प्लवंगमाः । तेषाम् अपि हि सर्वेषाम् अनुमानम् उपागतम् ॥१३॥
अस्मिन् निपतिताः सर्वे अपि अथ कार्य त्वरान्विताः । ततो गाढम् निपतिता गृह्य हस्तौ परस्परम् ॥१४॥
इदम् प्रविष्टाः सहसा बिलम् तिमिर संवृतम् । एतत् नः कार्यम् एतेन कृत्येन वयम् आगताः ॥१५॥
त्वाम् च एव उपगताः सर्वे परिद्यूना बुभुक्षिताः । आतिथ्य धर्म दत्तानि मूलानि च फलानि च ॥१६॥
अस्माभिः उपभुक्तानि बुभुक्षा परिपीडितैः । यत् त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया ॥१७॥
ब्रूहि प्रत्युपकार अर्थम् किम् ते कुर्वन्तु वानराः । एवम् उक्ता तु सर्वज्ञा वानरैः तैः स्वयंप्रभा ॥१८॥
प्रत्युवाच ततः सर्वान् इदम् वानर यूथपान् । सर्वेषाम् परितुष्टा अस्मि वानराणाम् तरस्विनाम् ॥१९॥
चरंत्या मम धर्मेण न कार्यम् इह केनचित् । एवम् उक्तः शुभम् वाक्यम् तापस्या धर्म संहितम् ॥२०॥
उवाच हनुमान् वाक्यम् ताम् अनिन्दित लोचनाम् । शरणम् त्वाम् प्रपन्नाः स्मः सर्वे वै धर्मचारिणिम् ॥२१॥
यः कृतः समयो अस्माकम् सुग्रीवेण महात्मना । स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम् ॥२२॥
सा त्वम् अस्मात् बिलात् अस्मान् उत्तारयितुम् अर्हसि । तस्मात् सुग्रीव वचनात् अतिक्रान्तान् गत आयुषः ॥२३॥
त्रातुम् अर्हसि नः सर्वान् सुग्रीव भय शन्कितान् । महत् च कार्यम् अस्माभिः कर्तव्यम् धर्मचारिणि ॥२४॥
तत् च अपि न कृतम् कार्यम् अस्माभिः इह वासिभिः । एवम् उक्ता हनुमता तापसी वाक्यम् अब्रवीत् ॥२५॥
जीवता दुष्करम् मन्ये प्रविष्टेन निवर्तितुम् । तपसः सुप्रभावेन नियम उपार्जितेन च ॥२६॥
सर्वान् एव बिलात् अस्मात् तारयिष्यामि वानरान् । निमीलयत चक्षून्षि सर्वे वानर पुंगवाः ॥२७॥
न हि निष्क्रमितुम् शक्यम् अनिमीलित लोचनैः । ततो निमीलिताः सर्वे सुकुमार अंगुलैः करैः ॥२८॥
सहसा पिदधुः दृष्टिम् हृष्टा गमन कान्क्षिणः । वानराः तु महात्मानो हस्त रुद्ध मुखाः तदा ॥२९॥
निमेष अन्तर मात्रेण बिलात् उत्तारिताः तथा । उवाच सर्वान् तान् तत्र तापसी धर्म चारिणी ॥३०॥
निःसृतान् विषमात् तस्मात् समाश्वास्य इदम् अब्रवीत् । एष विन्ध्यो गिरिः श्रीमान् नाना द्रुम लता आयुतः ॥३१॥
एष प्रसवणः शैलः सागरो अयम् महा उदधिः । स्वस्ति वो अस्तु गमिष्यामि भवनम् वानरर्षभाः । इति उक्त्वा तत् बिलम् श्रीमत् प्रविवेश स्वयम्प्रभा ॥३२॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे द्वि पंचाशः सर्गः ॥