रामायणम्

पंचाशः सर्गः 4.53

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

ततः ते ददृशुः घोरम् सागरम् वरुण आलयम् । अपारम् अभिगर्जन्तम् घोरैः ऊर्मिभिः आकुलम् ॥१॥

मयस्य माया विहितम् गिरि दुर्गम् विचिन्वताम् । तेषाम् मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः ॥२॥

विन्ध्यस्य तु गिरेः पादे संप्रपुष्पित पादपे । उपविश्य महात्मानः चिन्ताम् आपेदिरे तदा ॥३॥

ततः पुष्पातिभाराग्राँल्ल्ताशतसमावृतान् -यद्वा - ततः पुष्प अतिभार अग्रान् लता शत समावृतान् । द्रुमान् वासन्तिकान् दृष्ट्वा बभूवुः भय शन्किताः ॥४॥

4.53.4 #31bb5158a007 timing uncertain

ते वसंतम् अनुप्राप्तम् प्रतिवेद्य परस्परम् । नष्ट संदेश काल अर्था निपेतुर् धरणी तले ॥५॥

ततः तान् कपि वृद्धान् च शिष्टान् चैव वनौकसः । वाचा मधुरया अभाष्य यथावत् अनुमान्य च ॥६॥

स तु सिंह ऋषभ स्कंधः पीन आयत भुजः कपिः । युवराजो महाप्राज्ञ अंगदो वाक्यम् अब्रवीत् ॥७॥

शासनात् कपि राजस्य वयम् सर्वे विनिर्गताः । मासः पूर्णो बिलस्थानाम् हरयः किम् न बुध्यते ॥८॥

वयम् आश्वयुजे मासि काल संख्या व्यवस्थिताः । प्रस्थिताः सो अपि च अतीतः किम् अतः कार्यम् उत्तरम् ॥९॥

भवन्त प्रत्ययम् प्राप्ता नीति मार्ग विशारदाः । हितेषु अभिरता भर्त्तुः निसृष्टाः सर्व कर्मसु ॥१०॥

कर्मसु अप्रतिमाः सर्वे दिक्षु विश्रुत पौरुषाः । माम् पुरस्कृत्य निर्याताः पिन्गाक्ष प्रतिचोदिताः ॥११॥

इदानीम् अकृत अर्थानाम् मर्तव्यम् न अत्र संशयः । हरि राजस्य संदेशम् अकृत्वा कः सुखी भवेत् ॥१२॥

आस्मिन् अतीते काले तु सुग्रीवेण कृते स्वयम् । प्रायोपवेशनम् युक्तम् सर्वेषाम् च वन ओकसाम् ॥१३॥

तीक्ष्णः प्रकृत्या सुग्रीवः स्वामि भावे व्यवस्थितः । न क्षमिष्यति नः सर्वान् अपराध कृतो गतान् ॥१४॥

अप्रवृत्तौ च सीतायाः पापम् एव करिष्यति । तस्मात् क्षमम् इह अद्य एव गंतुम् प्रायोपविशनम् ॥१५॥

त्यक्त्वा पुत्रन् च दारान् च धनानि च गृहाणि च । ध्रुवम् नः हिंसते राजा सर्वान् प्रतिगतान् इतः ॥१६॥

वधेन अप्रतिरूपेण श्रेयान् मृत्युः इह एव नः । न च अहम् यौवराज्येन सुग्रीवेण अभिषेचितः ॥१७॥

नरेन्द्रेण अभिषिक्तो अस्मि रामेण अक्लिष्ट कर्मणा । स पूर्वम् बद्ध वैरो माम् राजा दृष्ट्वा व्यतिक्रमम् ॥१८॥

घातयिष्यति दण्डेन तीक्ष्णेन कृत निश्चयः । किम् मे सुहृद्भिः व्यसनम् पश्यद्भिः जीवितांतरे । इह एव प्रायम् आसिष्ये पुण्ये सागर रोधसि ॥१९॥

एतत् श्रुत्वा कुमारेण युव राजेन भाषितम् । सर्वे ते वानर श्रेष्ठाः करुणम् वाक्यम् अब्रुवन् ॥२०॥

तीक्ष्णः प्रकृत्या सुग्रीवः प्रिया रक्तः च राघवः । समीक्ष्य अकृत कार्यान् तु तस्मिन् च समये गते ॥२१॥

अदृष्टायाम् च वैदेह्याम् दृष्ट्वा चैव समागतान् । राघव प्रिय कामाय घातयिष्यति असंशयम् ॥२२॥

न क्षमम् च अपराद्धानाम् गमनम् स्वामि पार्श्वतः । प्रधानबूताः च वयम् सुग्रीवस्य समागताः ॥२३॥

इह एव सीताम् अन्वीक्ष्य प्रवृत्तिम् उपलभ्य वा । नः चेत् गच्छाम तम् वीरम् गमिष्यामो यम क्षयम् ॥२४॥

प्लवंगमानाम् तु भय अर्दितानाम् श्रुत्वा वचः तार इदम् बभाषे । अलम् विषादेन बिलम् प्रविश्य वसाम सर्वे यदि रोचते वः ॥२५॥

इदम् हि माया विहितम् सुदुर्गमम् प्रभूत वृक्ष उदक भोज्य पेयम् । इह अस्ति नः न एव भयम् पुरंदरात् न राघवात् वानर राजतो अपि वा ॥२६॥

श्रुत्वा अंगदस्य अपि वचो अनुकूलम् ऊचुः च सर्वे हरयः प्रतीताः । यथा न हन्येम तथा विधानम् असक्तम् अद्य एव विधीयताम् नः ॥२७॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे त्रि पंचाशः सर्गः ॥

Listen to the sarga
0:00