तथा ब्रुवति तारे तु तारा अधिपति वर्चसि । अथ मेने हृतम् राज्यम् हनुमान् अंगदेन तत् ॥१॥
पंचाशः सर्गः 4.54
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
बुद्ध्या हि अष्ट अंगया युक्तम् चतुर् बल समन्वितम् । चतुर् दश गुणम् मेने हनुमान् वालिनः सुतम् ॥२॥
आपूर्यमाणम् शश्वत् च तेजो बल पराक्रमैः । शशिनम् शुक्ल पक्ष आदौ वर्धमानम् इव श्रिया ॥३॥
बृहस्पति समम् बुद्ध्या विक्रमे सदृशम् पितुः । शुश्रूषमाणम् तारस्य शुक्रस्य इव पुरंदरम् ॥४॥
भर्तुः अर्थे परिश्रान्तम् सर्व शास्त्र विशारदः । अभिसंधातुम् आरेभे हनुमान् अंगदम् ततः ॥५॥
स चतुर्णाम् उपायानाम् तृतीयम् उपवर्णयन् । भेदयामास तान् सर्वान् वानरान् वाक्य संपदा ॥६॥
तेषु सर्वेषु भिन्नेषु ततो अभीषय अंगदम् । भीषणैः विविधैः वाक्यैः कोप उपाय समन्वितैः ॥७॥
त्वम् समर्थ तरः पित्रा युद्धे तारेय वै ध्रुवम् । दृढम् धारयितुम् शक्तः कपि राज्यम् यथा पिता ॥८॥
नित्यम् अस्थिर चित्ता हि कपयो हरि पुंगव । न आज्ञाप्यम् विषहिष्यन्ति पुत्र दारान् विना त्वया ॥९॥
त्वाम् न एते हि अनुयुंजेयुः प्रत्यक्षम् प्रवदामि ते । यथा अयम् जांबवान् नीलः सुहोत्रः च महाकपिः ॥१०॥
न हि अहम् ते इमे सर्वे साम दान आदिभिः गुणैः । दण्डेन न त्वया शक्याः सुग्रीवात् अपकर्षितुम् ॥११॥
विगृह्य आसनम् अपि आहुः दुर्बलेन बलीयसा । आत्म रक्षा करः तस्मात् न विगृह्णीत दुर्बलः ॥१२॥
याम् च इमाम् मन्यसे धात्रीम् एतत् बिलम् इति श्रुतम् । एतत् लक्ष्मण बाणानाम् ईषत् कार्यम् विदारणे ॥१३॥
स्वल्पम् हि कृतम् इन्द्रेण क्षिपता हि अशनिम् पुरा । लक्ष्मणो निशितैः बाणैः भिन्द्यात् पत्र पुटम् यथा ॥१४॥
लक्ष्मणस्य च नाराचा बहवः सन्ति तत् विधाः । वज्र अशनि सम स्पर्शा गिरीणाम् अपि दारकाः ॥१५॥
अवस्थाने यदा एव त्वम् आसिष्यसि परंतप । तदा एव हरयः सर्वे त्यक्ष्यन्ति कृत निश्चयाः ॥१६॥
स्मरंतः पुत्र दाराणाम् नित्य उद्विग्ना बुभुक्षिताः । खेदिता दुःख शय्याभिः त्वाम् करिष्यन्ति पृष्ठतः ॥१७॥
स त्वम् हीनः सुहृद्भिः च हित कामैः च बंधुभिः । तृणात् अपि भृश उद्विग्नः स्पंदमानात् भविष्यसि ॥१८॥
अति उग्र वेगा निशिता घोरा लक्ष्मण सायकाः । अपवृत्तम् जिघांसन्तो महावेगा दुरासदाः ॥१९॥
अस्माभिः तु गतम् सार्धम् विनीतवत् उपस्थितम् । आनुपूर्व्यात् तु सुग्रीवो राज्ये त्वाम् स्थापयिष्यति ॥२०॥
धर्म राजः पितृव्यः ते प्रीति कामो दृढ व्रतः । शुचिः सत्य प्रतिज्ञः च स त्वाम् जातु न नाशयेत् ॥२१॥
प्रिय कामः च ते मातुः तत् अर्थम् च अस्य जीवितम् । तस्य अपत्यम् च न अस्ति अन्यत् तस्मात् अंगद गम्यताम् ॥२२॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे चतुः पंचाशः सर्गः ॥