रामायणम्

पंचाशः सर्गः 4.55

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

श्रुत्वा हनुमतो वाक्यम् प्रश्रितम् धर्म संहितम् । स्वामि सत्कार संयुक्तम् अंगदो वाक्यम् अब्रवीत् ॥१॥

स्थैर्यमात्ममनःशौचमानृशंस्यमथाअर्जवम् - यद्व - स्थैर्यम् आत्म मनः शौचम् आनृशंस्यम् अथ आर्जवम् । विक्रमः चैव धैर्यम् च सुग्रीवे न उपपद्यते ॥२॥

भ्रातुः ज्येष्ठस्य यो भार्याम् जीवितो महिषीम् प्रियाम् । धर्मेण मातरम् यः तु स्वीकरोति जुगुप्सितः ॥३॥

कथम् स धर्मम् जानीते येन भ्रात्रा दुरात्मना । युद्धाय अभिनियुक्तेन बिलस्य पिहितम् मुखम् ॥४॥

सत्यात् पाणि गृहीतः च कृत कर्मा महायशाः । विस्मृतो राघवो येन स कस्य सुकृतम् स्मरेत् ॥५॥

लक्ष्मणस्य भयेन इह न अधर्म भय भीरुणा । आदिष्टा मार्गितुम् सीताम् धर्मः तस्मिन् कथम् भवेत् ॥६॥

तस्मिन् पापे कृतघ्ने तु स्मृति भिन्ने चल आत्मनि । आर्यः को विश्वसेत् जातु तत् कुलीनो विशेषतः ॥७॥

राज्ये पुत्रः प्रतिष्ठाप्यः स गुणो निर्गुणो अपि वा । कथम् शत्रु कुलीनम् माम् सुग्रीवो जीवयिष्यति ॥८॥

भिन्न मन्त्रो अपराद्धः च हीन शक्तिः कथम् हि अहम् । किष्किन्धाम् प्राप्य जीवेयम् अनाथ इव दुर्बलः ॥९॥

उपांशु दण्डेन हि माम् बंधनेन उपपादयेत् । शठः क्रूरो नृशंसः च सुग्रीवो राज्य कारणात् ॥१०॥

बंधनात् च अवसादात् मे श्रेयः प्रायोपवेशनम् । अनुजानंतु माम् सर्वे गृहम् गच्छंतु वानराः ॥११॥

अहम् वः प्रतिजानामि न गमिष्यामि अहम् पुरीम् । इह एव प्रायम् आसिष्ये श्रेयो मरणम् एव मे ॥१२॥

अभिवादन पूर्वम् तु राजा कुशलम् एव च । अभिवादन पूर्वम् तु राघवौ बलशालिनौ ॥१३॥

वाच्यः तातः यवीयान् मे सुग्रीवो वानर ईश्वरः । आरोग्य पूर्वम् कुशलम् वाच्या माता रुमा च मे ॥१४॥

मातरम् चैव मे ताराम् आश्वासयितुम् अर्हथ । प्रकृत्या प्रिय पुत्रा सा सानुक्रोशा तपस्विनी ॥१५॥

विनष्टम् माम् इह श्रुत्वा व्यक्तम् हास्यति जीवितम् । एतावत् उक्त्वा वचनम् वृद्धान् तान् अभिवाद्य च ॥१६॥

विवेश अंगदो भूमौ रुदन् दर्भेषु दुर्मनाः । तस्य संविशतः तत्र रुदन्तो वानर ऋषभाः ॥१७॥

नयनेभ्यः प्रमुमुचुः उष्णम् वै वारि दुःखिताः । सुग्रीवम् चैव निन्दन्तः प्रशंसन्तः च वालिनम् ॥१८॥

परिवार्य अंगदम् सर्वे व्यवस्यन् प्रायम् आसितुम् । तत् वाक्यम् वालि पुत्रस्य विज्ञाय प्लवग ऋषभाः ॥१९॥

उपस्पृश्य उदकम् सर्वे प्राक् मुखाः समुपाविशन् । दक्षिण अग्रेषु दर्भेषु उदक् तीरम् समाश्रिताः ॥२०॥

मुमूर्षवओ हरिश्रेष्टा एतत् क्षमम् इति स्म ह । रामस्य वन वासम् च क्षयम् दशरथस्य च ॥२१॥

जनस्थान वधम् चैव वधम् चैव जटायुषः । हरणम् चैव वैदेह्या वालिनः च वधम् तथा । राम कोपम् च वदताम् हरीणाम् भयम् आगतः ॥२२॥

स संविशद्भिः बहुभिः महीधरो महाअद्रि कूट प्रमितैः प्लवंगमैः । बभूव सन्नादित निर्दर अन्तरो भृशम् नदद्भिः जलदैः इव अंबरम् ॥२३॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे पंच पंचाशः सर्गः ॥

Listen to the sarga
0:00