उपविष्टाः तु ते सर्वे यस्मिन् प्रायम् गिरि स्थले । हरयो गृध्र राजः च तम् देशम् उपचक्रमे ॥१॥
पंचाशः सर्गः 4.56
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
सांपातिः नाम नाम्ना तु चिर जीवी विहंगमः । भ्राता जटायुषः श्रीमान् प्रख्यात बल पौरुषः ॥२॥
कंदरात् अभिनिष्क्रम्य स विन्ध्यस्य महागिरेः । उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरम् अब्रवीत् ॥३॥
विधिः किल नरम् लोके विधानेन अनुवर्तते । यथा अयम् विहितो भक्ष्यः चिरात् मह्यम् उपागतः ॥४॥
परंपराणाम् भक्षिष्ये वानराणाम् मृतम् मृतम् । उवाच एतत् वचः पक्षी तान् निरीक्ष्य प्लवंगमान् ॥५॥
तस्य तत् वचनम् श्रुत्वा भक्ष लुब्धस्य पक्षिणः । अंगदः परम् आयस्तो हनूमंतम् अथ अब्रवीत् ॥६॥
पश्य सीता - गृध्रा - अपदेशेन साक्षात् वैवस्वतो यमः । इमम् देशम् अनुप्राप्तो वानराणाम् विपत्तये ॥७॥
रामस्य न कृतम् कार्यम् न कृतम् राज शाशनम् । हरीणाम् इयम् अज्ञाता विपत्तिः सहसा आगता ॥८॥
वैदेह्याः प्रिय कामेन कृतम् कर्म जटायुषा । गृध्र राजेन यत् तत्र श्रुतम् वः तत् अशेषतः ॥९॥
तथा सर्वाणि भूतानि तिर्यक् योनि गतानि अपि । प्रियम् कुर्वन्ति रामस्य त्यक्त्वा प्राणान् यथा वयम् ॥१०॥
अन्योन्यम् उपकुर्वन्ति स्नेह कारुण्य यन्त्रिताः । ततः तस्य उपकार अर्थम् त्यजत आत्मानम् आत्मना ॥११॥
प्रियम् कृत्वा हि रामस्य धर्मज्ञेन जटायुषा । राघव अर्थे परिश्रान्ता वयम् संत्यक्त जीविताः ॥१२॥
कांताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम् । स सुखी गृध्र राजः तु रावणेन हतो रणे । मुक्तः च सुग्रीव भयात् गतः च परमाम् गतिम् ॥१३॥
जटायुषो विनाशेन राज्ञो दशरथस्य च । हरणेन च वैदेह्याः संशयम् हरयो गताः ॥१४॥
राम लक्ष्मणयोः वासाम् अरण्ये सह सीतया । राघवस्य च बाणेन वालिनः च तथा वधः ॥१५॥
राम कोपात् अशेषाणाम् राक्षसाम् च तथा वधम् । कैकेय्या वर दानेन इदम् च विकृतम् कृतम् ॥१६॥
तत् असुखम् अनुकीर्तितम् वचो भुवि पतितान् च निरीक्ष्य वानरान् । भृश चकित मतिः महामतिः कृपणम् उदाहृतवान् स गृध्रराजः ॥१७॥
तत् तु श्रुत्वा तदा वाक्यम् अंगदस्य मुख उद्गतम् । अब्रवीत् वचनम् गृध्रः तीक्ष्ण तुण्डो महास्वनः ॥१८॥
को अयम् गिरा घोषयति प्राणैः प्रियतरस्य मे । जटायुषो वधम् भ्रातुः कंपयन् इव मे मनः ॥१९॥
कथम् आसीत् जनस्थाने युद्धम् राक्षस गृध्रयोः । नामधेयम् इदम् भ्रातुः चिरस्य अद्य मया श्रुतम् ॥२०॥
इच्छेयम् गिरि दुर्गात् च भवद्भिः अवतारितुम् । यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः ॥२१॥
अति दीर्घस्य कालस्य परितुष्टो अस्मि कीर्तितनात् । तत् इच्छेयम् अहम् श्रोतुम् विनाशम् वानर ऋषभाः ॥२२॥
भ्रातुः जटायुषः तस्य जनस्थान निवासिनः । तस्य एव च मम भ्रातुः सखा दशरथः कथम् ॥२३॥
यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरु जन प्रियः । सूर्य अंशु दग्ध पक्षत्वात् न शक्नोमि विसर्पितुम् । इच्छेयम् पर्वतात् अस्मात् अवतर्तुम् अरिन्दमाः ॥२४॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे षट् पंचाशः सर्गः ॥