शोकात् भ्रष्ट स्वरम् अपि श्रुत्वा ते हरि यूथपाः । श्रद्दधुः न एव तत् वाक्यम् कर्मणा तस्य शन्किताः ॥१॥
पंचाशः सर्गः 4.57
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
ते प्रायम् उपविष्टाः तु दृष्ट्वा गृध्रम् प्लवंगमाः । चक्रुः बुद्धिम् तदा रौद्राम् सर्वान् नः भक्षयिष्यति ॥२॥
सर्वथा प्रायम् आसीनान् यदि नः भक्षयिष्यति । कृत कृत्या भविष्यामः क्षिप्रम् सिद्धिम् इतो गताः ॥३॥
एताम् बुद्धिम् ततः चक्रुः सर्वे ते हरि यूथपाः । अवतार्य गिरेः शृंगात् गृध्रम् आह अंगदः तदा ॥४॥
बभूवुः ऋक्षरजो नाम वानरेन्द्रः प्रतापवान् । मम आर्यः पार्थिवः पक्षिन् धार्मिकौ तस्य च आत्मजौ ॥५॥
सुग्रीवः चैव वली च पुत्रौ घन बलौ उभौ । लोके विश्रुत कर्मा अभूत् राजा वाली पिता मम ॥६॥
राजा कृत्स्नस्य जगतः इक्ष्वाकूणाम् महारथः । रामो दाशरथिः श्रीमान् प्रविष्टो दण्डका वनम् ॥७॥
लक्ष्मणेन सह भ्रात्रा वैदेह्या च अपि भार्यया । पितुः निदेश निरतो धर्मम् पन्थानम् आश्रितः ॥८॥
तस्य भार्या जनस्थानात् रावणेन हृता बलात् । रामस्य च पितुः मित्रम् जटायुः नाम गृध्र राट् ॥९॥
ददर्श सीताम् वैदेहीम् ह्रियमाणाम् विहायसा । रावणम् विरथम् कृत्वा स्थापयित्वा च मैथिलीम् । परिश्रान्तः च वृद्धः च रावणेन हतो रणे ॥१०॥
एवम् गृध्रो हतः तेन रावणेन बलीयसा । संस्कृतः च अपि रामेण गतः च गतिम् उत्तमाम् ॥११॥
ततो मम पितृव्येण सुग्रीवेण महात्मना । चकार राघवः सख्यम् सः अवधीत् पितरम् मम ॥१२॥
मम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह । निहत्य वालिनम् रामः ततः तम् अभिषेचयत् ॥१३॥
स राज्ये स्थापितः तेन सुग्रीवो वानरेश्वरः । राजा वानर मुख्यानाम् तेन प्रस्थापिता वयम् ॥१४॥
एवम् राम प्रयुक्ताः तु मार्गमाणाः ततः ततः । वैदेहीम् न अधिगच्छामो रात्रौ सूर्य प्रभाम् इव ॥१५॥
ते वयम् दण्दकारण्यम् विचित्य सुसमाहिताः । अज्ञानात् तु प्रविष्टाः स्म धरण्या विवृतम् बिलम् ॥१६॥
मयस्य माया विहितम् तत् बिलम् च विचिन्वताम् । व्यतीतः तत्र नः मासः यः राज्ञा समयः कृतः ॥१७॥
ते वयम् कपि राजस्य सर्वे वचन कारिणः । कृताम् संस्थाम् अतिक्रान्ता भयात् प्रायम् उपासिताः ॥१८॥
क्रुद्धे तस्मिन् तु काकुत्स्थे सुग्रीवे च स लक्ष्मणे । गतानाम् अपि सर्वेषाम् तत्र नः न अस्ति जीवितम् ॥१९॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे सप्त पंचाशः सर्गः ॥