इति उक्तः करुणम् वाक्यम् वानरैः त्यक्त जीवितैः । स बाष्पो वानरान् गृध्रः प्रत्युवाच महास्वनः ॥१॥
पंचाशः सर्गः 4.58
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
यवीयान् मम स भ्राता जटायुः नाम वानराः । यम् आख्यात हतम् युद्धे रावणेन बलीयसा ॥२॥
वृद्ध भावात् अपक्षत्वात् शृण्वन् तत् अपि मर्षये । न हि मे शक्तिः अद्य अस्ति भ्रातुः वैर विमोक्षणे ॥३॥
पुरा वृत्र वधे वृत्ते स च अहम् च जय एषिणौ । आदित्यम् उपयातौ स्वो ज्वलंतम् रश्मि मालिनम् ॥४॥
आवृत्य आकाश मार्गेण जवेन स्वर् गतौ भृशम् । मध्यम् प्राप्ते च सूर्ये च जटायुः अवसीदति ॥५॥
तम् अहम् भ्रातरम् दृष्ट्वा सूर्य रश्मिभिः अर्दितम् । पक्षाभ्यम् छादयामास स्नेहात् परम विह्वलम् ॥६॥
निर्दग्ध पत्रः पतितो विन्ध्ये अहम् वानरर्षभाः । अहम् अस्मिन् वसन् भ्रातुः प्रवृत्तिम् न उपलक्षये ॥७॥
जटायुषः तु एवम् उक्तो भ्रात्रा सम्पातिना तदा । युव राजो महाप्राज्ञः प्रत्युवाच अंगदः तदा ॥८॥
जटायुषो यदि भ्राता श्रुतम् ते गदितम् मया । आख्याहि यदि जानासि निलयम् तस्य रक्षसः ॥९॥
अदीर्घ दर्शिनम् तम् वा रावणम् राक्षसाधिपम् । अन्तिके यदि वा दूरे यदि जानासि शंस नः ॥१०॥
ततो अब्रवीत् महातेजा भ्राता ज्येष्ठो जटायुषः । आत्म अनुरूपम् वचनम् वानरान् संप्रहर्षयन् ॥११॥
निर्दग्ध पक्षो गृध्रो अहम् गत वीर्यः प्लवम् गमाः । वाङ् मात्रेण तु रामस्य करिष्ये साह्यम् उत्तमम् ॥१२॥
जानामि वारुणान् लोकान् विष्णोः त्रैविक्रमान् अपि । देव असुर विमर्दाम् च हि अमृतस्य च मंथनम् ॥१३॥
रामस्य यत् इदम् कार्यम् कर्तव्यम् प्रथमम् मया । जरया च हतम् तेजः प्राणाः च शिथिला मम ॥१४॥
तरुणी रूप संपन्ना सर्व आभरण भूषिता । ह्रियमाणा मया दृष्टा रावणेन दुरात्मना ॥१५॥
क्रोशन्ती राम राम इति लक्ष्मण इति च भामिनी । भूषणानि अपविध्यन्ती गात्राणि च विधुन्वती ॥१६॥
सूर्य प्रभा इव शैल अग्रे तस्याः कौशेयम् उत्तमम् । असिते राक्षसे भाति यथा वा तडित् अंबुदे ॥१७॥
ताम् तु सीताम् अहम् मन्ये रामस्य परिकीर्तनात् । श्रूयताम् मे कथयतो निलयम् तस्य रक्षसः ॥१८॥
पुत्रो विश्रवसः साक्षात् भ्राता वैश्रवणस्य च । अध्यास्ते नगरीम् लंकाम् रावणो नाम राक्षसः ॥१९॥
इतो द्वीपे समुद्रस्य संपूर्णे शत योजने । तस्मिन् लंका पुरी रम्या निर्मिता विश्वकर्मणा ॥२०॥
जांबूनदमयैः द्वारैः चित्रैः कांचन वेदिकैः । प्रासादैः हेम वर्णैः च महद्भिः सुसमाकृता ॥२१॥
प्राकारेण अर्क वर्णेन महता च समन्विता । तस्याम् वसति वैदेही दीना कौशेय वासिनी ॥२२॥
रावण अन्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता । जनकस्य आत्मजाम् राज्ञः तस्याम् द्रक्ष्यथ मैथिलीम् ॥२३॥
लंकायाम् अथ गुप्तायाम् सागरेण समंततः । संप्राप्य सागरस्य अंतम् संपूर्णम् शत योजनम् ॥२४॥
आसाद्य दक्षिणम् तीरम् ततो द्रक्ष्यथ रावणम् । तत्र एव त्वरिताः क्षिप्रम् विक्रमध्वम् प्लवंगमाः ॥२५॥
ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ । आद्यः पंथाः कुलिंगानाम् ये च अन्ये धान्य जीविनः ॥२६॥
द्वितीयो बलि भोजानाम् ये च वृक्ष फल अशिनः । भासाः तृतीयम् गच्छन्ति क्रौन्चाः च कुररैः सह ॥२७॥
श्येनाः चतुर्थम् गच्छन्ति गृध्रा गच्छन्ति पंचमम् । बल वीर्य उपपन्नानाम् रूप यौवन शालिनाम् ॥२८॥
षष्ठः तु पन्था हंसानाम् वैनतेय गतिः परा । वैनतेयात् च नः जन्म सर्वेषाम् वानरर्षभाः ॥२९॥
गर्हितम् तु कृतम् कर्म येन स्म पिशित अशनाः । प्रतिकार्यम् च मे तस्य वैरम् भ्रातृ कृतम् भवेत् ॥३०॥
इह स्थः अहम् प्रपश्यामि रावणम् जानकीम् तथा । अस्माकम् अपि सौपर्णम् दिव्यम् चक्षुर् बलम् तथा ॥३१॥
तस्मात् आहार वीर्येण निसर्गेण च वानराः । आयोजन शतात् साग्रात् वयम् पश्याम नित्यशः ॥३२॥
अस्माकम् विहिता वृत्तिः निसार्गेण च दूरतः । विहिता पाद मूले तु वृत्तिः चरण योधिनाम् ॥३३॥
उपायो दृश्यताम् कश्चित् लंघने लवण अंभसः । अभिगम्य तु वैदेहीम् समृद्ध अर्था गमिष्यथ ॥३४॥
समुद्रम् नेतुम् इच्छामि भवद्भिः वरुण आलयम् । प्रदास्यामि उदकम् भ्रातुः स्वर् गतस्य महात्मनः ॥३५॥
ततो नीत्वा तु तम् देशम् तीरे नद नदी पतेः । निर्दग्ध पक्षम् संपातिम् वानराः सुमहौओजसः ॥३६॥
तम् पुनः प्रत्यानयित्वा वै तम् देशम् पतग ईश्वरम् । बभूवुः वानरा हृष्टाः प्रवृत्तिम् उपलभ्य ते ॥३७॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे अष्ट पंचाशः सर्गः ॥