ततः तत् अमृत आस्वादम् गृध्र राजेन भाषितम् । निशम्य मुदितो हृष्टाः ते वचः प्लवगर्षभाः ॥१॥
षष्टितमः सर्गः 4.59
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
जांबवान् वानर श्रेष्ठः सह सर्वैः प्लवंगमैः । भू तलात् सहसा उत्थाय गृध्र राजानम् अब्रवीत् ॥२॥
क्व सीता केन वा दृष्टा को वा हरति मैथिलीम् । तत् आख्यातु भवान् सर्वम् गतिः भव वन ओकसाम् ॥३॥
को दाशरथि बाणानाम् वज्र वेग निपातिनाम् । स्वयम् लक्ष्मणम् मुक्तानाम् न चिंतयति विक्रमम् ॥४॥
स हरीन् प्रति संयुक्तान् सीता श्रुति समाहितान् । पुनः आश्वासयन् प्रीत इदम् वचनम् अब्रवीत् ॥५॥
श्रूयताम् इह वैदेह्या यथा मे हरणम् श्रुतम् । येन च अपि मम आख्यातम् यत्र च आयत लोचना ॥६॥
अहम् अस्मिन् गिरौ दुर्गे बहु योजनम् आयते । चिरात् निपतितो वृद्धः क्षीण प्राण पराक्रमः ॥७॥
तम् माम् एवम् गतम् पुत्रः सुपार्श्वो नाम नामतः । आहारेण यथा कालम् बिभर्ति पतताम् वरः ॥८॥
तीक्ष्ण कामाः तु गंधर्वाः तीक्ष्ण कोपा भुजंगमाः । मृगाणाम् तु भयम् तीक्ष्णम् ततः तीक्ष्ण क्षुधा वयम् ॥९॥
स कदाचित् क्षुधा आर्तस्य मम आहार कान्क्षिणः । गत सूर्यो अहनि प्राप्तो मम पुत्रो हि अनामिषः ॥१०॥
स मया आहार संरोधात् पीडितः प्रीति वर्धनः । अनुमान्य यथा तत्त्वम् इदम् वचनम् अब्रवीत् ॥११॥
अहम् तात यथा कालम् आमिष अर्थी खम् आप्लुतः । महेन्द्रस्य गिरेः द्वारम् आवृत्य च सुसमाश्रितः ॥१२॥
तत्र सत्त्व सहस्राणाम् सागर अन्तर चारिणाम् । पंथानम् एको अध्यवसम् संनिरोद्धुम् अवाङ् मुखः ॥१३॥
तत्र कश्चित् मया दृष्टः सूर्य उदय सम प्रभाम् । स्त्रियम् आदाय गच्छन् वै भिन्न अंजन चय उपमः ॥१४॥
सो अहम् अभ्यवहार अर्थम् तौ दृष्ट्वा कृत निश्चयः । तेन साम्ना विनीतेन पन्थानम् अनुयाचितः ॥१५॥
न हि साम उपपन्नानाम् प्रहर्ता विद्यते भुवि । नीचेषु अपि जनः कश्चित् किम् अङ्ग बत मत् विधः ॥१६॥
स यातः तेजसा व्योम संक्षिपन् इव वेगतः । अथ अहम् खे चरैः भूतैः अभिगम्य सभाजितः ॥१७॥
दिष्ट्या जीवति सीत इति हि अब्रुवन् माम् महर्षयः । कथंचित् स कलत्रः असौ गतः ते स्वस्ति असंशयम् ॥१८॥
एवम् उक्तः ततो अहम् तैः सिद्धैः परम शोभनैः । स च मे रावणो राजा रक्षसाम् प्रतिवेदितः ॥१९॥
पश्यन् दाशरथेः भार्याम् रामस्य जनक आत्मजाम् । भ्रष्ट आभरण कौशेयाम् शोक वेग पराजिताम् ॥२०॥
राम लक्ष्मणयोः नाम क्रोशन्तीम् मुक्त मूर्धजाम् । एष काल अत्ययः तात इति वाक्यविदाम् वरः ॥२१॥
एतत् अर्थम् समग्रम् मे सुपार्श्वः प्रत्यवेदयत् । तत् श्रुत्वा अपि हि मे बुद्धिः न आसीत् काचित् पराक्रमे ॥२२॥
अपक्षो हि कथम् पक्षी कर्म किंचित् समारभेत् । यत् तु शक्यम् मया कर्तुम् वाक् बुद्धि गुण वर्तिना ॥२३॥
श्रूयताम् तत्र वक्ष्यामि भवताम् पौरुष आश्रयम् । वाक् मतिभ्याम् हि सार्वेषाम् करिष्यामि प्रियम् हि वः ॥२४॥
यत् हि दाशरथेः कार्यम् मम तत् न अत्र संशयः । तत् भवन्तो मति श्रेष्ठा बलवन्तो मनस्विनः ॥२५॥
प्रहिताः कपि राजेन देवैः अपि दुरासदाः । राम लक्ष्मण बाणाः च निशिताः कंक पत्रिणः ॥२६॥
त्रयाणाम् अपि लोकानाम् पर्याप्ताः त्राण निग्रहे । कामम् खलु दशग्रीवः तेजो बल समन्वितः । भवताम् तु समर्थानाम् न किंचित् अपि दुष्करम् ॥२७॥
तत् अलम् काल संगेन क्रियताम् बुद्धि निश्चयः । न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवत् विधाः ॥२८॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे एको न षष्टितमः सर्गः ॥