रामायणम्

षष्टितमः सर्गः 4.60

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

ततः कृत उदकम् स्नातम् तम् गृध्रम् हरि यूथपाः । उपविष्टा गिरौ रम्ये परिवार्य समन्ततः ॥१॥

तम् अंगदम् उपासीनम् तैः सर्वैः हरिभिः वृतम् । जनित प्रत्ययो हर्षात् संपातिः पुनः अब्रवीत् ॥२॥

कृत्वा निःशब्दम् एक अग्राः शृण्वन्तु हरयो मम । तथ्यम् संकीर्तयिष्यामि यथा जानामि मैथिलीम् ॥३॥

अस्य विन्ध्यस्य शिखरे पतितो अस्मि पुरा अनघ । सूर्य ताप परीत अंगो निर्दग्धः सूर्य रश्मिभिः ॥४॥

लब्ध संज्ञः तु षड् रात्रात् विवशो विह्वलन् इव । वीक्षमाणो दिशः सर्वा न अभिजानामि किंचन ॥५॥

ततः तु सागरान् शैलान् नदीः सर्वाः सरांसि च । वनानि च प्रदेशान् च समीक्ष्य मतिः आगताम् ॥६॥

हृष्ट पक्षि गण आकीर्णः कन्दर उदर कूटवान् । दक्षिणस्य उदधेः तीरे विन्ध्यो अयम् इति निश्चितः ॥७॥

आसीत् च अत्र आश्रमम् पुण्यम् सुरैः अपि सुपूजितम् । ऋषिः निशाकरो नाम यस्मिन् उग्र तपा अभवत् ॥८॥

अष्टौ वर्ष सहस्राणि तेन अस्मिन् ऋषिणा गिरौ । वसतो मम धर्मज्ञो स्वर् गते तु निशाकरे ॥९॥

अवतीर्य च विन्ध्य अग्रात् कृच्छ्रेण विषमात् शनैः । तीक्ष्ण दर्भाम् वसुमतीम् दुःखेन पुनर् आगतः ॥१०॥

तम् ऋषिम् द्रष्टु कामो अस्मि दुःखेन अभ्यागतो भृशम् । जटायुषा मया चैव बहुशो अभिगतो हि सः ॥११॥

तस्य आश्रम पदाभ्याशे ववुः वाताः सुगन्धिनः । वृक्षो न अपुष्पितः कश्चित् अफलो वा न दृश्यते ॥१२॥

उपेत्य च आश्रमम् पुण्यम् वृक्ष मूलम् उपाश्रितः । द्रष्टु कामः प्रतीक्षे च भगवंतम् निशाकरम् ॥१३॥

अथ पश्यमि दूरस्थम् ऋषिम् ज्वलित तेजसम् । कृत अभिषेकम् दुर्धर्षम् उपावृत्तम् उदन् मुखम् ॥१४॥

तम् ऋक्षाः सृमरा व्याघ्राः सिंहा नाना सरी सृपाः । परिवार्य उपगच्छन्ति दातारम् प्राणिनो यथा ॥१५॥

ततः प्राप्तम् ऋषिम् ज्ञात्वा तानि सत्त्वानि वै ययुः । प्रविष्टे राजनि यथा सर्वम् स अमात्यकम् बलम् ॥१६॥

ऋषिः तु दृष्ट्वा माम् तुष्टः प्रविष्टः च आश्रमम् पुनः । मुहूर्त मात्रान् निर्गम्य ततः कार्यम् अपृच्छत ॥१७॥

सौम्य वैकल्यताम् दृष्ट्वा रोम्णाम् ते न अवगम्यते । अग्नि दग्धौ इमौ पक्षौ प्राणाः चापि शरीरके ॥१८॥

गृध्रौ द्वौ दृष्ट पूर्वौ मे मातरिश्व समौ जवे । गृध्राणाम् चैव राजानौ भ्रातरौ काम रूपिणौ ॥१९॥

ज्येष्ठो अवित स्त्वम् तु संपाते जटायुः अनुजः तव । मानुषम् रूपम् आस्थाय गृह्णीताम् चरणौ मम ॥२०॥

किम् ते व्याधि समुत्थानम् पक्षयोः पतनम् कथम् । दण्डो वा अयम् धृतः केन सर्वम् आख्याहि पृच्छतः ॥२१॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे षष्टितमः सर्गः ॥

Listen to the sarga
0:00