रामायणम्

षष्टितमः सर्गः 4.61

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

ततः तत् दारुणम् कर्म दुष्करम् साहसात् कृतम् । आचचक्षे मुनेः सर्वम् सूर्य अनुगमनम् तथा ॥१॥

भगवन् व्रण युक्तत्वात् लज्जया च अकुल इन्द्रियः । परिश्रान्तो न शक्नोमि वचनम् परिभाषितुम् ॥२॥

अहम् चैव जटायुः च संघर्षात् दर्प मोहितौ । आकाशम् पतितौ दूरात् जिज्ञासन्तौ पराक्रमम् ॥३॥

कैलास शिखरे बद्ध्वा मुनीनाम् अग्रतः पणम् । रविः स्यात् अनुयातव्यो यावत् अस्तम् महागिरिम् ॥४॥

अपि आवाम् युगपत् प्राप्तौ अपश्याव मही तले । रथ चक्र प्रमाणानि नगराणि पृथक् पृथक् ॥५॥

क्वचित् वादित्र घोषः च क्वचित् भूषण निःस्वनः । गायन्तीः स्म अंगना बह्वीः पश्यावो रक्त वाससः ॥६॥

तूर्णम् उत्पत्य च आकाशम् आदित्य पथम् आस्थितौ । आवाम् आलोकयावः तत् वनम् शाद्वल संस्थितम् ॥७॥

उपलैः इव संछन्ना दृश्यते भूः शिल उच्चयैः । आपगाभिः च संवीता सूत्रैः इव वसुंधरा ॥८॥

हिमवान् चैव विन्ध्यः च मेरुः च सुमहान् गिरिः । भू तले संप्रकाशन्ते नागा इव जल आशये ॥९॥

तीव्रः स्वेदः च खेदः च भयम् च आसीत् तदा अवयोः । समाविशत मोहः च ततो मूर्च्छा च दारुणा ॥१०॥

न च दिक् ज्ञायते याम्या न आग्नेयी न च वारुणी । युग अन्ते नियतो लोको हतो दग्ध इव अग्निना ॥११॥

मनः च मे हतम् भूयः चक्षुः प्राप्य तु संश्रयम् । यत्नेन महता हि अस्मिन् मनः संधाय चक्षुषी ॥१२॥

यत्नेन महता भूयो भास्करः प्रतिलोकितः । तुल्यः पृथ्वी प्रमाणेन भास्करः प्रतिभाति नौ ॥१३॥

जटायुः माम् अनापृच्छ्य निपपात महीम् ततः । तम् दृष्ट्वा तूर्णम् आकाशात् आत्मानम् मुक्तवान् अहम् ॥१४॥

पक्षभ्याम् च मया गुप्तो जटायुः न प्रदह्यत । प्रमादात् तत्र निर्दग्धः पतन् वायु पथात् अहम् ॥१५॥

आशन्के तम् निपतितम् जनस्थाने जटायुषम् । अहम् तु पतितो विन्ध्ये दग्ध पक्षो जडी कृतः ॥१६॥

राज्यात् हीनो भ्रात्रा च पक्षाभ्याम् विक्रमेण च । सर्वथा मर्तुम् एव इच्छन् पतिष्ये शिखरात् गिरेः ॥१७॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे एक षष्टितमः सर्गः ॥

Listen to the sarga
0:00