एवम् उक्त्वा मुनिश्रेष्ठम् अरुदम् भृश दुःखितः । अथ ध्यात्वा मुहूर्तम् तु भगवान् इदम् अब्रवीत् ॥१॥
षष्टितमः सर्गः 4.62
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
पक्षौ च ते प्रपक्षौ च पुनः अन्यौ भविष्यतः । चक्षुषी चैव प्राणाः च विक्रमः च बलम् च ते ॥२॥
पुराणे सुमहत् कार्यम् भविष्यम् हि मया श्रुतम् । दृष्टम् मे तपसा चैव श्रुत्वा च विदितम् मम ॥३॥
राजा दशरथो नाम कश्चित् इक्ष्वाकु वर्धनः । तस्य पुत्रो महातेजा रामो नाम भविष्यति ॥४॥
अरण्यम् च सह भ्रात्रा लक्ष्मणेन गमिष्यति । तस्मिन् अर्थे नियुक्तः सन् पित्रा सत्य पराक्रमः ॥५॥
नैर्ऋतो रावणो नाम तस्य भार्याम् हरिष्यति । राक्षसेन्द्रो जनस्थानात् अवध्यः सुर दानवैः ॥६॥
सा च कामैः प्रलोभ्यन्ती भक्ष्यैः भोज्यैः च मैथिली । न भोक्ष्यति महाभागा दुःख मग्ना यशस्विनी ॥७॥
परमान्नम् च वैदेह्या ज्ञात्वा दास्यति वासवः । यत् अन्नम् अमृत प्रख्यम् सुराणाम् अपि दुर्लभम् ॥८॥
तत् अन्नम् मैथिली प्राप्य विज्ञाय इन्द्रात् इदम् तु इति । अग्रम् उद्धृत्य रामाय भू तले निर्वपिष्यति ॥९॥
यदि जीवति मे भर्ता लक्ष्मणो वा अपि देवरः । देवत्वम् गतयोः वा अपि तयोः अन्नम् इदम् तु इति ॥१०॥
एष्यन्ति प्रेषिताः तत्र राम दूताः प्लवंगमाः । आख्येया राम महिषी त्वया तेभ्यो विहंगम ॥११॥
सर्वथा तु न गंतव्यम् ईदृशः क्व गमिष्यसि । देश कालौ प्रतीक्षस्व पक्षौ त्वम् प्रतिपत्स्यसे ॥१२॥
उत्सहेयम् अहम् कर्तुम् अद्य एव त्वाम् स पक्षकम् । इह स्थः त्वम् तु लोकानाम् हितम् कार्यम् करिष्यसि ॥१३॥
त्वया अपि खलु तत् कार्यम् तयोः च नृप पुत्रयोः । ब्राह्मणानाम् गुरूणाम् च मुनीनाम् वासवस्य च ॥१४॥
इच्छामि अहम् अपि द्रष्टुम् भ्रातरौ राम लक्ष्मणौ । न इच्छे चिरम् धारयितुम् प्राणान् त्यक्ष्ये कलेवरम् । महर्षि तु तत् अब्रवीत् इदम् दृष्ट तत्त्व अर्थ दर्शिनः ॥१५॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे द्वि षष्टितमः सर्गः ॥